SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ - पदं-१८, उद्देशकः, द्वार-२, ८७ अंतोमुहत्तं, एवं जाव देवी अपजत्तिया। नेरइयपजत्तए णं भंते ! नेरइयपजत्तएत्ति कालतो केवचिरं होइ ?, गोयमा ! जहन्नेणं दस वाससहस्साइं अंतोमुहुत्तूणाई उक्कोसेणं तेत्तीसं सागरोवमाइं अंतोमुहत्तूणाई। तिरिक्खजोणियपजत्तएणंभंते ! तिरिक्खजोणियपजत्तएत्ति कालतो केवचिरं होइ?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि पलिओवमाइं अंतोमुहुत्तूणाई, एवं तिरिक्खजोणिणिपज्जत्तियावि, एवंमणुस्सेवि मणुस्सवी, एवं चेव देवपजत्तएजहानेरइयपजत्तए, देवीपजत्तियाणं भंते! देवीपज्जत्तियत्ति कालतो केवचिरं होइ?, गोयमा! जहन्नेणं दस वाससहस्साइं अंतोमुहत्तूणाई उक्कोसेणं पणपत्रपलिओवमाइं अंतोमुहत्तूणाई॥ वृ.सम्प्रतितस्यैवजीवस्य नैरयिकत्वादिपर्यायैरादिष्टस्यतैरेवपर्यायैरव्यवच्छेदेनावस्थानं चिन्तयन्नाह-'नेरइएणंभंते!' इत्यादि, सुगम, नवरंनैरयिकास्तथाभवस्वाभाव्यात् स्वभवाच्युत्वा अनन्तरं न भूयो नैरयिकत्वेनोत्पद्यन्ते, ततो यदेव तेषां भवस्थितेः परिमाणं तदेव कायस्थितेरपि इत्युपपद्यते जघन्यत उत्कर्षतश्च यथोक्तपरिमाणा कायस्थितिः। 'तिरिक्खजोणिए णं भंते !' इत्यादि, तत्र यदा देवो मनुष्यो नैरयिको वा तिर्यसूत्पद्यते तत्र चान्तुहुर्त्तस्थित्वा भूयः स्वगतौ गत्यन्तरेवासङक्रामति तदा लभ्यतेजघन्यतोऽन्तर्मुहूर्तप्रमाणा कायस्थितिः, उत्कर्षतोऽनन्तरं कालं यावत्, तस्य चानन्तस्य कालस्य प्ररूपणा द्विधा, तद्यथाकालतः क्षेत्रतश्च, तत्र कालतोऽनन्ता उत्सर्पिण्यवलसर्पिणयः, उत्सर्पिणयवसर्पिणीपरिमाणं च नन्द्यध्ययनटीकातोऽवसेयं, तत्र सविस्तरमभिहितत्वात्, क्षेत्रतोऽनन्तालोकाः,किमुक्तं भवति ? -अनन्तेषु लोकाकाशेषु प्रतिसमयमेकैकप्रदेशापहारे क्रियमाणे यावत्योऽनन्ता उत्सर्पिण्यवसर्पिण्यो भवन्ति तावतीर्यावत् तिर्यक् तिर्यकत्वेनावतिष्ठते, एतदेवकालपरिमाणंपुद्गलपरावर्तसङ्ख्यातो निरूपयति-असङ्ख्येयाः पुद्गलपरावर्ताः, पुद्गलपरावर्तस्वरूपंच पञ्चसङ्ग्रहटीकायां विस्तरतरकेणाभिहितचमिति ततोऽवधाएँ, इह तु नाभिधीयते, ग्रन्थगौरवभयात्, असङ्ख्याता अपि पुद्गलपरावर्ताः कियन्त इति विशेषसङ्ख्यायनिरूपणार्थमाह- 'तेणं' इत्यादि, ते पुद्गलपरावर्ता आवलिकाया असङ्खयेयभागः, किमुक्तं भवति ? - आवलिकाया असङ्खयेयतमे भागे यावन्तः समयास्तावप्रमाणा असङ्खयेयाः पुद्गलपरावर्ता इति, एतच्चैवं कायस्थितिपरिमाणं वनस्पत्यपेक्षया द्रष्टव्यं न शेषतिर्यगपेक्षया, वनस्पतिव्यतिरेकेण शेषतिरश्चामेतावत्कालप्रमाणकायस्थितेरसंभवात्, _ 'तिरिक्खजोणिणी णं भंते!' इत्यादि, इहोत्तरत्र च जघन्यान्तर्मुहूर्तभावना प्रागुक्तान्तमुहूर्तभावनानुसारेणस्वयंभावनीया, उत्कर्शतस्त्रीणि पल्योपमानिपूर्वकोटीपृथकत्वाभ्यधिकानि, कथं इति चेत्?, उच्यते, इह तिर्यङ्गनुष्याणां संज्ञीपञ्चेन्द्रियाणामुत्कर्षतोऽप्यष्टौ भवाः कायस्थितिः "नरतिरियाण सत्तट्ट भवा" इति वचनात्, तत्रोत्कर्षस्य चिन्तयमानत्वात् अष्टावपि भवा यथासंभवमुत्कृष्टस्थितिकाः परिगृह्यन्ते, असङ्खयेयवर्षायुष्कस्तु मृत्वा नियमतो देवलोकेषूत्पद्यते न तिर्यक्षु, ततः सप्त भवाः पूर्वकोट्यायुषो वेदितव्याः अष्टमस्तुपर्यन्तवर्ती देवकुर्वादिष्विति त्रीणि पल्योपमानि पूर्वकोटीपृथकत्वाभ्यधिकानि भवन्ति–“एवं मणुस्सेवि मणुस्सीवि'इति, एवं-तिर्यक्स्त्रीगतेनप्रकारेणमनुष्योऽपिमानुष्यपिचवक्तव्या, किमुक्तंभवतिमनुष्यसूत्रे, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy