________________
२६५
पदं-३५, उद्देशकः-, द्वार
'नेरइया णमित्यादि, तत्राद्यासु तिसृषु पृथिवीषूण्णां वेदनां वेदयन्ते, ते हि शीताः ये नरकावासाश्चतदाश्रयभूताः, सर्वतोजगप्रसिद्धस्वादिराङ्गारातिरिक्तबहुप्रतापोष्णपुद्गलसम्भूताः, चतुर्थ्यांतु पङ्कप्रभाभिधानायां पृथिव्यां केचिन्नैरयिका उष्णवेदनां केचिच्च शीतवेदनामनुभवन्ति, तत्रत्यनरकावासानां शीतोष्णभेदतो द्विधा भेदात्, केवलं ये उष्णवेदनां वेदयन्ते ते प्रभूततराः, प्रभूतेषुनरकावासेपूष्णवेदनासद्मावात, इतरेशीतवेदनामनुभवन्तःस्तोकाः, स्तोकतरेषुनरकावासेषु शीतवेदनासम्भवात्, धूमप्परभायामपिपृथिव्यां केचित्शीतवेदनाका केचिदुष्णवेदनाकाः, नवरं शीतवेदनाकाः प्रभूततराः, प्रभूतेषु नरकावासेषु शीतवेदनासम्भवात्, स्तोका उष्णवेदनाः, कतिपयेष्वेव नरकावासेषूष्णवेदनाभावात्, अधस्तन्योस्तु द्वयोः पृथिव्यशीतवेदनामेवनैरयिका अनुभवन्ति, तत्रत्यनैरयिकाणां सर्वेषामुष्णयोनिकत्वात्, नरकावासानांत्वनुपमहिमानुषक्तत्वात, एतावत्सूत्रं चिरन्तनेष्वविप्रतिपत्त्या श्रूयते, केचिदाचार्याः पुनरेतद्विषयमधिकमपि सूत्रं पठन्ति, ततस्तन्मतं आह
___'केइ एक्केकीए पुढवीए वेयणं भणंति' इति केचिदाचार्या एकैकस्यां पृथिव्यां प्रश्ननिवचनरूपतया वेदनां भणंति, यथा भणन्ति तथोपदर्शयन्ति-‘रयणप्पभे'त्यादि सुगमं, तदेवं नैरयिकाणां चिन्तिताशीतादिवेदना, सम्प्रत्यसुरकुमाराणांतांचिचिन्तयिषुरिदमाह-'असुरकुमाराणं पुच्छा' असुरकुमाराणां शीतादिवेदनाविषयेत पृच्छासूत्रंच वक्तव्यं, असुरकुमाराणं भंते ! किं सीयं वेदणंवेयंति उसिणंवेयणंवेयंति सीओसिणंवेयणंवेयंति?,इतिभगवानाह-'गोयमे'त्यादि, शीतामपि वेदनां वेदयन्ते, यदा शीतलजलसम्पूर्णहदादिषु निमज्जनादिकं विदधति, उष्णामपि वेदनां वेदयंते यदाकोऽपि महर्द्धिकस्तज्जातीयोऽन्यज्जातीयोवाकोपवशाविरूपतया दृष्टयाऽवलोकमानःशरीरे सन्तापमुत्पादयति, यथा प्रथमोत्पन्नः ईशानेन्द्रोबलिचञ्चाराजधानीवास्तव्यानामसुरकुमाराणामुत्पादितवान् , अन्यथा वातथाविधोष्णपुद्गलसम्पृक्तावुष्णवेदनामनुभवन्तो वेदितव्याः, यदा त्ववयवभेदेन शीतपुद्गलसम्पर्क उष्णपुद्गलसम्पर्कश्चोपजायते तदाशीतोष्णां वेदनांवेदयन्ते, ननुउपयोगः क्रमेणजीवानांभवति, तथास्वाभाव्यात्, कथमत्र शीतोष्णवेदनानुभवो युगपत् प्रख्याप्यते इति?, उच्यते, इहापि वेदनानुभवः क्रमेणैव, तथाजीवस्वाभाव्यात्, केवलं शीतोष्णवेदनाहेतुपुद्गलसम्पर्को युगपदुपजायत इति सूक्ष्ममाशुसञ्चारिणमुपयोगक्रममनपेक्ष्य यथैव ते वेदयमाना युगपदभिमन्यन्ते तथैव प्रतिपादितमिति न कश्चिद्दोषः, सामान्यतः सूत्रस्य प्रवृत्तत्वात्,
__ “एवंजाववेमाणिय'त्तिएवं-असुरोक्तेन प्रकारेणयाववैमानिकास्तावत् सूत्रंवक्तव्यं, तच्चैवम्-'पुढविकाइयाणं भंते! किं सीयं वेयणं वेयंति उसिणं वे० वे० सीओसिणं वेयणं वेयंति गो० ! सीयंपिवे० वे० उसिणंपिवे० वे०सीतोसिणंपिवे० वेयंति' इत्यादि, तत्र पृथिवीकायिकादयो मनुष्यपर्यवसानाःशीतवेदनां हिमादिप्रपातेऽभिवेदयमाना वेदितव्याः उष्णवेदनामग्न्यादिसम्पर्के शीतोष्णवेदनामवयवशःशीतोष्णपुद्गलसम्बन्धेइति, व्यन्तरज्योतिष्कवैमानिकास्त्वसुरकुमारवत् भावनीयाः । उक्ता शीतादिभेदात् त्रिविधा वेदना, सम्प्रति तामेव वेदना प्रकारान्तरेणाभिधित्सुः प्रश्ननिर्वचनसूत्रे आह
'कइविहाणंभंते' इत्यादि, इहवेदना द्रव्यक्षेत्रकालभावसामग्रीवशादुत्पद्यते, सर्वस्यापि वस्तुनो द्रव्यादिसामग्रीवशादुत्पद्यमानत्वात्, तत्र यदाऽस्यैव वेदनापुद्गलद्रव्यसम्बन्धमधिकृत्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org