________________
प्रज्ञापनाउपाङ्गसूत्रम्-२-१६/-/-/४४१
पुरुषमनुसरति न तु पुरुषः छायामतश्चछायाया अनुपातगतिः, लेश्यागतिर्यत्तिर्यङ्गमनुष्याणां कृष्णादिलेश्याद्रव्याणि नीलादिलेश्याद्रव्याणि सम्प्राप्य तद्रूपपादितया परिणमन्ति सा लेश्यागतिरिति, लेश्यानुपातगतिरितिलेश्यायाअनुपातः-अनुसरणंतेनगतिर्लेश्यानुपातगतिः, लेश्याया इत्यत्र विग्रहवेलायां कर्मणि षष्ठी, यतो वक्ष्यति-'यानि लेश्याद्रव्याणि पर्यादाय जीवः कालं करोति तल्लेश्येषूपजायते न शेषलेश्येषु' ततो जीवो लेश्याद्रव्याण्यनुसरति, न तु तानि जीवमनुसरन्तीति, उद्दिश्यप्रविभक्तगति'रितिप्रविभक्तं-प्रतिनियतमाचार्यादिकमुद्दिश्य यत्तत्पार्वे गच्छति सा उद्दिश्यप्रविभक्तगतिः, चतुःपुरुषप्रविभक्तगति'रितिचतुर्द्धापुरुषाणांप्रविभक्तगतिः चतुःपुरुषप्रविभक्तगतिः, तच्चतुर्द्धात्वं 'समगं पज्जवट्ठिया' इत्यादिना ग्रन्थेन स्वयमेव वक्ष्यति, तथा वंका-वक्रा साचासौ गतिश्च वंकगतिः, साचचतुर्दा, तद्यथा-घट्टनता स्तम्भनता श्लेषणता पतनता, तत्रघट्टनशब्दस्य भावः-प्रवृत्तिनिमित्तंघट्टनमेव वेति, एवं शेषपदशब्दार्थोऽपि भावनीयः, तत्रघट्टनं-खागतिः स्तम्भनं-ग्रीवायांधमण्यादीनां तिष्ठतोवाऽऽत्मनोऽङ्गप्रदेशानांश्लेषणं-- ऊर्वादीनां जानुप्रभृतिभिः सम्बन्धः पतनं-तिष्ठत एव गच्छतो वा यल्लुठनं, एतानि च घट्टनादीनि जीवस्यानीप्सितत्वादप्रशस्यत्वाच वंकगतिशब्दावाच्यानि, तथा पङ्के गतिः पङ्कगतिः, पङ्कग्रहणमुदकस्याप्युपलक्षणं, तेन पङ्के उदके वाऽतिदुस्तरं यदात्मीयंकायं केनापि सहोद्वध्य तबलेन गच्छति सा पङ्कगतिः,
बन्धनविमोचनगतिरिति बन्धनाद्विमोचनं बन्धनविमोचनं तेन गतिर्बन्धनविमोचनगतिः-यदाम्रादिफलानामतिपरिपाकगतानामत एव बन्धनाद्विच्युतानां यधो विश्रसयानिर्व्याधातेन गमनं सा बन्धनविमोचनगतिरिति भावः, एतदेव सूत्रकृदुपदर्शयति-से किं तं पयोगगई'इत्यादि सुगमसमापदपरिसमाप्तेः, नवरं 'जंबुद्दीवे दीवे भरहेरवयवासस्स सपक्खं सपडिदिसिं सिद्धिखेत्तोववायगई' इति जंबूद्वीपे द्वीपे यत् भरतवर्षं ऐरावतवर्षं च तयोरुपरि सिद्धिक्षेत्रोपपातगतिर्भवति, कथमित्याह-'सपक्षं सप्रतिदिक् च'तत्र सह पक्षाः-पावाःपूर्वापरदक्षिणोत्तररूपाः यस्मिन् सिद्धिक्षेत्रोपपातगतिभवने तत् सपक्षं प्रतिदिशो-विदिश आग्नेय्यादयो यस्मिन् तत्सप्रतिदिक्, क्रियाविशेषणमेतत्, एषोऽत्र भावार्थः-जंबूद्वीपे द्वीपे भरतैरावतवर्षयोरुपरिसर्वासुदिश्रुविदिक्षुचसर्वत्र सिद्धिक्षत्रोपपातगतिर्भवतीति, एवंशेषसूत्रेष्वपि भावनीयं, उपसंपद्यमानगतिसूत्रे जण्णंरायंवा' इत्यादि, राजा-पृथिवीपतिः युवराजो-राज्यचिन्ताकारी राजप्रतिशरीरं ईश्वरः-अणिमाद्यैश्वर्ययुक्तस्तलवरः-परितुशष्टनरपतिप्रदत्तपट्टबन्धविभूषितोराजस्थानीयःमाडम्बिकः-छिन्नमडम्बाधिपः कौटुम्बिकः-कतिपयकुटुम्बस्वामी इभमर्हतीतीभ्यो-धनवान् श्रेष्ठी-श्रीदेवताध्यासतसौवर्णपट्टभूषितोत्तमाङ्गः सेनापतिः-नृपतिनिरुपितचतुरङ्गसैन्यनायकः सार्थवाहः-सार्थनायकः,नौगतिसूत्रे ‘पुव्ववेतालिओ' इत्यादि वैतालीशब्दोऽत्र देशीवचनत्वाद्वेतालावतटवाची ॥
पदं - १६-समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता प्रज्ञापनाउपागसूत्रे षोडशस्य पदस्य मलयगिरिआचार्येण विरचिता टीका परिसमाप्ता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org