SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनाउपाङ्गसूत्रम्-२-१८/-/४/४७५ न चैतदस्ति, वनस्पतीनामनादित्वस्य निर्लेपनप्रतिषेधस्य सर्वभव्यासिद्धेर्मोक्षपथाव्यवच्छेदस्य च तत्र तत्र प्रदेशे सिद्धान्तेऽभिधानात्, उच्यते, इह द्विविधा जीवाः सांव्यवहारिका असांव्यवहारिकाश्चेति, तत्र ये निगोदावस्थात् उद्वृत्त्य पृथिवीकायिकादिभेदेषु वर्तन्ते ते लोकेषु दृष्टिपथमागताः सन्तःपृथिवीकायिकादिव्यवहारमनुपतन्तीति व्यवहारिका उच्यन्ते, ते च यद्यपि भूयोऽपि निगोदावस्थामुपयान्ति तथापि ते सांव्यवहारिका एव, संव्यहारे पतितत्वात्, ये पुनरनादिकालादारभ्य निगोदावस्थामुपगता एवावतिष्ठन्ते ते व्यवहारपथातीतत्वादसांव्यवहारिका;, कथमेतदवसीयते ? द्विविधाः जीवाः सांव्यवहारिकाः असांव्यवहारिकाश्चेति, उच्यते, युक्तिवशात्, इहप्रत्युत्पन्नवनस्पतीनामपि निर्लेपनमागमेप्रतिषिद्धं, किं पुनः सकलवनस्पतीनां, तथा भव्यानामपि, य(त)च्च यद्यसांव्यवहारिकराशिनिपतिता अत्य न्तवनस्पतयोनस्युः ततः कथमुपपद्येत?,तस्मादवसीयतेअस्त्यसांव्यवहारिकराशिरपियद्गतानां वनस्पतीनामनादिता, किं चेयमपि गाथा गुरूपदेशादागता समये प्रसिद्धा॥१॥ “अस्थि अनंता जीवा जेहिं न पत्तो तसाइपरिणामो। तेवि अनंतानंता निगोयवासं अनुवसंति ॥" -तत इतोऽप्यसांव्यवहारिकराशिः सिद्धः, उक्तंच॥१॥ “पचुप्पन्नवणस्सईण निल्लेवणं न भव्वाणं । जुत्तं होइन तंजइ अचंतवणस्सई नत्थि॥ ॥२॥ एवमणादिवणस्सईणमत्थित्तमत्थओ सिद्धं । भन्नइ य इमावि गाहा गुरूवएसागया समये॥ अत्थि अनंता जीवा०" इत्यादि, तत्रेदं सूत्रसांव्यवहारिकानधिकृत्यावसेयं, नचासांव्यवहारिकान्, अविषयत्वात् सूत्रस्य, नचैतत् स्वमनीषिकाविजृम्भितं, यत आहुः जिनभद्रगणिक्षमाश्रमणपूज्यापादाः॥१॥ "तह कायट्टिइकालादओ विसेसे पडुच्च किर जीवे। नाणाइवणस्सइणोज संववहारबाहिरया॥" अत्रादिशब्दात्सर्वैरपिजीवैः श्रुतमनन्तशः स्पृष्टमित्यादि यदस्यामेव प्रज्ञापनायां वक्ष्यति प्रागुक्तं च तत्परिग्रहः, ततो न कश्चिद्दोषः । त्रसकायसूत्रं सुप्रतीतं ॥ एतानेव त्रसकायिकादीन्पर्याप्तापर्याप्तविशेषणविशिष्टाचिन्तयन्नाह–“सकाइयअपजत्तए णंभंते!' इत्यादि, सुगम, नवरं तेजःकायसूत्रे उत्कर्षतः सङ्केयानि रात्रिन्दिवानीति, तेजःकायस्य हिभवस्थितिरुत्कर्षतोऽपि त्रीणि रात्रिन्दिवानि, ततो निरन्तरकतिपयपर्याप्तभवकालसंकलनायामपि सङ्घयेयनानि रात्रिन्दिवान्येव लभ्यनते, न तु वर्षाणि वर्षसहस्पणि वा। सम्प्रति कायद्वारान्तःप्रवेशसंभवात् सूक्ष्मकायिकादीन्निरूपयितुकाम आह० मू. (४७६) सुहुमेणं भंते ! सुहुमेत्ति कालतो केवचिरं होति?, गो०! जह० अंतो० उ० असंखेजं कालं असंखेज्जाओ उस्सप्पिणिओसप्पिणीतो कालतो खेत्ततो असंखेजा लोगा, सुहुमपुढविकाइते सुहुमआउका० सुहुमतेउका० सुहुमवाउका० सुहुमवणप्फकाइते० सुहुमनिगोदेवि ज० अंतोमुहुत्तं उक्को० असंखेज्जं कालं असंखिज्जाओ उस्सप्पिणिओसप्पिणीतो कालतो खेत्ततोअसंखेजा लोगा, सुहुमेणंभंते ! अपज्जत्तएत्ति पुच्छा, गो०! ज० उ० अंतोमुहुत्तं, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy