________________
९७
पदं-१८, उद्देशकः-, द्वारं-६ ... जधन्यतोऽन्तर्मुहूर्तमवस्थानं लभ्यते, उत्कृष्टमानं कण्ठयं
नपुंसकवेदसूत्रे जघन्यतः एकः समयः स्त्रीवेदस्येवभावनीयः, उत्कर्षतोवनस्पतिकालः, स च प्रागेवोक्तः, एतच्च सांव्यवहारिकजीवानधिकृत्य यदा चिन्ता क्रियते यदा त्वसांव्यवहारिकजीवानधिकृत्य चिन्ता क्रियते तदा द्विविधा नपुंसकवेदाद्धा, कांश्चिदधिकृत्यानाद्यपर्यवसाना, ये न जातुचिदपि सांव्यवहारिकराशौ निपतिष्यन्ति, कांश्चिदधिकृत्य पुनरनादिसपर्यवसाना, ये असांव्यवहारिकराशेरुवृत्य सांव्यवहारिककराशावागमिष्यन्ति,
अथ किमसांव्यवहारिकराशेरपि विनिर्गत्य सांव्यवहारिकराशावागच्छन्ति येनैवंप्ररूपणा क्रियते?, उच्यते, आगच्छन्ति, कथमेतदवसेयमिति चेत् ?, उच्यते, पूर्वाचार्योपदेशात्, तथा चाह दुष्षमान्धकारनिमग्नजिनप्रवचनप्रदीपो भगवान् जिनभद्रगणिक्षमाश्रमणः॥१॥ “सिझंति जत्तिया किर इह संववहारजीवरासीओ।
एंति अणाइवणस्सइरासीओ तत्तिया तंमि॥" अवेदको द्विधा-साद्यपर्यवसितः सादिसपर्यवसितश्च, तत्र यः क्षपकश्रेणिप्रतिपद्यावेदको भवति स साद्यपर्यवसितः, क्षपक श्रेणेः प्रतिपातासम्भवात्, यस्तूपशमश्रेणिं प्रतिपद्यावेदकोजायते स सादिसपर्यवसितः, स च जघन्येनैकं समयं, कथमेकं समयमिति चेत् ?, उच्यते, यदा एकसमयमवेदको भूत्वा द्वितीयसमये पञ्चत्वमुपागच्छति तदा तस्मिन्नेव पञ्चत्वसमये देवेषूत्पन्नः पुरुषवेदेदयेन सवेदको भवति, तत एवं जघन्यत एवं समयमवेदकः, उत्कर्षतोऽन्तर्मुहूर्त, परतोऽवश्यं श्रेणीतःप्रतिपाते वेदोदयसद्भावात् इति । गतं वेदद्वारमिदानीं कषायद्वारं, तत्रेदमादिसूत्रम्
-पदं-१८-दारं-७:- "कषाय" :मू. (७९) सकसाई णं भंते ! सकसादित्ति काल०?, गो० ! सकसाती तिविधे पं०, तं०-अणादीए वा अपज्जवसिते अणादीए वा सपज्जवसिते सादीए वा सपज्जवसिते जाव अवर्ल्ड पोग्गलपरियट्ट देसूणं,
कोहकसाई णं भंते! पुच्छा, गो०! जह० उक्को० अंतोमुहुत्तं, एवंजाव मानमायकसाती, लोभकसाई णं भंते! लोभ० पुच्छा, गो०! जह० एवं समयं उक्को० अंतोमु०,
__ अकसाईणंभंते! अकसादित्तिकाल०?, गो०! अकसादी दुविहे पं०, तं०-सादीए वा अपज्जवसिते सादीए वा सपज्जवसिते, तत्थ णं जे से सादीए सपज्जवसिते से जह० एगं समयं उक्को० अंतो०।
वृ. 'सकसाईणंभंते!' इत्यादि, सह कषायो येषांयैर्वातेसकषाया-जीवपरिणामविशेषास्ते विद्यन्ते यस्य स सकषायी, इदं सकलमपि सूत्रं सवेदसूत्रवदविशेषेण भावनीयं, समानभावेनोक्तत्वात्, ‘कोहकसाई णं भंते !' इत्यादि, जघन्यतोऽप्यन्तर्मुहूर्तं इति उत्कतर्षतोऽप्यन्तर्मुहूर्त्तमिति- क्रोधकषायोपयोगस्य जघन्यत उत्कर्षतो वाऽन्तर्मुहूर्तप्रमाणत्वात्, तथाजीवस्वाभाव्यात्, इदं च सूत्रचतुष्टयमपि विशिष्टोपयोगापेक्षमिति, लोभकषायी जघन्येनैकं समयमिति,
1117
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org