SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ पदं-१५, उद्देशकः-२, द्वारं - मनुष्यत्वमवाप्य सेत्स्यति तस्याष्टी, यः पुनरेकवारंमनुष्यो भूत्वाभूयोऽपिमनुष्यत्वमवाप्य सेत्स्यति तस्यषोडश, यस्त्वपान्तराले देवत्वमनुभूय मनुष्यो भूत्वा सिद्धिगामीतस्य चतुर्विंशतिः, मनुष्यभवे अष्टौ देवभवेऽष्टौ भूयोऽपि मनुष्यभवे अष्टाविति, सङ्खयेयानि सङ्ख्येयं कालं संसारावस्थायिनः, इह विजयादिषु चतुर्भुगताः प्रभूतमसङ्खयेयमनन्तं वा कालं संसारे नावतिष्ठन्ते ततः संखेज्जा वा इत्येवोक्तं, 'नासंखेज्जा वा अनंता वा' इति, सर्वार्थद्धिस्त्वनन्तरभवे नियमतः सिध्यति ततस्तस्याजधन्योत्कृष्टं पुरस्कृता अष्टाविति। बहुवचनचिन्तायां नैरयिकसूत्रे बद्धानि द्रव्येन्द्रियाण्यसङ्खयेयानि, नैरयिकाणामसङ्ख्यातत्वात्, एवं शेषसूत्रेष्वप्युपयुज्य वक्तव्यं, नवरं मनुष्यसूत्रे 'सिय संखेज्जा सिय असंखेज्जा' इह सम्मूर्छिममनुष्याःकदाचित्सर्वथान सन्ति, तदनन्तरस्य चतुर्विंशतिमुहूर्तप्रमाणस्यप्रागभिधानात्, तत्र यदा पृच्छासमये सर्वथा न सन्ति तदा सङ्खयेयानि, गर्भजमनुष्याणां सङ्खयेयत्वात्, यदा तु सम्मूर्छिमा अपि सन्ति तदा असङ्खयेयानि, सर्वार्थसिद्धमहाविमानदेवाः सङ्घयेयाः, बादरत्वे महाशरीरत्वे च सति परिमितक्षेत्रवर्त्तित्वात्, ततो बद्धानि पुरस्कृतानि वा तेषां द्रव्येन्द्रियाणि सङ्खयेयानि, एगमेगस्सणंभंते! नेरइयस्स नेरइयत्ते' इत्यादि, 'कस्सइ अस्थि कस्सइ नत्थि' इति यो नरकादुत्तो भूयोऽपिनैरयिकत्वं नावाप्स्यति तस्य न भवन्ति, यस्त्ववाप्यस्यति तस्य सन्ति, सोऽपि यद्येकवारमागामी ततोऽष्टौ द्वौ वारौ चेत् तचर्हि षोडश यदि त्रीन् वारान् ततश्चतुविंशतिःसङ्ख्येयान्वारान्आगामिनः सङ्घयेयानीत्यादि, मनुष्यत्वचिन्तायां 'कस्सइ अस्थि कस्सइ नत्थि' इति न वक्तव्यं, मनुष्येष्वागमनस्यावश्यंभावित्वात्, ततो जघन्यपदेऽष्टौ उत्कर्षतोऽनन्तानीति वक्तव्यं, विजयवैजयंतजयन्तापराजितचिन्तायां अतीतानि द्रव्येन्द्रियाणि न सन्ति, कस्मादिति चेत् ?, उच्यते, इह विजयादिषुचतुर्भुगतोजीवोनियमात्तत उद्वत्तो नजातुचिदपिनैरयिकादिपञ्चेन्द्रियतिर्यकपर्यवसानेषु तथा व्यन्तरेषुज्योतिष्केषुचमध्ये मसागमिष्यति तथास्वाभाव्यात्, मनुष्येषु सौधर्मादिषु चागमिष्यति, तत्रापिजघन्यत एकं द्वौ (त्रीन्) वाभवानुत्कर्षतः सङ्खयेयान् नपुनरसङ्खयेयान् अनन्तान्वा, ततोनैरयिकस्य विजयादित्वेऽतीतानिद्रव्येन्द्रियाणिनसन्तीत्युक्तं, पुरस्कृतानि अष्टौ षोडश वा, विजयादिषु द्विरुत्पन्नस्यानन्तरभव नियमतो मोक्षगमनात्, ___ एवं यथा नैरयिकस्य नैरयिकत्वादिषु चतुर्विंशतौ स्थानेषु चिन्ता कृता तथा असुरकुमारादीनामपिप्रत्येकंकर्तव्या, पूर्वोक्तभावनाऽनुसारेण च स्वयमुपयुज्यपरिभावनीया, भावेन्द्रियसूत्राण्यपि सुगमान्येव, केवलं द्रव्येन्द्रियगतभावनानुसारेण तत्र भावना भावयितव्या पदं-१५ - उद्देशकः-२ - समाप्तम् पदं-१५- समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता प्रज्ञापनाउपाङ्गसूत्रे पञ्चदशपदस्य मलयगिरिआचार्येण विरचिता टीका परिसमाप्ता। (पदं-१६ - "प्रयोग" वृतदेवं व्याख्यातंपञ्चदशमधुना षोडशमारभ्यते-तस्य चायमभिसम्बन्धः-इहानन्तरपदे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy