________________
प्रज्ञापनाउपाङ्गसूत्रम् - २- १७/४/-/४६८ जघन्यरक्तता एकगुणा (धिका) लक्तकवशेनैकगुणाधिकजन्ध्या, एवमेकैकगुणवृध्या जघन्यायामेव रक्ततायामसङ्घयेयानि स्थानानि भवन्ति, तानि च व्यवहारतः स्तोकगुणत्वात् सर्वाण्यपि जघन्यान्योवोच्यन्ते, एवमात्मनोऽपि जघन्यैकगुणाधिकद्विगुणाधिकलेश्याद्रव्योपधानवशतो लेश्यापरिणामविशेषा असङ्घयेया भवन्ति, ते च सर्वेऽपि व्यवहारतोऽल्पगुणत्वात् जघन्यव्यपदेशं लभन्ते, तत्कारणभूतानि च द्रव्याणामपि स्थानानि जघन्यानि, एवमुत्कृष्टान्यपि स्थानान्यसङ्घयेयानि भावनीयानि ।। सम्प्रत्यल्पबहुत्वमाह
'एएसि णं भंते !' इत्यादि, इह त्रीणि अल्पबहुत्वानि, तद्यथाजघन्यस्थानविषयं उत्कृष्टस्थानविषयं उभयस्थानविषयं च, एकैकमपि त्रिविधं, तद्यथा - द्रव्यार्थतया प्रदेशार्थतया उभयार्थतया च तत्र जघन्यस्थानविषये द्रव्यार्थतायां प्रदेशार्थतायां च प्रत्येकं कापोतनीलकृष्णतेजः पद्मशुक्ललेश्यास्थानानि क्रमेण यथोत्तरमसङ्घत्येयगुणानि वक्तव्यानि, उभयार्थतायां प्रथमतो द्रव्यार्थतया कापोतनीलकृष्णतेजःपद्मशुक्ललेश्यास्थानानि क्रमेण यथोत्तरमसङ्घयेयगुणानि वक्तव्यानि ततः शुक्ललेश्यास्थानान्तरं प्रदेशार्थतया कापोतलेश्यास्थानानि "अनन्तगुणानि वक्तव्यानि तदनन्तरं नीलकृष्णतेजः पद्मशुक्ललेश्यास्थानानि क्रमेण प्रदेशार्थतया यथोत्तरमसङ्घयेयगुणानि, एवमुत्कृष्टान्यपि स्थानानि द्रव्यार्थतया प्रदेशार्थतया उभयार्थतया च चिन्तयितव्यानि, तथा चाह - 'एवं जहेव जहन्नगा तहेव उक्कोसगावि नवरमुक्कोसत्ति अभिलावो' इति ।
८२
जघन्योत्कृष्टस्थानसमुदायसङ्घत्येयगुणानि वक्तव्यानि, तदनन्तरंजघन्यशुक्ललेश्यास्थानेभ्य उत्कृष्टानि कापोतनीलकृष्णतेजः पद्मशुक्ललेश्यास्थाननानि क्रमेण द्रव्यार्थतयैव यथोत्तरमसङ्घयेयगुणानि वाच्यानि, एवं प्रदेशार्थतयापि जघन्योत्कृष्टस्थानविषयमल्पबहुत्वं भावनीयं, तथा चाह - 'एवं जहेव दव्वट्टयाए तहेव पएसट्टयाएवि भाणियव्वं, नवरं पएसट्टयाएत्ति अभिलावे विसेसो' इति द्रव्यार्थप्रदेशार्थतायां प्रथमतो द्रव्यार्थतया जघन्यानि कापोतनीलकृष्णतेजः पद्मशुक्ललेश्यास्थानानि क्रमेण यथोत्तरमसत्येयगुणानि वक्तव्यानि ततो जघन्येभ्यः शुक्ललेश्यास्थानेभ्य उक्तक्रमेणैव चोत्कृष्टानि स्थानानि द्रव्यार्थतया यथोत्तरमसङ्घयेयगुणानि वाच्यानि तत उत्कृष्टेभ्यः शुक्ललेश्यास्थानेभ्यो जघन्यानि कापोतलेश्यास्थानानि प्रदेशार्थतया अनन्तगुणानि वक्तव्यानि ततः प्रदेशार्थतयैव जघन्यानि नीलकृष्णतेजः पद्मशुक्ललेश्यास्थानानि यथोत्तरमसङ्घयेयगुणानि एवमुत्कृष्टस्थानान्यपि उक्तक्रमेणैव यथोत्तरमसङ्घयेयगुणानि वक्तव्यानीति ॥
पदं - १७, उद्देशकः - ४ समाप्तम्
-: पर्व - १७, उद्देशक:- ५:
वृ. उक्तश्चतुर्थोद्देशकः सम्प्रति पञ्चम आरभ्यते, चेदमादिसूत्रम्
मू. (४६९) कइ णं भंते! लेस्साओ पन्नत्ताओ ?, गोयमा ! छ लेसाओ पन्नत्ताओ, तं जहा - कण्हलेसा जाव सुक्कलेसा,
से नूनं भंते! कण्हलेस्सा नीललेसं पप्प तारूवत्ताए तावन्नत्ताए तागंधत्ताए तारसत्ताए ताफासत्ताए भुज्जो भुज्जो परिणमति, इत्तो आढत्तं जहा चउत्थओ उद्देशओ तहा भाणियव्वं जाव
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org