________________
२७६
प्रज्ञापनाउपाङ्गसूत्रम्-२- ३६/-/-/६०२ भाविसंसारावस्थानभावात्, एवं चतुर्विंशतिदण्डकक्रमेणतावद्वक्तव्यंयावद्वैमानिकानां, यथा च वेदनासमुदअघातश्चतुर्विंशतिदण्डकक्रमेण चिन्तितः तथा कषायमरणवैक्रियतजस समुद्घाता अपि चिन्तनीयाः, तथा चाह
‘एवंजावतेयगसमुग्धाए' एवं च सति एतान्यपिबहुत्वाविषयाणि पञ्च चतुर्विंशतिदण्डकसूत्राणि भवन्ति, एतदेवाह-'एवमेएतियपंच चउव्वीसदंडगा' इति, आहारकसमुद्घातचिन्तां कुर्वन्नाह-'नेरइयाण मित्यादि, अत्र प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! असङ्खयेयाः, इयमत्र भावना-इह नैरयिकाः सर्वदाऽपि प्रश्नसयभाविनः सर्वसङ्ख्ययाऽप्यसङ्ख्येयाः, तेषामपि मध्ये कतिपयाः सङ्ख्यातीताःकृतपूर्वाहारकसमुद्घातास्ततोऽसङ्ख्येयाएव तेषामतीताहारसमुद्घाता घटन्ते, नानन्ताव नापि सङ्खयेयाः, एवं पुरस्कृता अपि भावनीयाः, एवं चतुर्विंशतिदण्डकक्रमेण तावद्वाच्यं यावद्वैमानिकानां, आह च
_“एवं जाव वेमाणियाणं' अत्रैव यो विशेषस्तं दिदर्शयिषुराह-'नवर'मित्यादि, नवरं वनस्पतिकायिकचिन्तायांमनुष्यचिन्तायांचनैरयिकापेक्षया नानात्वमवसेयं, तदेवनानात्वमाह'वणप्फइकाइयाण मित्यादि, अत्र प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! अनन्ताः, अनन्तानामधिगतचतुर्दशपूर्वाणांकृताहारकसमुद्घातानांप्रमादवशतःउपचितसंसाराणांवनस्पतिषुभावात, पुरस्कृता अनन्ताः, अनन्तानां वनस्पतिकायादुद्धृत्य चतुर्दशपूर्वाधिगमपुरस्सरं कृताहारकसमुद्घातानां भाविसिद्धिगमनभावात्,
'मणुस्साणं भंते !' इत्यादि, अत्रापि प्रश्नसूत्रं प्रतीतं, भगवानाह-गौतम ! स्यादिति निपातोऽनेकान्तद्योती, ततोऽयमर्थः-कदाचित् सङ्ख्येयाः कदाचिदसङ्खयेयाः, कथमिति चेत्, उच्यते, इह सम्मूर्छिमगर्भव्युत्क्रान्तसमुदायचिन्तायां उत्कृतष्टपदे मनुष्याअङ्गुलमात्रक्षेत्रेयावान् प्रदेशराशिस्तस्ययप्रथमवर्गमूलं तत्तृतीयवर्गमूलेन गुणितंसत्यावप्रमाणंभवतिएतावप्रदेशप्रमाणानि खण्डानि धनीकृतस्य लोकस्य एकपादेशिक्यां श्रेणी यावन्ति भवन्ति एतावप्रमाणा एकहीनाः,तेचातीवशेषनारकादिजीवराश्यपेक्षयास्तोकाः, तत्रापियेपूर्वमवेषुकृताहारकशरीरास्ते कतिपयाः, तेच कदाचित् विवक्षितप्रश्नसमये सङ्खयेया; कदाचिदसङ्खयेयाः, तत उक्तम्-'सिय संखेज्जा सिय असंखेज्जा' इति, अनागतेऽपि काले विवक्षितप्रश्नसमयभाविनांमध्ये कतिसङ्ख्या वाहारकशरीरमारप्यन्ति तेऽपि कदाचित् सङ्ख्याः कदाचिदसङ्खयेयाः, तत आह
‘एवंपुरेकाखडावित्तिएवंअतीतगतेन प्रकारेणवनस्पतिकायिकानांमनुष्याणांचपुरस्कृता अपि आहारकसमुद्घाता वेदितव्याः, ते चैवम्-'वणप्फइकाइयाणं भंते ! केवइया आहारगसमुग्घाया पुरेक्खडा?, गो० ! अनंता, मणुस्साणं भंते ! केवइया आहारगसमुग्घाया पुरेक्खडा?,गो० ! सिय संखेज्जा सिय असंखेज्जा' इति, केवलिसमुद्घातविषयं प्रश्नसूत्रमाह'नेरइयाणं भंते!' इत्यादिसुगम, भगवानाह-गौतम!न सन्ति केचनातीतानैरयिकाणां केवलिसमुद्घाताः, कृतकेवलिसमुद्घातानां नारकादिगमनासम्भवात्, कियन्तः पुरस्कृता इति प्रश्नः, भगवानाह-गौतम ! असंख्येयाः, सर्वदा विवक्षितप्रश्नसमयभाविनां मध्येऽसङ्ख्यातानां माविकेवलिसमुद्घातत्वात्, तथा केवलवेदसोपलब्धः, एवं चतुर्विंशतिदण्डकक्रमेण निरन्तरं तावद् वाच्यं यावद् वैमानिकानां सूत्रं, तथा चाह
“एवं जाव वेमाणियाणं' अत्रैव विशेषमाह-'नवर मित्यादि, नवरं-वनस्पतिकायिकेषु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org