________________
१०४
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् ९/-/४१ 'ताजयान'मित्यादि, तत्रयदा सर्वबाजुमण्डलमुपसंक्र म्यचारंचरतितदाउत्तमकाष्ठाप्राप्ता उत्कर्षिका अष्टादशमुहूर्ता रात्रिभवति, जघन्यो द्वादशमुहूर्तो दिवसः, तस्मिंश्च दिवसे सूर्यो द्विपौरुषी-पुरुषद्वयप्रमाणां छायां निवर्तयति, तद्यथा-उद्गमनमुहूर्ते अस्तमयमुहूर्ते च, सच तदा द्विपौरुषीं छायां निवर्तयति, लेश्यामभिवर्द्धयन् नो चैव निर्वेष्टयन्, अस्य वाक्यस्य भावार्थ प्राग्वद्भावनीयः । तथा तत्र-तेषां द्वयानां मध्ये येवादिन एवामहु:-अस्ति स दिवसो यस्मिन् दिवसे स सूर्यो द्विपौरुषी छायां निवर्तयति अस्ति स दिवसो यस्मिन् दिवसे सूर्यो न कांचिदपि पौरुषीं छायां निवर्त्तयति त एवं स्वमतविभावनार्थमाचक्षते
ताजयाणं० तत्र यदा सूर्य सर्वाभ्यन्तरमण्डलमुपनं म्यचारंचरति तदा उत्तम-काष्ठाप्राप्त उत्कर्षकोऽष्टादशमुहूर्तो दिवसो भवति, जघन्या द्वादशमुहूर्त्तारात्रि, तस्मिंश्चदिवसे सूर्यो द्विपौरुषीं छायां निर्वर्त्तयति, तद्यथा-उद्गमनमुहूर्तेऽस्तमयमुहूर्तेच, सच तदानीं द्विपौरुषी छायांनिर्वर्त्तयति लेश्यामभिवर्द्धयन्नो चैवनिर्वेष्टयन्, तत्रयदाणमितिवाक्यालङ्कारे सूर्य सर्वबाह्यमण्डलमुपसंक्र म्य चारंचरति तदा उत्तमकाष्ठाप्राप्ता उत्कर्षिका अष्टाद-शमुहूर्ता रात्रि, जघन्यो द्वादशमुहूर्त्तप्रमामो दिवसस्तस्मिंश्चदिवसे उद्गमनमुहूर्तेऽस्तमयमुहूर्तेच सूर्योन काञ्चिदपिपौरुषींछायां निवर्तयति, 'नो चेव ण०' न च-नैव तदानीं सूर्यो लेश्यामभिवर्द्धयन् भवति निर्वेष्टयन् वा, अभिवर्द्धयने अधिकाधिकतराया निर्वेष्ट्रयने हीनहीनतरायाश्छायायाः सम्भवप्रसङ्गात् ।
तदेवं परतीर्थि-कप्रतिपत्तिद्वयं श्रुत्वा भगवान् गौतमः स्वमतं पृच्छति'ता कइकट्ठ'मित्यादि, यद्येवं परतीर्थिकानां प्रतिपत्ती 'ता' तर्हि भगवान् स्वमतेन त्वया कतिकाष्ठां-किंप्रमाणां सूर्य पौरुषी छायां निवर्तयन् आख्यात इति वदेत् ?, तत्र भगवान् स्वमतेन देशविभागतः पौरुषीं छायांतथा तथा अनियतप्रमाणां वक्ष्यति, परतीर्थिकास्तुप्रतिनियतामेव प्रतिदिवसं देशविभागेनेच्छंति ततः प्रथमतस्तन्मतान्येवो- पदर्शयति तत्थे' त्यादि, तत्र-तस्मिन देशविभागेन प्रतिदिवसं प्रतिनियतायाः पौरुष्याश्छायाया विषयेषन्नवतिप्रतिपत्तयः प्रज्ञप्ताः, तद्यथा-तत्र-तेषांषन्नवतेः परतीर्थिकानांमध्ये एके एवमाहुः, ता इति पूर्ववत्, अस्तिस देशो यस्मिन् देशे सूर्य आगतः सन् एकपौरुषीं-एक पुरुषप्रमाणां पुरुषग्रहणमुपलक्षणं सर्वस्यापि प्रकाश्यवस्तुनःस्वप्रमाणांछायां निर्वर्तयति, अनोपसंहारः- “एगे एवमाहंसु' १, ‘एके पुनरेवमाहुः-अस्ति स देशो यस्मिन् देशे समागतः सूर्योद्विपौरुषीं-द्विपुरुषप्रमाणां पुरुषग्रहणस्योपलक्षणत्वात् सर्वस्पिवस्तुनः प्रकाश्यस्य द्विगुणामित्यर्थ, छायां निवर्तयति, अत्रोपसंहारः-‘एगे एवमाहंसु' २, एव'मित्यादि, एवमुक्तेन प्रकारेण एतेनानन्तरो- दितेनाभिलापेन-सूत्रपाठगमेन शेषप्रतिपत्तिगतमपि सूत्रं नेतव्यं तावद्यावच्चरमप्रतिपत्तिगतं सूत्रं, तदेव खण्डशो दर्शयति-'छन्नउ'इत्यादि, एतच्चैवं परिपूर्ण द्रष्टव्यं-'एगे पुण एवमाहंसु, अस्थिणं से देसे जंसिणं देसंसि सूरिएछनउइपोरसिं छायं निव्वत्तइ आहियत्तिवएजाएगेएवमाहंसु' मध्यमप्रतिपत्तिगतास्त्वालापकाःसुगमत्वात्स्वयंपरिभावनीयाः, सम्प्रत्येतासामेव षन्नवतिप्रति- पत्तीनां भावनिकां चिकीर्षुराह_ 'तत्थे' त्यादि, तत्र-तेषां षन्नवतिपरतीथिकानां मध्ये ये ते वादिन एवमाहुः-अस्ति स देशो यस्मिन् देशे समागतः सूर्य एकपौरुषी-प्रकाश्यवस्तुनः स्वप्रमाणां छायां निवर्त्तयति त एवं स्वमतविभावनार्थमाहुः–'ता सूरियस्स णमित्यादि, ता इति पूर्ववत्, सूर्यस्य सर्वाधस्तनात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org