SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ९४ प्रज्ञापनाउपाङ्गसूत्रम्-२-१८/-/४/४७६ स्यासङ्खयेयतमे भागेयावन्त आकाशप्रदेशास्तेषांप्रतिसमयंएकैकप्रदेशापहारेयावन्त्योऽसङ्खयेया उत्सर्पिण्यवसर्पिण्यो भवन्ति तावत्य इति, अथ कथं अङ्गुलासङ्खयेयभागमात्रस्यापिप्रतिसमयमेकैकप्रदेशापहारेअसङ्घयेया उत्सर्पिण्यवसपिण्यो लगन्ति?, उच्यते, क्षेत्रस्य सूक्ष्मत्वात्, उक्तंच “सुहुमोय होइ कालो तत्तोसुहुमयरयंहवइखित्त" मित्यादि, एतच्च बादरवनस्पतिकायापेक्षयाऽवसातव्यं, अन्यस्य बादरस्यैतावत्का यस्थितेरसम्भवात्, शेषसूत्राणि द्वारसमाप्तिं यावत् सुगमानि । गतं कायद्वारम्, इदानीं योगद्वारमभिधित्सुराह -: पदं-१८, दारं-५“योगः":मू. (४७७) सजोगीणंभंते! सजोगित्तिकाल०?, गो०! सजोगीदुविहे पं०, तं०-अणादीए वा अपज्जवसिते अणादीए वा सपज्जवसिते, मनजोगी णं भंते ! मनजोगीत्ति कालतो०? गो० ! ज० एकं समयं उक्को० अंतो०, एवं वइजोगीवि, कायजोगीणं भंते ! काल०?, गो०! जहन्नेणं अंतो० उक्को० वणप्फइकालो, अजोगी णं भंते ! अजोगित्ति काल केवचिरं होति?, गो० ! सादीए अपज्जवसिते। वृ. 'सजोगीणंभंते!' इत्यादि, योगाः-मनोवाक्कायव्यापाराः, योगा एषांसन्तीति योगिनः मनोवाक्कायाः सहयोगिनो यस्य येन वा स सयोगी, अत्र निर्वचनं 'सजोगी दुविहे पं०' इत्यादि, अनाद्यपर्यवसितो यो न जातुचिदपि मोक्षं गन्ता स हि सर्वकालमवश्यमन्यतमेन योगेन सयोगी ततोऽनाद्यपर्यवसितो, यस्तुयास्यतिमोक्षं सोऽनादिसपर्यवसितः, मुक्तिपर्यायप्रादुर्भावे योगस्य सर्वथापगमात्, ___ मनोयोगिसूत्रे जघन्यतः एक समयमिति-यदा कश्चिदौदारिककाययोगेन प्रथमसमयेन मनोयेग्यान् पुद्गलानादाय द्वितीयसमये मनस्त्वेन परिणमय्य मुञ्चति तृतीयसमये चोपरमते म्रियते वा तदा एकं समयं मनोयोगी लभ्यते, उत्कर्षतोऽन्तर्मुहूर्त, निरन्तरं मनोयोग्यपुद्गलानां ग्रहणनिसर्गौ कुर्वन्ततऊद्धर्वंसोऽवश्यंजीवस्वाभाव्यादुपरमते, उपरम्यच भूयोऽपिग्रहणनिसर्गी करोति, परं कालसौक्ष्म्यात् कदाचिन्न स्वसंवेदनपथमायाति, तत उत्कर्षतोऽपि मनोयोगोऽन्तमुहूर्तमेव, एवं 'वयजोगीवि' इति, एवं मनोयगीव वाग्योग्यपि वक्तव्यः, तद्यथा-'वइजोगीणं भंते ! वइजोगीति कालओ केवचिरं होति?, गो० ! जह० एकं समयं उक्को० अंतोमुहुत्त मिति तत्र यः प्रथमसमये काययोगेन भाषायोग्यानि द्रव्याणि गृह्णाति द्वितीयसमये तानि भाषात्वेन परिणमय्य मुञ्चति तृतीयसमये चोपरमते म्रियते वा स एकं समयं वाग्योगी लभ्यते, आह च मूलटीकाकार: 'पढमसमये कायजोगेण गहियाणंभासादव्वाणं बिइयसमये वइजोगेण निसग्गंकाऊण उवरमंतस्स मरंतस्सवाएगसमओलब्मइ' इति, अन्तर्मुहूर्तनिरन्तरंग्रहणनिसर्गौ कुर्वन्तदनन्तरं चोपरमते, तथाजीवस्वाभाव्यात्, काययोगी जघन्यतोऽन्तर्मुहूर्त्तमिति, इह द्वीन्द्रियादीनां वाग्योगोऽपिलभ्यते, संज्ञिपञ्चेन्द्रियाणांमनोयोगोऽपि ततो यदा वाग्योगो भवति मनोयोगो वा तदान काययोगप्राधान्यमिति सादिसपर्यवसितत्वभावात् जघन्यतोऽन्तर्मुहूर्त काययोगी लभ्यते, उत्कर्षतोवनस्पतिकालः, सचप्रागेवोक्तः, वनस्पतिकायिकेषु हि काययोगएव केवलो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy