________________
पदं- १७, उद्देशक:- १, द्वारं -
४५
समर्थः - नायमर्थो युक्त्युपपन्न इति भावः, पुनः प्रश्नयति- 'से केणट्टेणं' मित्यादि, शब्दोऽधशब्दार्थः, अथ केनार्थेन-केन प्रयोजनेन केन प्रकारेणेति भावः भदन्त ! एवमुच्यते नैरयिकाः सर्व्वे समाहारा इत्यादि ?, भगवानाह - 'गोयमे' त्यादि, इहाल्पत्वं महत्त्वं चापेक्षिकं, तत्र जघन्यमल्पत्वं अङ्गुलसङ्घयेयभागमात्रत्वं उत्कृष्टं महत्त्वं पञ्चधनुःशतमानत्वं, एतच्च भवधारणीयशरीरापेक्षया, उत्तरवैक्रियापेक्षया तु जघन्यमल्पत्वं अङ्गुलसङ्ख्यातभागमात्रत्वं इतरद्धनुः सहस्रमानत्वं, एतावता च किं समशरीरा इत्यस्य प्रश्नसस्योत्तरमुक्तं ।
अथ शरीरप्रश्नो द्वितीयस्थानोक्तः तत्कथमस्य प्रथमत एव निर्वचनमुक्तं ?, उच्यते, शरीरविषमताभिधाने सति आहारोच्छ्वासयोर्वैषम्यं सुप्रतिपादितं भवतीति द्वितीयस्थानोक्तस्यापि शरीरप्रश्नस्य प्रथमं निर्वचनमुक्तं । इदानीं आहारोच्छासयोर्निर्वचनमाह - 'तत्थ ण' मित्यादि, 'तत्र' अल्पशरीरमहाशरीररूपराशिद्वयमध्ये 'ण' मिति वाक्यालङ्कारे ये यतो महाशरीरास्ते तदपेक्षया बहुतरान् पुद्गलानाहारयन्ति महाशरीरत्वादेव, दृश्यते हि लोके बृहच्छरीरो बह्वाशी यथा हस्ती, अल्पशरीरोऽल्पभोजी शशकवत्, बाहुल्यापेक्षं चेतमुदाहरणमुपन्यस्ते, अन्यथा कोऽपि बृहच्छरीरोऽप्यल्बमश्नाति कश्चिदल्पशरीरोऽपि भूरि भुङ्कते, तथाविधमनुष्यवत्, नारकाः पुनरुपपातादिसद्वेद्यानुभावादन्यत्रासद्वेद्योदयवर्त्तित्वादेकान्तेन यथा महाशरीराः दुःखितास्तीब्राहाराभिलाषाश्च भवन्ति तथा नियमाद् बहुतराग्युद्गन्तानाहारयन्ति तथा बहुतरान् पुद्गलान् परिणामयन्ति, आहारपुद्गलानुसारित्वात् परिणामस्य, परिणामश्चापृष्टथऽप्याहार कार्यमित्युक्तः, तथा 'बहुतराए पुग्गले उस्ससंति' इति बहुतरान् पुद्गलान् उच्छ्वासतया गृह्णन्ति 'नीससंति' इति निःश्वासतया मुञ्चन्ति महाशरीरत्वादेव, दृश्यन्ते हि बृहच्छरीरास्तज्जातीयेतरापेक्षया बहुच्छ्वासनिःश्वासा इति, दुःखिता अपि तथैव, दुःखिताश्च नारका इति ।
आहारस्यैव कालकृतं वैषम्यमाह - 'अभिक्खण' मित्यादि, अभीक्ष्णं - पौनःपुन्येनाहारयन्ति, ये यतो महाशरीरास्ते तदपेक्षया शीघ्रशीघ्रतराहारग्रहणस्वभावा इत्यर्थः, अभीक्ष्णं उच्छ्वसन्ति अक्षीक्ष्णं निःश्वसन्ति, महाशरीरत्वेन दुःखिततरत्वादनवरतमुच्छासादि कुर्व्वन्तीति भावः, 'तत्थ जेते' इत्यादि, 'जेते' इति इह ये इत्येतावतैवार्थसिद्धौ ये ते इति (यद्) उच्यते तद्भाषामात्रामेव, अल्पशरीरास्ते अल्पतरान् पुद्गलानाहारयन्ति, ये यतोऽल्पशरीररास्ते तदाहरणीयपुद्दलापेक्षया अल्पतरान् पुद्गलानाहारयन्ति, अल्पशरीररत्वादेवेति भावार्थ:, 'आहच्च आहारयन्ति' इति कदाचिदाहारयन्ति कदाचिन्नहारयन्ति, महाशरीराहारग्रहणान्तरालोपेक्षया बहुतरकालान्तरतयेत्यर्थः 'आहच्च ऊससंति आहच्च नीससंति' एते हि अल्पशरीरत्वेनैव महाशसीरापेक्षया अल्पतरदुःखत्वादाहञ्च्च-कदाचित् सान्तरमित्यर्थः, उच्छ्वासादि कुर्व्वन्तीति भावः, अथवा अपर्याप्तिकाले अल्पशरीराः सन्तो लोमाहारापेक्षया नाहारयन्ति उच्छ्वासापर्याप्तकत्वेन च नोच्छ्वसन्ति, अन्यदा त्वाहारयन्ति उच्छ्वसन्ति चेत्यत [आह] - 'आहच्च आहारयन्ति आहच्च ऊससंति' त्युक्तं । 'से एएणद्वेणं' मित्यादि निगमनवाकयं सुगमं ।
संप्रति समकर्मत्वाधिकारमाह- 'नेरइयाण' मित्यादि 'पुव्वोववन्ना य पच्छोववन्ना य इति पूर्व्व - प्रथमं उपपन्नाः पूर्वोत्पन्नाः त एव 'स्वार्थिकः क' इति कप्रत्ययविधानात् पूर्वोत्पन्नकाः, एवं पश्चादुत्पन्नकाः, तत्र पूर्वोत्पन्नपश्चादुत्पन्नानां मध्ये ये पूर्वोत्पन्नास्तैर्नकायुर्नकगत्यसातवेदनी
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org