________________
७८
प्रज्ञापनाउपाङ्गसूत्रम्-२-१७/४/-/४६५
लनिष्परन्नः-सुपक्वेक्षुरसः अष्टभिः शास्त्रप्रसिद्धैः पिष्टैः निष्ठिता अष्टपिष्टनिष्ठिता जम्बूफलवत् कालेवकालिकाजम्बूफलकालिकावराचासौ प्रसन्नाचवरप्रसन्ना, एते सर्वेऽपिमद्यविशेषाःपूर्वकाले लोकप्रसिद्धा इदानीमपि शास्त्रान्तरतो लोकतो वा यथास्वरूपं वेदितव्याः,
वरप्रसन्नाविशेषणान्याह-मांसला-उपचितरसा पेशला-मनोज्ञा मनोज्ञत्वादेव ईषत्-मनाक्ततः परम्परमास्वादतयाझटित्येवाग्रतो गच्छतिओष्ठेऽवलम्बते-लगतीत्येवंशीला ईषदोष्ठावलम्मिबिनीतथा ईषत्-मनाक्पानव्यवच्छेदे सति तत ऊर्ध्व कंटुका एलादिद्रव्यसम्पर्कतः उपलक्ष्यमाणतिक्तवीर्येतियावत् तथाईषत्--मनाक्ताने अक्षिणी क्रियेते अनयेति ईषत्ताम्राक्षिकरणी मद्यस्य प्रायः सर्वस्यापि तथास्वभावत्वात् 'उक्कोसमयपत्ता;' इति उत्कर्षतीति उत्कर्षः स चासौमदश्च उत्कर्षमदः तं प्राप्ता उत्कर्षमदप्राप्ता, एतदेव वर्णादिभिः समर्थयते-वर्णेनोत्कृष्टमदाविनाभाविना प्रशस्येन गन्धेन घ्राणेन्द्रियनिर्वृतिकरणे रसेन परमसुखासिकाजकेन स्पर्शेन मदपरिपाकाव्यभिचारिणाअत एवास्वादनीया विशेषतःस्वादनीया विस्वादनीयाप्रीणयतीतिप प्रीणनीया 'कृद् बहुल मिति वचनात् कर्तर्यनीयप्रत्ययः, एवं दर्पयतीति दर्पणीया मदयतीति मदनीया सर्वाणीन्द्रियाणि सर्वंच गात्रंप्रहलादयतिइति सर्वेन्द्रियागात्रप्रहलादनीया, एतावत्युक्ते भगवान् गौतम आह-'भवेयास्वा !' भगवन् ! एतद्रूपा-एवंरूपरसोपेता पद्मलेश्या भवेत् !, भगवानाह-'नो इणढे समढे' इत्यादि प्राग्वत्॥
'सुक्कलेस्सा णं भंते !' इत्यादि, गुडखण्डे प्रसिद्ध शर्करा-काशादिप्रभवा मत्स्यण्डीखण्डशर्करा पर्पटमोदकादयःसम्प्रदायादवसेयाः,शेषं सुगमं ॥
तदेवमुक्तो लेश्याद्रव्याणां रसः, सम्प्रति गन्धमभिधित्सुराह
मू. (४६६) कइणं भंते! लेस्साओ दुब्भिगंधाओ पन्नत्ताओ?, गोयमा! तओ लेस्साओ दुब्भिगंधाओ पं०?, तं-कण्हलेस्सा नील० काउलेस्सा।
कइणंभंते! लेस्साओ सुब्भिगंधाओपन्नत्ताओ?, गोयमा! तओलेस्साओ सुब्भिगंधाओ पं०, तं०-तेउ० पम्ह० सुक्क०, एवं तओ अविसुद्धाओ तओ विसुद्धाओ तओ अप्पसत्थाओ तओ पसत्थाओतओसंकिलिट्ठाओ तओ असंकिलिट्ठाओतओसीतलुक्खाओतओनिडुण्हाओ तओ दुग्गतिगामियाओ तओ दुग्गतिगामियाओ तओ सुगतिगामियाओ।
वृ. 'कइणंभंते!' इत्यादि, सुगम, नवरंकृष्णनीलकापोतलेश्यादुरभिगन्धाः मृतगवादिकडेवरेभ्योऽप्यनन्तगुणदुरभिगन्धोपेतत्वात्तेजःपद्मशुक्ललेश्याः सुरभिगन्धाः पिष्यमाणगन्धवाससुरभिकुसुमादिभ्योऽनन्तगुणपरमसुरभिगन्धोपेतत्वात्, उक्तं चोत्तराध्ययनेषु लेश्याध्ययने॥१॥ “जह सुरभिकुसुमगंधो गंध वासाण पिस्समाणाण।
एत्तो उ अनंतगुणो पसतगुणो लेस्साणं अप्पसत्थाणं ॥ ॥२॥ ___जह सुरभिकुसुमगंधो गंध वासाण पिस्समाणाण।
एत्तो उ अनंतगुणो पसत्थलेसाण तिण्हंपि॥" उक्तो गन्धपरिणामः, अधुना शुद्धाशुद्धात्वप्रतिपादनार्थमाह
“एवं तओ अविसुद्धाओ ततो विसुद्धाओ' इति, एवम्-उक्तेन प्रकारेण आद्यास्तिस्रो लेश्या अविशुद्धा वक्तव्याः, अप्रशस्तवर्णगन्ध रसोपेतत्वात्, उत्तरास्तिस्रो लेश्या विशुद्धाः, प्रशस्तवर्णगन्धरसोपेतत्वात्, ततश्चैवं वक्तव्याः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org