________________
पदं-१७, उद्देशकः-, द्वारं
४३
पद-१७ - “लेश्या" वृ. तदेवमुक्तं षोडशं प्रयोगपदं, सम्प्रति सप्तदशमारभ्यते, अस्य चायमभिसम्बन्धःइहानन्तरपदे प्रयोगपरिणाम उक्तः, सम्प्रतिपरिणामसाम्याल्लेश्यापरिणाम उच्यते-अथ लेश्येति कः शब्दार्थः ?, उच्यते, लिष्यते-श्लिष्यते आत्मा कर्मणा सहानयेति लेश्या, कृष्णादिद्रव्यसाचिव्यादात्मनः परिणामविशेषः, उक्तंच॥१॥ “कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः ।
स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रवर्तते ॥" अथ कानि कृष्णादीनि द्रव्याणि?, उच्यते, इह योगे सति लेश्या भवति, योगाभावेचन भवति, ततो योगेन सहान्यवव्यतिरिकदर्शनात् योगनिमित्ता लेश्येति निश्चीयते, सर्वत्रापि तनिमित्तत्वनिश्चयस्यान्वयव्यतिरेकदर्शनमूलत्वात्, योगनमित्ततायामिपविकल्पद्वयमवतरति-किं योगान्तर्गतद्रव्यरूपा योगनिमित्तकर्मद्रव्यरूपा वा ?, तत्र न तावद्योगनिमित्तकर्म द्रव्यरूपा, विकल्पद्वयानतिक्रमात्,
तथाहि-योगनिमित्तकमद्रव्यरूपा सती घातिकर्मद्रव्यरूपा अघातिकर्मद्रव्यरूपा वा नतावद्घातिकमद्रव्यरूपा, तेषामभावेऽपिसयोगिकेवलिनिलेश्यायाः सद्भावात्, नापिअधातिकर्मरूपा, तत्सद्भावेऽपिअयोगिकेवलिनि लेश्यायाअभावात्, ततः पारिशेष्यात् योगान्तर्गतद्रव्यरूपा प्रत्येया, तानि च योगान्तर्गतानि द्रव्याणि यावत्कषायास्तावत्तेषा-मप्युदयोपबृंहकाणि भवन्ति, दृष्टं च योगान्तर्गतानां द्रव्याणां कषायोदयोपबृंहणसामर्थ्य, यथा पित्तद्रव्यस्य, तथाहि
पित्तप्रकोपविशेषादुपलक्ष्यते महान् प्रवर्द्धमानः कोपः, अन्यच्च बाह्यान्यपि द्रव्याणि कर्मणामुदयक्षयोपशमादिहेतव उपलभ्यन्ते, यथा-ब्राह्मयौषधिआनावरण स्य] क्षयोपशमस्य सुरापानं ज्ञानावरणोदयस्य, कथमन्यथा युक्तायुक्तविवेकविकलतोपजायते, दधिभोजनं निद्रारूपदर्शना- वरणोदयस्य, तत्किं योगद्रव्याणि न भवन्ति ?, तेन यः स्थितिपाकविशेषो लेश्यावशादुपगीयते शास्त्रान्तरेससम्यगुपपन्नः, यः स्थितिपाको नामानुभाग उच्यते, तस्यनिमित्तं कषायोदयान्त-र्गतकृष्णादिलेश्यापरिणामाः, तेच परमार्थतः कषायस्वरूपाएव, तदन्तर्गतत्वात्, केवलं योगा- न्तर्गतद्रव्यसहकारिकारणभैदवैचित्र्यभ्यां ते कृष्णादिभेदैर्भिन्नाः तारतम्यभेदेन विचित्राश्चोपजायन्ते,तेन यद्भगवता कर्मप्रकृतिकृता शिवशर्माचार्येणशतकाख्ये ग्रन्थेऽभिहितं "ठिइअनुभागं कसायओ कुणइ" इति तदपि समीचीनमेव, कृष्णादिलेश्यापरिणामानामपि कषायोदयान्तर्गतानां कषायरूपत्वात्, तेन यदुच्यते कैश्चिद्
योगपरिणामत्वेलेश्यानां “जोगापयडिपएसंठिइअनुभागंकसायओकुणइ" इति वचनात् प्रकृतिप्रदेशबन्धहेतुत्वमेव स्यान्न कर्मस्थितिहेतुत्वमिति, तदपि न समीचीनं, यथोक्तभावार्थपरिज्ञानात्, अपिच-न लेश्याः स्थितिहेतवः, किंतु कषायाः, लेश्यास्तु कषायोदयान्तर्गताः अनुभागहेतवः, अत एव च स्थितिपाकविशेशषस्तस्य भवति लेश्याविशेषेण' इत्यत्रानुभागप्रतिपत्त्यर्थं पाकग्रहणं, एतच्च सुनिश्चितं कर्मप्रकृतिटीकादिषु, ततः सिद्धान्तपरिज्ञानपि न सम्यक् तेषामस्ति, यदप्युक्तम्-'कर्मनिष्यन्दो लेश्या, निष्यन्दरुपत्वे हि यावत् कषायोदयः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org