________________
प्रज्ञापनाउपाङ्गसूत्रम् -२-१६/-/-/४३८ प्रधानपदहेतुत्वादिन्द्रियतामेव लेश्यादिसद्भावात्स विशेषत इन्द्रियपरिणाम उक्तसततस्तदनन्तरमिह परिणामसाम्यात् प्रयोगपरिणामः प्रतिपाद्यते, तत्र चेतमादिसूत्रम्
मू. (४३८) कतिविहे णं भंते ! पओगे पं० ?, गो० ! पन्नरसविहे पओगे पं०, तं०सच्चमणप्पओगे १ असच्चमणप्पओगे २ सच्चामोसमणप्पओगे ३ असच्चामोसमणप्पओगे ४ एवं वइप्पओगेवि चउहा ८ ओरालियसरीरकायप्पओगे ९ ओरालियमी ससरीकायप्पओगे १० वेउव्वियसरीरकायप्पओगे ११ वेउव्वियमीससरीका- यप्पओगे १२ आहारकसरीरकायप्पओगे १३ आहारगमीससरीरकायप्पओगे १४ (तेया) कम्मासरीरकायप्पओगे १५ ।
वृ. 'कइविहे णं भंते!' इत्यादि, कतिविधः - कतिप्रकारः, णमिति वाक्यालङ्कार, भदन्त प्रयोगः प्रज्ञप्तः ?, प्रयोग इति प्रपूर्वस्य 'युजिरायोगे' इत्यस्य धञन्तस्य प्रयोगः, परिस्पन्दक्रिया आत्मव्यापार इत्यर्थः, अथवा प्रकर्षेण युज्यते - व्यापार्यते क्रियासु सम्बन्ध्यते वा साम्परायिकेर्यापथकर्मणा सहात्मा अनेनेति प्रयोगः 'पुंनाम्नी'ति करणे धञ्प्रत्ययः, भगवानाह - पञ्चदशविधः प्रज्ञप्तः, तदेव पञ्चदशविधत्वं दर्शयति
३०
'सच्चमणप्पओगे' इत्यादि, सन्तो- मुनयः पदार्था वा तेषु यथासङ्ख्यं मुक्तिप्रापकत्वैन यथावस्थितवस्तुस्वरूपचिन्तनेन च साधु सत्यं - अस्ति जीवः सदसद्द्भूपो देहमात्रव्यापीत्यादिरूपतया यथावस्थितवस्तुचिन्तपरं, सत्यं च तत् मनश्च सत्यमनः तस्य प्रयोगो-व्यापारः सत्यमनप्रयोगः, 'असचमणप्पओगे' इति, सत्यविपरीतमसत्यं यथा नास्ति जीवः एकान्तसद्रूपो वेत्यादिकुविकल्पनपरं, तच्च तन्मश्च तस्य प्रयोगोतऽ सत्यमनः प्रयोगः,
'सच्चमोसमणप्पओग' इति सत्यमृषा - सत्यासत्ये यथा धवखदिरुपलाशादिमिश्रेषु बहुष्वशोकवृक्षेषु अशोकवनमेवेदमिति विकल्पनपरं, तत्र हि कतिपयाशोकवृक्षाणां सद्भावात् सत्यता अन्येषामपि धवखदिरादीनां सद्मावादसत्यता, व्यवहारनयमतापेक्षया चैवमुच्यते, परमार्थतः पुनरिमसत्यंमेव, यथाविकल्पितार्थायोगात्, तच्च तन्मनश्चेत्यादि प्राग्वत्,
तथा 'असच्चामोसमणप्पओगे' इति यन्न सत्यं नापि मृषा तदसत्यामृषा, इह विप्रतिपत्तौ सत्यां वस्तुप्रतिष्ठासया सर्वज्ञमतानुसारेण विकल्प्यते यथा अस्ति जीवः सदसद्रूपे इति तत्किल सत्यं परिभाषितमाराधकत्वात्, यत्पुनर्विप्रतिपत्तौ सत्यां यद्वस्तुप्रतिष्ठाशयाऽपि सर्वज्ञमतोत्तीर्णं विकल्प्यते यथा नास्ति जीवः एकान्तनित्यो वेत्यादि तदसत्यं विराधकत्वात्, यत्पुनर्वस्तुप्रतिष्ठासामान्तरेण स्वरूपमात्रपर्यालोचनपरं यथा - देवदत्तात्त ३ घट आनेतव्यो गौर्याचनीया इत्यादिचिन्तपनपरकं तत् असत्यामृषा, इदं हि स्वरूपमात्रपर्यालोचनपरत्वात् न यथोक्तलक्षणं सयं नापि मृषा, एतदपि व्यवहारनयमतापेक्षया द्रष्टव्यं, अन्यथा विप्रतारणबुद्धिपूर्वकमसत्येऽन्तर्भवति अन्यत्तु सत्ये, तच्च तन्मनश्च तस्य प्रयोगोऽसत्याऽमृषामनः प्रयोगः ।
एवं 'वइप्पओगोवि चउहा' इति, यथा मनः प्रयोगश्चतुर्द्धा तथा वाक्प्रयोगोऽपि चतुर्द्धा, तद्यथा-सत्यवाक्प्रयोगो मृषावाक्प्रयोगः सत्यामृषावाक्प्रयोगः असत्यामृषावाक्प्रयोगः, एताश्च सत्यवागादयः सत्यमनःप्रभृतिवद्भावनीया इति ।
ओरालियसरीरकायप्पओगे' इति औदारिकादिशब्दार्थमग्रे वक्ष्यामः, औदारिकमेव शरीरं तदेव पुद्गलस्कन्धसमुदायरूपत्वात् उपचीयमानत्वाच्च कायः औदारिकशरीरकायः तस्य प्रयोगः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org