SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनाउपाङ्गसूत्रम्-२-१८/-/६/४७८ तस्याः पुंस्त्वमेवन स्त्रीत्वंतत एवंजघन्यतः समयमात्रंस्त्रीवेदः, उत्कर्षचिन्तायामियंप्रथमादेशभावना-कश्चिजन्तु रीषु तिरश्चीषु वा पूर्वकोट्यायुष्कासु मध्ये पञ्चान् भवान् अनुभूय ईशाने कल्पे पञ्चपञ्चाशप्रमाणपल्योपमोत्कृष्टस्थितिष्वपरिगृहीतासु देवीषु मध्ये देवीत्वेनोत्पन्नस्ततः स्वायु:-क्षये च्युत्वा भूयोऽपि नारीषु तिरश्चीषु वा पूर्वकोट्यायुष्कासु मध्ये स्त्रीत्वेनोत्पन्नस्ततो भूयोऽपिद्वितीयंवारंईशाने देवलोके पञ्चपञ्चाशत्पल्योपमप्रमाणोत्कृष्टायुष्कास्वपरिगृहीतदेवीषु मध्ये देवीत्वेनोत्पन्नस्ततः परमवश्यं वेदनान्तरमेव गच्छति, एवं दशोत्तरंपल्योपमशतं पूर्वकोटिपृथकत्वाभ्यधिकं प्राप्यते, अत्र पर आह __ननुयदि देवकुरुत्तरकुर्वादिषुपल्योपमत्रयस्थितिकासुस्त्रीषुमध्ये समुपपद्यते ततोऽधिकाऽपि स्त्रीवेदस्य स्थितिरवाप्यते, ततः किमित्येतावत्येवोपदिष्टा?, तदयुक्तमभिप्रायापरिज्ञानात्, तथाहि-इह तावद्देवीभ्यश्युत्वा असङ्खयेयवर्षायुष्कासु स्त्रीषु मध्ये नोत्पद्यते, देवयोनेश्युतानां असङ्खयेयवर्षायुष्केषु मध्ये उत्पादप्रतिषेधात्, नाप्यसङ्खयेयवर्षायुष्का सती योषित् उत्कृष्टासु देवीषुजायते, यत उक्तं मूलटीकाकृता-“जत्तोअसंखेजवासाउया उक्कोसट्टिईन पावेइ" इति, ततो यथोक्तप्रमाणैवोत्कृष्टा स्थिति; स्त्रीवेदस्यावाप्यते, द्वीतायदेशवादिनः पुनरेवमाहुः नारीषु तिरश्चीषु वा पूर्वकोट्यायुष्कासु मध्ये पञ्चान् भवान् अनुभूय पूर्वप्रकारेणेशानदेवलोकेषु वारद्वयमुत्कृष्टस्थितिकासु देवीषु मध्ये उत्पद्यमाना नियमतः परिगृहीतास्वेवोत्पद्यते नापरिगृहीतासुततस्तन्मतेनोत्कृष्टमवस्थानं स्त्रीवेदस्याष्टादशपल्योपमानि पूर्वकोटिपृथकत्वंच, तृतीयादेशवादिनां तु सौधर्मदेवलोके परिगृहीतासु सप्तपल्योपमप्रमाणोत्कृष्टायुष्कासु वारद्वयं समुत्पद्यते, ततस्तन्मतेन चतुर्दशपल्योपमानिपूर्वकोटिपृथकत्वाभ्यधिकानिस्त्रीवेदस्य स्थितिः, चतुथदिशवादिनांतुमतेन सौधर्मदेवलोके पञ्चाशत्पल्योपमप्रमाणोत्कतृष्टास्वपरिगृहीतदेवीष्वपि पूर्वप्रकारेणवारद्वयं देवीत्वेनोत्पद्यते, ततस्तन्मतेनपल्योपमशतंपूर्वकोटिपृथकत्वाभ्यधिकमवाप्यते, पञ्चमादेशवादिनः पुनरिदमाहुः नानाभवभ्रमणद्वारेण यदि स्त्रीवेदस्योत्कृष्टमवस्थानं चिन्त्यतेतर्हि पल्योपमपृथकत्वमेव पूर्वकोटीपृथकत्वाभ्यधकं प्राप्यतेन ततोऽधिकं, कथमेतदिति चेत् ?, उच्यते, नारीषु तिरश्चीषु वापूर्वकोट्यायुष्कासुमध्ये सप्त भवाननुभूयाष्टमभवे देवकुर्वादिषु त्रिपल्योपमस्थितिषु स्त्रीमध्ये स्त्रीत्वेन समुत्पद्यते, ततो मृत्वा सौधर्मे देवलोकेजघन्यस्थितिकासुदेवीषुमध्ये देवीत्वेनोपजायते, तदनन्तरं चावश्यं वेदान्तरमभिगच्छति इति, अमीषां पञ्चानामादेशानामन्यतमादेशसमीचीनतानिर्णयोऽतिशयज्ञानिभिःसर्वोत्कृष्टश्रुतलब्धिसम्पन्नैर्वाकर्तुशक्यते, तेचभगवदार्यश्यामप्रतिपत्ती नासीरन्, केवलं तत्कालापेक्षयायेपूर्वतमाः सूरयस्तत्कालभाविग्रन्थपौर्वापर्यपर्यालोचनया यथास्वमति स्त्रीवेदस्य स्थितिंप्ररूपितवन्तस्तेषां सर्वेषामपिप्रावचनिकसूरीणां मतानि भगवानार्यश्याम उपदिष्टवान्, तेऽपि च प्रावचनिकसूरयःस्वमतेन सूत्रं पठन्तो गौतमप्रश्नभगवनिर्वचनरूपतया पठन्ति, ततस्तदवस्थान्येव सूत्राणि लिखता गोतमा! इत्युक्तं, अन्यथा भगवतिगौतमाय निर्देष्टरि न संशयकथनमुपपद्यते, भगवतःसकलसंशयातीतत्वात्, पुरुषवेदसूत्रे जघन्यतोऽन्तर्मुहूर्तमिति, यदा कश्चिदन्यवेदेभ्यो जीवेभ्य उध्धृ त्य पुरुषवेदेषूत्पद्यतत्रचान्तर्मुहूर्तसर्वायुर्जीवित्वा गत्यन्तरेअन्यवेदेषुमध्ये समुत्पद्यते तदापुरुषवेदस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy