SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनाउपाङ्गसूत्रम् - २-१७/१/-/४४१ तावन्निष्यन्दस्यापि सद्भावात् कर्म्मस्थितिहेतुत्वमपि युज्यते एवेत्यादि, तदप्यश्लीलं, लेश्यानामनुभागबन्धहेतुतया स्थिति- बन्धहेतुतवायोगात्, अन्यच्च - कर्म्मनिष्यन्दः किं कर्म्मकल्क उत कर्म्मसार: ?, न तावत्कर्म्मकल्कः, तस्यासारतयोत्कृष्टानुभागबन्धहेतुत्वानुपपत्तिप्रसक्तेः, कल्को हि असारो भवति असारश्च कथमुत्कृष्टानुभागबन्धहेतुः ?, अथ चोत्कृष्टानुभागबन्धहेतवोऽपि लेश्या भवन्ति, अथ कर्म्मसार इति पक्षस्तर्हि कस्य कर्म्मणः सार इति वाच्यं ?, यथायोगमष्टानामपीति चेत् अष्टानामपि कर्म्मणां शास्त्रे विपाका वर्ण्यन्ते, न च कस्यापि कर्म्मणो लेश्यारूपो विपाक उपदर्शितः, ततः कथं कर्म्मसापक्षमङ्गीकुम्महे ?, तस्मात् पूर्वोक्त एव पक्षः श्रेयानित्यङ्गीकर्त्तव्यः, तस्य हरिभद्रसूरिप्रभृतिभिरपि तत्र (तत्र) प्रदेशे अङ्गीकृतत्वादिति । अस्मिंश्च लेश्यापदे षट् उद्देशकाः, तत्रेयं प्रथमोद्देशकार्थसङ्ग्रहगाथा ४४ -: पदं - १७ - उद्देशकः- १: मू. (४४२) आहार समसरीरा उसासे कम्मवन्न लेलासु । समवेदन समकिरिया समाउया चेव बोद्धव्वा । वृ. समशब्दः पूर्वार्धो प्रत्येकमपि सम्बध्यते, उत्तरार्द्धे प्रतिपदं साक्षात्सम्बन्धित एवास्ति, ततोऽयमर्थः-प्रथमोऽधिकारः सर्व्वे समाहाराः सर्व्वे समशरीराः सर्व्वे समोच्छ्वासा इति प्रश्नोपलक्षितः,द्वितीयः समकर्म्माण इति, तृतीयः समवर्णा इति, चतुर्थः समेवेश्याका इति, पञ्चमः समवेदनाका इति, षष्ठः समक्रिया इति, सप्तमः समायुष इति । अथ लेश्यापरिणामविशेषाधिकारे कथममीषामर्थानामुपन्यासोपपत्तिः ?, उच्यते, अनन्तरप्रयोगपदे उक्तं- 'कतिविहे णं भंते ! गइप्पवाए इति (पं० ) ?, गोयमा ! पंचविहे०, पयोगगई ततगई बंधनछेदनगई उववायगई विहायोगई, तत्थ जा सा उववायगई सा तिविहा- खित्तोववायई भवोववयागई नोभवोववायगई, तत्थ भवोवायगई चउविहा - नेरइयभवोववायगई देवभवो० तिरिक्खजोणियभवो० मणुस्सभवोववायगई' इति, तत्र नारकत्वादिभवत्वेनोत्पन्नानां जीवानामुपपातसमयादारभ्य आहारद्यर्थसम्भवोऽवश्यंभावी ततो लेश्याप्रक्रमेऽपि तेषामुपन्याससूत्रं । मू. (४४३) नेरइया णं भंते! सव्वे समाहारा सव्वे समसरीरा सव्वे समुस्सासनिस्सासास गो० ! नो इणट्ठे समट्ठे, से केणट्टेणं भंते! एवं वुच्चइ-नेरइया नो सव्वे समाहारा जाव नो सव्वे समुस्सासनिस्सासास ?, गोयमा ! नेरइया दुविहा पन्नत्ता, तंजहा - महासरीरा य अप्पसरीरा य, तत्थ णं जे ते महासरीरा ते णं बहुतराएपोग्गले आहारेति बहुतराए पोग्गले परिणामेति बहुतराए पोग्गलेउस्संति बहुतराए पोग्गलसे नीससंति अभिक्खणं आहारेति अभि० परिणामेति अभि० ऊससंति अभि० नीससंति, तत्थ णं जे ते अप्पसरीरा ते णं अप्पतराए पो० आहा० अप्प० पो० परि० अप्प० पो० ऊससंति अप्प० पो० नीससंति आहच्च आहारेति आहच्च परिणामेति आहच्च ऊससंति आहच्च नीससंति, से एएणट्टेणं गो० ! एवं बुच्चइ-नेरइया नो सव्वे समाहारा नो सव्वे समसरीरा नो सव्वे समुस्सासनिस्सासा । वृ. 'यथोद्देशं निर्देश' इति न्यायात् प्रथमं समाहारा इत्यादिप्रश्नोपलक्षितमर्थाधिकारमाह- 'नेरइया णं भंते' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - 'गोयमा' इत्यादि, नायमर्थः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy