SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनाउपाङ्गसूत्रम् -२-१८/-/२/४७३ मानुषीसूत्रे च जघन्यतोऽन्तर्मुहूर्ते उत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटीपृथकत्वाभ्यधिकानि वक्तव्यानीति, सूत्रपाठस्त्वेवं- 'मणुस्से णं भंते! मणुस्सत्ति कालओ केवच्चिरं होइ ?, गोयमा ! जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि पलिओवमाई पुव्वकोडीपुहुत्तमब्महियाई, मणुस्सी णं भंते! मणुसित्ति कालओ केवच्चिरं होइ' इत्यादि, देवसूत्रे 'जहेव नेरइए' इति, यथैव नैरयिकः प्रागुक्तः तथैव देवोऽपि वक्तव्यः, देवस्यापि जघन्यतो दश वर्षसहस्राणि उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि वक्तव्यानीति भावः, देवा अपि हि स्वभवाच्युत्वा न भूयोऽनन्तरं देवत्वेनोपपद्यन्ते "नो देवे देवेसु उववज्जइ" इति वचनात्, ततो यदेब देवानामपि भवस्थितेः परिमाणं तदेव कायस्थितेरपि देवीसूत्रे उत्कर्षतः पञ्चपञ्चाशत्पल्योपमानीति, देवीनां भवस्थितेत्कर्षतोऽप्येतावप्रमाणत्वात्, एतच्चेशानदेव्यपेक्षया द्रष्टव्यं, अन्यत्र देवीनामेतावत्याः स्थितेरसंभवात् । सिद्धसूत्रे साद्यपर्यवसित इति, सिद्धत्वस्य क्षयासंभवात्, सिद्धत्वाद्धि च्यावयिकतुं ईशा रागादयो, न च ते भगवतः सिद्धस्य संभवन्ति, तन्निमित्तकर्मपरमाण्वभावात्, तदभावश्चा तेषां निर्मूलकाषंकषितत्वात् ॥ सम्प्रत्येतावतो नैरयिकादीन् पर्याप्तापर्याप्तविशेषणद्वारेण चिन्तयननाह- 'नेरइए णं भंते इत्यादि, नैरयिको भदन्त ! अपर्याप्त इति - अपर्याप्तत्वपर्यायविशिष्टोऽविच्छेदेन कालतः कियन्तं कालं यावद्भवति ?, भगवानाह - गौतम ! इत्यादि, इहापर्याप्तावस्था जघन्यत उत्कर्षतश्चान्तर्मुहूर्तप्रमाणा, तत ऊर्द्ध नैरयिकाणामवश्यं पर्याप्तावस्थाभावात्, तत उक्तं 'जहनेणवि अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं' । 'एवं जाव देवी अपजत्तिया' इति, एवं नैरयिकोक्तेन प्रकारेणापर्याप्तास्तिर्यगादयनावद्वक्तव्याः यावद्देव्यपर्याप्तिका, अपर्याप्तकदेवीसूत्रं यावदित्यर्थः, तत्र तिर्यञ्चो मनुष्याश्चा यद्यप्यपर्याप्तका एव मृत्वा भूयो भूयोऽ पर्याप्तत्वेनोपपद्यन्ते तथापि तेषामपर्याप्तावस्था नैरन्तर्येणोत्कर्षतोऽपि अन्तर्मुहूर्तप्रमाणैव लभ्यते, यद्वक्ष्यति अपजत्तए णं भंते! अपजत्तएत्ति कालतो केवच्चिरं होइ ?, गोयमा ! जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं' इति, देवदेवीसूत्रे अन्तर्मुहूर्त भावना नैरयिकवत् वक्तव्या । 'नेरइयपज्जत्तए णं भंते!' इत्यादि, नैरयिकपर्याप्त इति - पर्याप्तो नैरयिक इत्येवमविच्छेदेन कालतः कियच्चिरं भवति ?, भगवानाह - गौतम ! जघन्यतो दश वर्षसहस्प्रण्यन्तर्मुहूर्त्तेनानि, अन्तर्मुहूर्त्तस्याद्यस्या पर्याप्तावस्थायां गतत्वात्, अत एवोत्कर्षतोऽपि त्रयस्त्रिंशत्सागरोपमाण्यन्तर्मुहूर्तोनानि तिर्यक्सूत्रे जघन्यतोऽन्तर्मुहूर्त्तभावना प्रागिव, उत्कर्षतस्त्रीणि पल्योपमान्यन्तर्मुहूर्त्तेनानि, एतचोत्कृष्टायुषो देवकुर्वादिभाविनस्तिरश्वोऽधिकृत्य वेदनीयं, अन्येषामेतावतकालप्रमाणायाः पर्याप्तावस्थाया अविच्छेदेनाप्राप्यमाणत्वात्, अत्राप्यन्तर्मुहूर्तोनत्वमन्तर्मुहूर्त्तस्याद्यस्यापर्याप्तावस्थायां गतत्वात्, एवं तिर्यक्स्त्रीमनुष्यामनुषीसूत्रेष्वपि भावनीयं । देवदेवीसूत्रयोस्तु जघन्यतउत्कर्षतश्च कायस्थितिपरिमाणं प्रागुक्तमेव अपर्याप्तावस्थाभाविनाऽन्तर्मुहूर्तेन हीनं परिभावनीयं । गतं गतिद्वारं, इदानीमिन्द्रियद्वारमभिधित्सुराह-: पदं - १८ - वारं - ३ :- "इन्द्रियं " ८८ मू. (४७४) सइंदिए णं भंते! सइंदिएत्ति कालतो केवचिरं होइ ?, गोयमा ! सइंदिए दुविपन्नत्ते, तंजहा - अणाइए वा अपज्जवसिए अणाइए सपज्जवसिए । एगिदिए णं भंते! एगिदिएत्ति For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy