SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ २७८ प्रज्ञापनाउपाङ्गसूत्रम्-२-३६/-/-/६०३ वेदनासमुद्घातप्रचुरत्वान्नारकाणा"मिति, उत्कर्षतः सङ्घयेया असङ्खयेया वा अनन्ता वा, तत्र सकृत नरकेषुजघन्यस्थितिषूत्पत्स्यमानलस्य सङ्खयेयाः अनेकशो दीर्घस्थितिषुअसकृद्वा उत्पत्स्यमानस्य असङ्ख्येयायः अनन्तशः उत्पस्यमानस्य अनन्ताः, एव'मित्यादि, एवं नैरयिकगतेनभिलापप्रकारेणासुरकुमारत्वेन तदनन्तरं चतुर्विंशतिदण्डकक्रमेण निरन्तरं तावद्वाच्यं यावद्वैमानिकवे, तचैवम्–“एगमेगस्सणंभंते! नेरइयस्सअसुरकुमाराओकेवइया वेदनासमुग्धाया अतीता?,गो०! अनंता, केवइयापुरेक्खडा?,गो०! कस्सइ अस्थिकस्सइ नत्थि, जस्सअस्थि जहन्नेणं एको वा दो वा तिनि वा उक्कोसेणं सङ्ग्रेजा वा असंज्ञेजा वा अनंता वा' तत्रातीतसूत्रेऽनन्तशोऽसुरकुमारत्वस्य प्राप्तत्वादुपपद्यते तद्भवमापनस्यानन्ता अतीता वेदनासमुद्घाताः, पुरस्कृतचिन्तायांयोऽनन्तरभवेन नरकावृत्तोमानुष्यं प्राप्य सेत्स्यतिप्राप्तोवापरम्परया सकृतसुकुमारभवं न वेदनासमुद्घातं गमिष्यति तस्य नास्त्येकोऽपि पुरस्कृतो असुरकुमारत्वे वेदनासमुद्घातः, यस्तुसकृदसुरकुमारत्वंप्राप्तःसन्सकृदेव वेदनासमुद्घातांगन्ता तस्यजघन्यत एको द्वौ वा त्रयो वा, शेषस्य सङ्कयेयान वारान् असुरकुमारत्वं यास्यतः सङ्ख्येया असङ्खयेयान् वारान् असङ्खयेया अनन्तान् वारान् अनन्ताः, एवं चतुर्विंशतिदण्डकक्रमेण नागकुमारत्वादिषु स्थानेषु निरन्तरं सूत्रपाठस्तावद् वक्तव्यो यावद्वैमानिकत्वविषयं सूत्रं, ___“एगमेगस्स णमित्यादि, एकैकस्य भदन्त ! असुरकुमारस्य पूर्वं नैरयिकत्वेन वृत्तस्य सतः सकलमतीतं कालमपेक्ष्य सर्वसङ्ख्यया कियन्तो वेदनासमुद्घाताअतीताः?, भगवानाहगौतम ! अनन्ता अतीताः, अनन्तशो नैरयिकत्वस्य प्राप्तत्वात्, एकैकस्मिंश्च नैरयिकस्य भवे जघन्यपदेऽपिसङ्ख्येयानां वेदनासमुद्घातानां भावात्, कियन्तः पुरस्कृताः?,स्यात् सन्तिस्यान्न सन्ति, कस्यचित्सन्ति कस्यचिन्न सन्ति इति भावः, अत्रापीयंभावना-योऽसुरकुमारभवादुवृत्तो ननरकंयास्यतिकिन्त्वनन्तरंपरम्परया वामनुजभवं प्राप्य सेत्स्यतितस्य नरयिकत्वास्थाभाविनः पुरस्कृता वेदनासमुद्घातानसन्ति, नैरयिकत्वावस्थायाएवासम्भवात्, यस्तुतद्भवादूर्ध्वंपारम्पर्येण नरकं गमिष्यति तस्य सन्ति, तत्रापि कस्यचित्सङ्खयेयाः कस्यचिदसङ्खयेया; कस्यचिदनन्ताः, तत्र यः सकृजघन्यस्थितिषुमध्ये समुत्पत्स्यतेतस्य जघन्यपदेऽपि सङ्घयेयाः, सर्वजघन्यस्थितावपि नरकेषु सङ्ख्येयानांवेदनासमुद्घातानांभावात्, वेदनाबहुलत्वान्नारकाणां, असकृद् जघन्यस्थितिषु दीर्घस्थितिषु सकृदसकृद्वा गमने असङ्खयेयाः, अनन्तशो नरकगमने अनन्ताः, तथा एकैकस्यभदन्त! असुरकुमारस्यासुरकुमारत्वेस्थितस्यसतः सकलमतीकालमधिकृत्य कियन्तो वेदनासमुद्घाताअतीताः?, भगवानाह-गौतम! अनन्ताः, पूर्वमप्यनन्तशस्तभावस्य प्राप्तवात्,प्रतिभवंचवेदनासमद्घातस्य प्रायोभावात्, पुरस्कृतचिन्तायांकस्यचित् सन्तिकस्यचिन्न सन्ति, यस्य प्रश्नसमयादूर्ध्वसुरकुमारत्वेऽपि वर्तमानस्य न भावी वेदनासमुद्घातो नापि तत उद्वृत्त्य भूयोऽप्यसुरकुमारत्वं प्राप्यस्ति तस्य न सन्ति, यस्तु सकृत् प्राप्स्यति तस्य जघन्यपदे एको द्वौ वा त्रयो वा उत्कर्षतः सङ्खयेयाअसङ्खयेयाअनन्तावा, सङ्खयेयान्वारान् उत्पत्स्यमानस्य सङ्खयेयाः असङ्खयेन्वारान् असद्धेययाःअनन्तान् वारान् अनन्ताः,एवं चतुर्विंशतिदण्डकक्रमेण नागकुमारत्वादिषु स्वस्थानेष्वसुरकुमारस्य निरन्तरं तावद्वक्तव्यं यावद्वैमानिकत्वे, तथा चाह ___ “एवं नागकुमारत्तेवि' इत्यादि, तदेवमसुरकुमाराणां वेदनासमुद्घातश्चिन्तितः, सम्प्रति नागकुमारादिष्वतिदेशमाह-‘एव'मित्यादि, उपदर्शिताभिलापेन यथा चतुर्विंशतिदण्डकक्रमेण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy