SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ पदं-१६, उद्देशकः-, द्वारं औदारिकशरीरकायप्रयोगः, अयं च तिरश्चो मनुष्यस्य च पर्याप्तस्य १, 'औदारिकमिश्रकायशरीरप्रयोग' इति औदारिकं च तन्मिश्रं च औदारिकमिश्र, केन सह मिश्रितमिति चेत् ?, उच्यते, कार्मणन, तथा चोक्तं नियुक्तिकारेण शस्त्र (आहार) परिज्ञानध्ययने॥१॥ 'जोएणं कम्मएणं आहारेइ अनंतरंजीवो। तेण परं मीसेणंजाव सरीरस्स निप्फत्ती॥ ननुमिश्रत्वमुभयनिष्ठं, तथाहि-यथाऔदारिकंकामणेन मिश्रंतथा काणमपिऔदारिकेण मिश्रं ततः कस्मादौदारिकमिश्रमेव तदुच्यते न कार्मणमिश्रमिति ?, उच्यते, इह व्यपदेशः स प्रवर्तनीयो येन विवक्षितार्थप्रतिपत्तिर्निष्प्रतिपक्षा श्रोतृणामुपजायते, अन्यथा संदेहापत्तितो विवक्षितार्थाप्रतिपत्त्यानतेषामुपकारः कृतःस्यात्, कार्मणंचशरीरमासंसारमविच्छेदेनावस्थितत्वात् सकलेष्वपि शरीररेषु सम्भवति, ततः कार्मणमिश्रमित्युक्ते न ज्ञायते किं तिर्यग्मनुष्याणामपप्तिावस्थायां तद्विवक्षितमुत देवनारकाणामिति?, तत उत्पत्तिमाश्रित्यौदारिकस्य प्रधानत्वात् कादाचित्कत्वाच्च निशष्प्रतिपक्षविवक्षितार्थप्रतिपत्त्यर्थमौदारिकेण व्यपदिश्यते-औदारिकमिश्रमिति, तथायदौदारिकशरीरो वैक्रियलब्धिसम्पन्नौ मनुष्यस्तिर्यक्पञ्चेन्द्रियः पर्याप्तकबादरवायुकायिको वावैक्रियंकरोतितदा किलौदारिकशरीरप्रयोगएववर्तमानःप्रदेशान् विक्षिप्य वैक्रियशरीर योग्यान् पुद्गलानुपादाय वैक्रियशरीरपर्याप्तया यावन्न पर्याप्तिमुपगच्छति तावत्यद्यपि वैक्रियेण मिश्रतौदारिकस्योभयनिष्ठा तथाप्यौदारिकस्य प्रारम्भकतया प्रधानत्वात् तेन व्यपदेश औदारिकमिश्रमिति, न वैक्रियेणेति, तथा आहारकमपि शरीरं यदा कश्चिदाहारकलब्धिमान् पूर्वधरः करोतितदायद्यप्याहारकेण मिश्रत्वमौदारिककस्योभयनिष्ठतथाप्यौदारिकमारभकतयाप्रधानमिति तेन व्यपदेशप्रवृत्तिरौदारिकमिश्रमिति, न त्वाहारकेणेति, औदारिकमिश्रं च तत् शरीरं चेत्यादि पूर्ववत् २, वैक्रियशरीरकायप्रयोगोवैक्रियशरीरपर्याप्तयापर्याप्तया ३, वैक्रियमिश्रशरीरकायप्रयोगो देवनाकारणमपर्याप्तावस्थायां, मिश्रताच तदानीं कानुनसह वेदितव्या, अत्राक्षेपपरिहारौ प्राग्वत्, तथा यदा मनुष्यस्तिर्यक्पञ्चेन्द्रियो वायुकायिको वा वैक्रियशरीरी भूत्वा कृतकार्यो वैक्रियं परिजिहीर्घरौदारिके प्रवेष्टुं यतते तदा किल वैक्रियशरीरबलेनौदारिकोपादानाय प्रवर्तते इति वैक्रियस्य प्राधान्यात्तेन व्यपदेशो नौदारिकेणेति वैक्रियमिश्रमिति ४, तथा आहारकशरीरकायप्रयोगः आहारकशरीरपर्याप्तया पर्याप्तस्य ५, आहारकमिश्रशरीरकायप्रयोगः आहारकादौदारिकं प्रविशतः, एतदुक्तं भवति-यदा आहारकशरीरी भूत्वा कृतकार्यः पुनरप्यौदारिकं गृह्णाति तदा यद्यपि मिश्रत्वमुभयनिष्ठं तथाप्यौदारिकेप्रवेशआहारकबलेनेत्याहारकस्य प्रधानत्वात् तेन व्यपदेशो नौदारिकेणाहारकमिश्रमिति ६ । एतच्च सिद्धान्ताभिप्रायेणोक्तं, कार्मग्रन्थिकाः पुनर्वैक्रियस्य प्रारम्भकाले परित्यागकाले च वैक्रियमिश्रमाहारकशरीरस्य प्रारम्भकाले परित्यागकालेच आहारकमिधेन त्वेकस्यामपर्यवस्थायामौदारिकमिश्रमिति प्रतिपन्नाः, तैजसकार्मणशरीरप्रयोगो विग्रहगतौ समुद्घातावस्थायां वा सयोगिकेवलिन्स्तृतीयचतुर्थपञ्चमसमयेषु, इह तैजसं कार्मणेन सहाव्यभिचारीति युगपत्तैजसकार्मणग्रहणं, अमूनेव पञ्चदश प्रयोगान् जीवादिषु स्थानेषु चिन्तयन्नाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy