________________
७२
प्रज्ञापनाउपाङ्गसूत्रम्-२-१७/४/-/४६३ इयमत्र भावना-यथा क्षीरलक्षणकारणगता रूपादयस्तकरूपादिभावंप्रतिपद्यन्ते यथावाशुद्धवस्त्रकारणगता रूपदयोमञ्जिष्ठादिरागद्रव्यारूपादिभावंप्रतिपद्यन्ते तथा कृष्णलेश्यायोग्यद्रव्यरूपकारणगता रूपादयोनीललेश्यायोग्यद्रव्यरूपादिभावंप्रतिपद्यन्ते, सेतेणटेण'मित्याधुपसंहारवाक्यं सुगम, एवं नीललेश्याकापोतलेश्यांप्राप्येत्यादीन्यपिचत्वारिसूत्राणिभावनीयानि, तदेवंपूर्वस्याः पूर्वस्यालेश्यायाउत्तरामुत्तरांलेश्यांप्रतीत्य तद्रूपतयापरिणमनमुक्तं, इदानीमेकैकस्याः लेश्याया यथायोगं क्रमेण शेषसमस्तलेश्यापरिणमनमाह- से नूनं भंते ! कण्हलेसा नीललेस्सं काउलेस्स'मित्यादि, वाशब्दोऽत्र सर्वत्राप्यनुक्तोद्रष्टव्यः, नीललेश्यांवा कापोतलेश्यांवा यावत् शुक्ललेश्यां वा, एकस्या लेश्यायाः परस्परविरुद्धतया युगपदनेकलश्यापरिणामसंभवात्, शेषाऽक्षरगमनिका प्रागवत्, अत्रैवार्थे दृष्टान्तमभिधित्सुरिदमाह
‘सकेणटेणंभंते!' इत्यादि सुगम, नवरं यथा वैडूर्यमणिरेक एव तत्तदुपाधिद्रव्यसम्पर्कतस्तद्रूपतया परिणमते तथैवल तान्यपिकृष्णलेश्यायोग्यानिद्रव्याणितत्तन्नीलादिलेश्यायोग्यद्रव्यसम्पर्कतस्तत्तद्रूपतया परिणमन्ते इति, एतावताउंशेन दृष्टान्तो नतुपुनर्यथा वैडूर्यमणिः स्वस्वरूपमजहानस्तत्तदुपाधिद्रव्यसम्बन्धस्तत्तदाकारमात्रभाजितया तत्तद्रूपतया परिणमते तथैतान्यपि कृष्णलेश्यायोग्यानि स्वस्वरूपमजहानान्येवद्रव्याणितत्तन्नीलादिलेश्यायोग्यद्रव्यसम्पर्कतस्तत्तदाकारमात्रधारितया तत्तद्रूपतया परिणमन्ते इत्यनेनांशेन, तिरश्चां मनुष्याणां च लेश्याद्रव्याणां सामस्त्येन तद्रूपतया परिणामाभ्युपगमात्, अन्यथा नैरयिकदेवसत्कलेश्याद्रव्याणामिव तिर्यग्मनुष्याणामपि लेश्याद्रव्याणां सर्वथा स्वरूपापरित्यागेन चिरकालमवस्थानसंभवात्, यत उत्कर्षशतोऽप्येषामन्तर्मुहूर्तलक्षणंस्थितिपरिमाणमन्यत्रोक्तंतद्विरुधयते, पल्योपमत्रयमपियावत् उत्कर्षतः स्थितिसंभवात्, तदेवंतदन्यलेश्यापञ्चकपरिणाममधिकृत्य कृष्णलेश्याविषयं सूत्रमुक्तं,
एवं नीलादिलेश्याविषयाण्यपिप्रत्येकंतदन्यलेश्यापञ्चकपरिणाममधिकृत्यपञ्च सूत्राणि दम्तव्यानि, तदेवं तिर्यङ्गनुष्याणां भवसङ्क्रान्तौ शेषकालं च लेश्याद्रव्यपरिणाम उक्तः, देवनैरयिकसत्कानि तु लेश्याद्रव्याणि आभवक्षयमवस्थितानि यत्तदन्यलेश्याद्रव्यसंपर्कत आकारमानंतदत्रैव वक्ष्यते । तत उक्तः परिणामलक्षणाधिकारः।
अधुना वर्णाधिकारमभिधिसुराह
मू. (४६४) कण्हलेसाणं भंते ! वन्नेणं केरिसिया पन्नत्ता?, गो० ! से जहा नामए जीमूते इवाअंजणे इवाखंजणे इवा काले इवागवले इवा गवलए इवाजंबूफले इवा अद्दारिद्वपुप्फेइ वा परपुढेइ वा भमरेइ वा भमरावली इवा गयकलभेइवा किण्हकेसरे इ वा आगासथिग्गले इवा किण्हासोए इ वा कण्हकणवीरए इ वा कणहबंधुजीवए इवा, भवे एतारूवे?, गो० ! णो इणढे समढ़े, कण्हलेस्साणं इत्तो अनिट्ठयरिया चेव अकंतयरिया चेव अप्पियतरिया चेव अमणुनतरिया चेव अमणामतरिया चेव वन्नेणं पन्नत्ता,
नीललेस्सा णं भंते ! केरसिया वन्नेणं पन्नत्ता?, गोयमा ! से जहा नामए भिंगए इ वा भिंगपत्ते इ वा चासे इ वा चासपिच्छए इ वा सुए इवा सुयपिच्छे इ वा सामा इ वा वणराइ इ वा उच्चंतए इवा पारेयवगीवा इ वा मोरगीवा इ वा हलहरवसणे इ वा अयसिकुसुमे इ वा वणकुसुमे इ वा अंजणकेसियि [इ वा] कुसुमे इ वा नीलुप्पले इ वा नीलासोए इ वा नीलकणवीरए इ वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org