________________
२७७
पदं-३६, उद्देशकः-, द्वारमनुष्येषु चेदं वक्ष्यमाणलक्षणं नानात्वं, तदेववाह-'वणप्फइकाइयाण'मित्यादि, अत्र प्रश्नसूत्रं सुप्रतीतं, उत्तरसूत्रे निर्वचनं-अनन्ताः, अनन्तानां भाविकेवलिसमुद्घातानां तत्र भावात्,
___'मणुस्साण'मित्यादि, अत्रापि प्रश्नसूत्रं सुगम, भगवानाह- गौतम ! स्यात् सन्ति स्यान्न सन्ति, किमुक्तं भवति? -यदा प्रश्नसमये समुद्घातानिवृत्ताः प्राप्यन्ते सदा सन्ति, शेषकालं न सन्ति, तत्र ‘जइ अत्थि'त्ति यदि प्रश्नसयमे कृतकेवलिसमुद्घाता मनुष्यत्वमनुभवन्तः प्राप्यन्ते तदा जघन्यत एकौ द्वौ त्रयो वा उत्कर्षतः शतपृथकत्वं, एतावतामककालमुत्कृष्टपदे केवलिनां केवलिसमुद्घातासादनात् 'केवइयापुरेक्खडा'त्ति कियन्तोमनुष्याणां केवलिसमुद्घाताः पुरस्कृताः भगवानाह-स्यात् सङ्घयेयाः स्यादसङ्खयेया, मनुष्या हि सम्मूर्छिम गर्भव्युत्क्रान्ताश्च सर्वसमुदिता उच्कृष्टपदे प्रागुक्तप्रमाणास्तत्रापि विवक्षितप्रश्नसमयभाविनांमध्ये कदाचित्केवलिसमुद्घाताः सङ्खयेयाः, बहूनामभव्यानांभावात्, कदाचिदसङ्खयेयाः,बहूनांभाविकेवलिसमुद्घातानां भावात्
सम्प्रति एकैकस्य नैरयिकत्वादिभावेषुवर्तमानस्य प्रत्येकं कति वेदनासमुद्घाताअतीताः कति भाविन इति निरूपयितुकाम आह
मू. (६०३) एगमेगस्सणं भंते! नेरइयस्स नेरइयत्ते केवइया वेदणास० अतीता?, गो० अनंता, केवइया पुरेक्खडा?, गो०! कस्सइ अस्थि कस्सइ नत्थि, जस्स अस्थि जह० एको वा दो वा तिन्निवा, उक्कोसेणं संखेज्जा वा असंखेज्जा वाअनंता वा, एवं असुरकुमारत्तेजाव वेमाणियत्ते
एगमेगस्सणंभंते ! असुरकुमारस्स नेरइयत्ते केवइया वेदनासमुग्घाया अतीता? गो०! अनंता, केवइया पु०!, गो० ! कस्सइ अस्थि कस्सति नत्थि, जस्सत्थि तस्स सिय सं० सिय अ० सिय अनंता, एगमेगस्सणं भंते ! असुरकुमारस्सअसुरकुमारत्ते केवइया वेदनासमुग्घाया अतीता?, गो० ! अनंता, केवइया पु०?,गो० ! कस्सइ अस्थि कस्सइ नत्थि, जस्सत्थि जह० एको वा दो वा तिन्नि वा उ० संखे० असंखे० अनंता वा, एवं नागकुमारत्तेवि जाव वेमाणियत्ते,
एवं जहा० वेयणासमुग्धातेणं असुरकुमारे नेरइयादिवेमाणियपज्जवसाणेसु भणितो तहा नागकुमारादिया अवसेसेसुसट्ठाणेसुपरट्ठाणेसुभाणितव्वा जाववेमाणियस्सवेमाणियत्ते, एवमेते चउव्वीसा चउव्वीसं दंडगा भवंति।
वृ. 'एगमेगस्स णमित्यादि, एकैकस्य भदन्त! नैरयिकस्य सकलमतीतं कालमवधीकृत्य तदा तदा नैरयिकत्वे वृत्तस्य सतः सर्वसङ्ख्यया कियन्तः वेदनासमुद्घाता अतीताः ?, भगवानाह-गौतम! अनन्ताः, नरकस्थानस्यानन्तशःप्राप्तत्वादेकैकस्मिंश्च नरकभवेजघन्यपदेऽपि सङ्ख्येययानां वेदनासमुद्घातानां भावात्, 'केवइया पुरेक्खडा'त्ति कियन्तो भदन्त ! एकैकस्य नैरयिकस्यासंसारमोक्षमनागतं कालमवधीकृत्य नैरयिकत्वे भावनिः सतः सर्वसङ्ख्यया पुरस्कृता वेदनासमुद्घाताः?, भगवानाह
‘गौतम! कस्सइअस्थि'इत्यादि, तत्र यआसन्नमृत्युर्वेदनासमुद्घातमप्राप्यान्तिकमरणेन नरकादुद्धृ त्य सेत्स्यतितस्य नास्ति नैरयिकत्वे भावी एकोऽपिपुरस्कृतो वेदनासमुद्घातः,शेषस्य तु सन्ति, तस्यापि जघन्यत एको द्वौ वा त्रयो वा, एतच्च क्षीणशेषायुषां तद्भवजानामनन्तरं सेत्स्यतां द्रष्टव्यं, न भूयो नरकेषूत्पत्स्यमानानां, भूयो नरकेषूत्पत्तौ जघन्यपदेऽपि सङ्खयेयानां प्राप्यमाणत्वात्, यदाह मूलटीकाकारः-“नरकेषुजघन्यस्थितिषूत्पन्नस्यनियमतः नियमतः सङ्खयेया एव वेदनासमुद्घाता भवन्ति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org