________________
पदं- १७, उद्देशक:- ४, द्वारं -
वृ. ‘कण्हलेसा णं भंते!' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! स लोकप्रतीतो यथानामको निम्बो वृक्षविशेषः निम्बसारो - निम्बमध्यवत्यवयवविशेषः 'निम्बछल्ली' निम्बत्वक् निम्बफाणितं-निम्बक्काथः कुटजोवृक्षविशेषः तस्यैव फलं कुटजफलं तस्यैव त्वक् कुटजछल्ली तस्यैव क्वाथं- कुटजफाणितं कुटुकतुम्बी प्रसिद्धा तस्या एव फलं कटुकटुम्बीफलं, खारतउसीति खारशब्दः कटुकवाची तथाऽऽगमे अनेकधा प्रसिद्धेः, ततः कटुका त्रपुषी क्षारत्रपुषी तस्या एव फलं क्षारत्र पुषीफलं देवदाली - रोहिणी तस्या एव पुष्पं देवदालीपुष्पं मृगवालुङ्की-लोकतोऽवसेया तस्या एव फलं मृगवालुङ्कीफलं घोषातकी प्रसिद्धा तस्या एव फलं घोषातकीफलं कृष्णकन्दोवज्रकन्दश्चानन्तकायवनस्पतिविशेषौ लोकतः प्रत्येतत्वौ, एतावति उक्ते गौतमः पृच्छति - भगवन् भवेत् रसतः कृष्णलेश्या एतद्रूपा - निम्बादिरूपा ? भगवानाह - गौतम ! नायमर्थः समर्थः, यतः कृष्णलेश्या इतो - निम्बादिरसमधिकृत्यानिष्टतरिकैवेत्यादि प्राग्वत् ।
'नीललेसाए' इत्यादि, भङ्गी-वनस्पतिविशेषः तस्या एव रजो भङ्गीरजः पाठाचित्रमूलके लोकप्रतीतेपिप्पलीपिप्पलीमूलपिप्पलीचूर्णमरिचमरिचचूर्णशृङ्गबेरशृङ्गबरचूर्णान्यपि प्रसिद्धानि 'काउलेस्साए' इत्यादि, आम्राणां फलानामेवं सर्वत्रापि भावनीयं 'अंबाडयाण वा' इति आम्राटका :फलविशेषाः मातुलिङ्गबिल्वकपित्थपनसदाडिमानि प्रतीतानि पारापताः - फलविशेषाः अक्षोडवृक्षफलानि अक्षोडानि बोरवृक्षफलानि बोराणि - बदराणि तिन्दुकानि च प्रतीतानि, एतेषां फलानामपक्वानां, तत्र सर्वथापि अपक्व फलमुच्यते तत आह-अपरिपाकानां न विद्यते परिपाकःपरिपूर्णः पाको येषां तान्यपरिपाकानि तेषामीषत्पक्वानामित्यर्थः, एतदेव वर्णादिभिः कथयतिवर्णेनातिविशिष्टेन गन्धेन घ्राणेन्द्रियनिर्वतिकरणे स्पर्शेन विशिष्टपरिपाकाविनाभाविना अनुपपेतानां-असम्प्राप्तानां याध्शो रसः, अत्र गौतमः पृच्छति - एतद्रूपा - एवंरूपरसोपेता भवेत् कापोतलेश्या ?, भगवानाह - गौतम ! नायमर्थः समर्थः, किं तु इतः - अपरिपक्वानफलादेरनिष्टतरिकैवेत्यादि प्राग्वत् ।
७७
'तेउलेस्सा णं भंते!' इत्यादि, तेषामेव आम्रफलादीनां पक्वानां तत्रेषद्यत् किमपि पक्वं लोके पक्वं व्यवहियते तत आह- पर्यायापन्नानां परिपूर्णपाकपर्यायप्राप्तानां एतदेवं वर्णादिभिर्नि· रूपयति-वर्णेन प्रशस्तेन - एकान्ततः प्रशस्येन तथा प्रशस्तेन गन्धेन प्रशस्तेन स्पर्शेनोपेतानां यादग्रसः, एतावत्युक्ते गौतम आह-रसमधिकृत्य एतद्रूपा - पक्वाम्रादिफलरूपा तेजोलेश्या भवेत् ?, भगवानाह-नायमर्थः समर्थः, किंतु परिपक्वाम्रफलादेरिष्टतरिकैवेत्यादि प्राग्वत्,
'पम्हलेसाए पुच्छा' सूत्रपाठोऽक्षरगमनिका च प्राग्वत्, नवरं 'से जहानामए' इति सा-लोकप्रसिद्धा 'यथा' येन प्रकारेण नाम यस्याः सा यथानामिका पुंस्त्वं सूत्रे प्राकृतलक्षणवशात्, प्राकृते हि लिङ्गमनियतं यदाह पाणिनिः स्वप्राकृतलक्षणे- 'लिङ्गं व्यभिचार्यपी' तिचन्द्रप्रभा इति वे 'ति चन्द्रस्येव प्रभा - आकारो यस्याः सा चन्द्रप्रभा मणिशिलाकेव मणिशिलाका वरं च तत् सीधु च वरसीधु वरा चासौ वारुणी च वरवारुणी पत्रैः - धातकीपत्रैर्निष्पाद्य आसवः पत्रासवः एवं पुष्पासवः फलासवश्च परिभावनीयः चोओ-गन्धद्रव्यं तन्निष्पाद्य आसवः चोयासवः, पत्रादिविशेषेण व्यतिरिक्तं आसव आसव इति गीयते, मधुमेरककापिशायनानि मद्यविशेषाः, मूलदलखर्जूरसारनियन आसवः खर्जूरसारः मृद्वीका - द्राक्षा तत्सारनिष्पन्नो मृद्वीकासारः सुपक्वेक्षुरसमूलद
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International