________________
पदं-१७, उद्देशकः-४, द्वार
७१
ताफा० भुज्जो २ परिणमइ,
से केणटेणं भंते ! एवं वुच्चइ-कण्हले० नीलले० जाव सुक्कलेसं पप्प तारूवत्ताए जाव भुजो २ परिणमइ?, गोयमा! से जहा नामए वेरुलियमणी सिया कण्हसुत्तए वा नीलसुत्तए वा लोहिय० हालिद्द० सुक्किल० आइए समाणे तारुव० जाव भुञ्जो २ परिणमइ, से तेणटेणं एवं वुच्चइ-कण्हलेसा नीललेसंजाव सुक्कलेसं पप्प तारूवत्ताए भुजो २ परिणमति ।
से नूनंभंते! नीललेसा किण्हलेसंजाव सुक्कलेसं पप्प तारूवत्ताएजाव भुजो २ परिणमइ, हंता गोयमा! एवं चेव, काउलेसा किण्हलेसं नील० तेउ० पम्ह० सुक्कलेसं, एवं तेउलेसा किण्ह० नील० काउ० पम्ह० सुक्कलेसं, एवं पम्हलेसा किण्ह० नील० काउ० तेउ० सुक्कलेसं पप्प जाव भुञ्जो २ परिणमइ ?, हंता गोयमा ! तं चेव, से नूनं भंते ! सुक्कलेसा किण्ह० नील० काउ० तेउ० पम्ह० लेसं पप्प जाव भुजो २ परिणमइ ?, हंता गोयमा! तं चेव।
वृ. 'कइणं भंते ! लेसाओ पन्नत्ताओ' इत्यादि, इदं सूत्रं प्रागप्युक्तं परं परिणामाद्यर्थप्रतिपादनार्थं भूय उपन्यस्तं से नूनं भंते इत्यादि, अथ भदन्त कृष्णलेश्या-कृष्णलेश्यायोग्यानि द्रव्याणि नीललेश्यां-नीललेश्यायोग्यानि द्रव्याणि प्राप्य अन्योऽन्यावयवसंस्पर्शमासाद्य तद्रूपतयानीललेश्यारूपतया, रूपशब्दोऽत्रस्वभाववाची, नीललेश्यास्वभावतयेत्यर्थः भूयो भूयः परिणमतीति योगः, तत्स्वभावश्चतद्वर्गणा(द्वणा) दिरूपतया भवतिततआह०तद्वर्णतया तद्रसतया तद्गन्धतया तत्स्पर्शतया, सर्वत्रापितच्छब्देन नीललेश्यायोग्यानि द्रव्याणि परामृशन्ति, भूयो भूयः-अनेकवारं तिर्यग्मनुष्याणांतत्तद्भवसङ्क्रान्तौ शेषकालंवा परिणमते, इदं हि तिर्यग्मनुष्यानधिकृत्यवेदितव्यं,
एवं गौतमेन प्रश्ने कृते भगवानाह–'हंता गो० !' इत्यादि, हन्तेत्यनुमतौ अनुमतमेतत् गौतम! कृष्णलेश्या नीललेश्यां प्राप्येत्यादि प्रागवत्, इयमत्र भावना-यदा कृष्णलेश्यापरिणतो जन्तुस्तिर्यग्मनुष्यो वा भवान्तरसङ्कान्ति चिकीर्षुर्नीललेश्यायोग्यानि द्रव्याणि गृह्णाति तदा नीललेश्यायोग्यद्रव्यसम्पर्कतस्तानि कृष्णलेश्यायोग्यानि द्रव्याणि तथारूपजीवपरिणामलक्षणं सहकारिकारणमासाद्य नीललेश्याद्रव्यरूपतया परिणमन्ते, पुद्गलानां तथातथापरिणमनस्वभावत्वात्, ततः स केवलनीललेश्यायोग्यद्रव्यसाचिव्यानीललेश्यापरिणतःसन्कालंकृत्वाभवान्तरे समुत्पद्यते, उक्तं च-'जल्लेसाइं दव्वाइं परियाइत्ता कालं करेइ तल्लेसे उववज्झइ' इति, तथा स एव तिर्यग्मनुष्यो वा तस्मिन्नेव भवे वर्तमानो यदा कृष्णलेश्यापरिणतो भूत्वा नीललेश्याभावेन परिणमते तदापि कृष्णलेश्यायोग्यानि द्रव्याणि तत्कालगृहीतनीललेश्यायोग्यद्रव्यसम्पर्कतो नीललेश्यायोग्यद्रव्यरूपतयापरिणमन्ते, अमुमेवार्थं दृष्टान्तेन विभावयिषुःप्रथमंप्रश्नसूत्रमाह
से केणद्वेणं भंते !' इत्यादि, सुगमं भगवानाह-गौतम ! ‘से जहानामए खीरे' इत्यादि, ततः लोकप्रसिद्धं यथानामकं गोक्षीरम् अजाक्षीरं महिषीक्षीरमित्यादिनामकं क्षीरं 'दूसिमिति देशीवचनाढूष्यमेत्तमथितंतकं प्राप्यान्योऽन्यावयवसंस्पर्शेनाविभागंगत्वा यथा च शुद्धं-मलरहितं समले हि रागः सम्पद्यमानोऽपि न तथारूपो लगति तत उक्तं शुद्धं वस्त्रं-चेलं रज्यतेऽनेनेति रागः ‘करणे धतं - मञ्जिष्ठादिकं प्राप्य तद्रूपतया- मञ्जिष्ठादिरागद्रव्यस्वभावतया, एतदेव व्याचष्टे-'तद्वर्णतये'त्यादि, सुगम,
तथाकृष्णलेश्यायोग्यानि द्रव्याणिनीललेश्यायोग्यानिद्रव्याणिप्राप्यतद्रूपतयापरिणमन्ते,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org