________________
९१
पदं-१८, उद्देशकः-, द्वार-४ सहस्साइं, तसकाइयपजत्तए पुच्छा, गोयमा! जहन्नेणंअंतोमुहत्तंउक्कोसेणंसागरोवमसयपुहुत्तंसातिरेगं।
वृ.सकाइएणंभंते!' इत्यादि, सह कायो यस्य येन वा ससकायः "सकाय एवसकायिकः आर्षत्वात्स्वार्थे इकप्रत्ययः, कायः-शरीरं, तच्चदारिकवैक्रियाहारकतैजसकार्मणभेदात् पञ्चधा, तत्रेह कार्मणं तैजसंवा द्रष्टव्यं, तस्यैवाऽऽसंसारभावात्, अन्यथा विग्रहगतौ वर्तमानस्य शरीरपर्याप्तया पर्याप्तस्य च शेषशरीरासंभवादकायिकत्वं स्यात्, तथा च सति निर्वचनसूत्रप्रतिपादितं द्वैविध्यं नोपपद्यते, अथ निर्वचनसूत्रमाह___'काइए दुविहे पन्नत्ते'इत्यादि, तत्र यः संसारपारगामी न भविष्यति सोऽनाद्यपर्यवसितः कदाचिदपि तस्य कायस्य व्यवच्छेदासंभवात्, यस्तु मोक्षमदिगन्ता सोऽनादिसपर्यवसितः तस्य मुक्त्यवस्थासंभवे सर्वात्मना शरीरपरित्यागात्, पृथिव्यप्तेजोवायुवनस्पतिसूत्राणि सुगमानि, अन्यत्रापि तदर्थस्य प्रतीतत्वात्, तथा चोक्तं॥१॥ “असंखोसप्पिणिओसप्पिणीओ एगिदियाण उचउण्हं ।
ताचेव उ अणंता वणस्सइए उ बोद्धव्वा ॥" ननु यदि वनस्पतिकालप्रमाणं असङ्खयेयाः पुद्गलपरावर्तास्ततो यद्गीयते सिद्धान्तेमरुदेवाजीवो यावज्जीवभावं वनस्पतिरासीदिति, तत्कथं स्यात्?, कथं वा वनस्पतीनामनादित्वं, प्रतिनियतकालप्रमाणतया वनस्पतिभावस्यानादित्वविरोधात्, तथाहि-असङ्खयेयाः पुद्गलपरा वस्तेिषामवस्थानमानिं, तत एतावति कालेऽतिक्रान्ते नियमात् सर्वेऽपि कायपरावर्त कुर्वते, यथा स्वस्थितिकालान्ते सुरादयः, उक्तंच
"जइ पुग्गलपरियट्टा संखाईया वणस्सईकालो।
तो अचंतवणस्सईणमणाइयत्तमहेतूओ॥ ॥२॥ न य मरुदेवाजीवो जावजीवं वणस्सई आसी।
जमसंखेज्जा पुग्गलपरियट्टा तत्थऽवत्थाणं ।। ॥३॥ कालेणेवइएणं जम्हा कुव्वंति कायपल्लढें ।
सव्वेवि वणस्सइणो ठिइकालंते जह सुराई॥" किं च-एवं यद्वनस्पतीनां निर्लेपनमागमे प्रतिषिद्धं तदपीदानी प्रसक्तं, कथमिति चेद् ?, उच्यते, इह प्रतिसमयमसङ्खयेया वनस्पतिभ्योजीवा उद्वर्तन्ते, वनस्पतीनां च कायस्थितिपरि माणमसङ्खयेयाः पुद्गलपरावस्तितो यावन्तोऽसङ्घयेयेषु पुद्गलपरावर्ततेषु समयास्तैरभ्यस्ता एकसमयोवृत्ता जीवा यावन्तो भवन्ति तावत्परिमाणमागतं वनस्पतीनां, ततः प्रतिनियतपरिमाणतया सिद्धंनिर्लेपनं, प्रतिनियतपरिमाणत्वादेव चगच्छता कालेन सिद्धिरपिसर्वेषां भव्यानां प्रसक्ता, तासक्तौ च मोक्षपथव्यवच्छेदोऽपि प्रसक्तः, सर्वभव्यसिद्धिगमनानन्तरमन्यस्य सिद्धिगमनायोगात्, आह च॥१॥ "कायट्ठिइयकालेणं तेसिमसंखज्जयावहारेणं ।
निल्लेवणमावन्नं सिद्धीविय सव्वभव्वाणं॥ पइसमयसंखेजा जेणुव्वटुंति तो तदब्भत्था । कायट्टिइए समया वणस्सईणंच परिमाणं॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org