________________
२६६
प्रज्ञापनाउपाङ्गसूत्रम्-२- ३५/-/-/५९६ चिन्त्यते तदा द्रव्यवेदना, द्रव्यतो वेदना द्रव्यवेदना, नारकाद्युपपातक्षेत्रमधिकृत्य चिन्त्यमाना क्षेत्रवेदना, नारकादिभवकालसम्बन्धेन विवक्ष्यमाणा कालवेदना, वेदनीयकर्मोदयादुपजायमानत्वेन परिभाव्यमाना भाववेदना, एतामेव चतुर्विधां वेदनां चतुर्विंशतिदण्डकक्रमेण चिन्तयति
'नेरइयाणं भंते! किं दव्वतो वेयणं वेदंति' इत्यादि, सकलमपि सुगमं । प्रकारन्तरेण वेदनांपि प्रतिपिपादयिषुः प्रश्ननिर्वचनसूत्रे आह
'कइविहाणं भंते!' इत्यादि, शरीरे भवा शारीरी मनसि भवा मानसी तदुभयभवा शारीरमानसी, शारीरीच मानसीच शारीरमानसी, 'पुंवत्कर्मधारय' इति पुंवद्यावः, एतामेव चतुर्विंशतिदण्डकक्रमेण चिन्तयति - 'नेरइया णं भंते! किं सारीरं वेयणं वेदेंति' इत्यादि, तत्र यदा परस्परोदीरणतः परमाधार्मिकोदीरणतो वा क्षेत्रानुभावतो वा शरीरे पीडामनुभवन्ति तदा शारीरीं वेदनां वेदयन्ते, यदा तु केवलं मनसि दुःखं परिभावयन्ति पाश्चात्यं वा भवमात्मीयं दुष्कर्मकारिणमनुसृत्य पश्चात्तापमतीव कुर्वते तदा मानसीं वेदनां वेदयन्ते, यदा तु शरीरे मनसि चोक्तप्रकारेण युगपत् पीडां अनुभवन्ति तदा शारीरमानसी, इहापि वेदनानुभावः क्रमेणैव केवलं विवक्षिततावत्कालमध्ये शरीरे च पीडामनुभवन्ति मनसि च एतावन्तं कालं एकं विवक्षित्वा युगपच्छरीरमनः पीडानुभवः प्रतिपादित इत्यदोषः, 'एवं जाव वेमाणिया' इत्यादि, एवं - नैरयिकोक्तेन प्रकारेण सूत्रं तावद् वक्तव्यं यावद्वैमानिकाः, नवरमेकेन्द्रियकलेन्द्रियाः शारीरीं वेदनां वेदयन्ते न मानसीं, तेषां मनोसोऽभावात्, ततस्तदनुसारेण तद्विषयं सूत्रं वक्तव्यं ।
प्रकारान्तरेण वेदनामभिधित्सुः प्रश्ननिर्वचनसूत्रे आह- 'कइविहा णं भंते!' इत्यादि, तत्र साता - सुखरूपा असाता - दुःखरूपा सातासाता - सुखदुःखात्मिका, एतामेव नैरयिकादिचतुर्विंशतिदण्डकक्रमेण चिन्तयति - 'नेरइया ण' मित्यादि, तत्र तीर्थङ्करजन्मादिकाले सातवेदनां वेदयन्ते, शेषकालमसातवेदनां वेदयन्ते, यदा तु पूर्वसङ्गतिको देवो दानवो वा वचनामृतैः सिञ्चति तदा मनसि सातं शरीरे तु क्षेत्रानुभावतोऽसातं यदिवा मनस्येव तद्दर्शनतः तद्वचनश्रवणतश्च सातं पश्चात्तापानुभवनतस्त्वसातमिति तदा सातासातवेदनामनुभवन्ति, अत्रापि तावन्तं विवक्षितकालमेकं विवक्षित्वा सातासातानुभवो युगपत् प्रतिपादितः, परमार्थतस्तु क्रमेणैव च वेदितव्य इति, 'एव' मित्यादि, एवं - नैरयिकोक्तप्रकारेण सर्वे जीवास्तावद्वक्तव्या यावद्वैमानिकाः, तत्र पृथिव्यादयो यावन्नाद्याप्युपद्रवः सन्निपतति तावत् सातवेदनां वेदयन्ते उपद्रवसम्पाते त्वसातवेदनामवयवभेदेनोपद्रवसम्पातभावे सातासातवेदनां, व्यन्तरज्योतिष्कवैमानिका देवाः सुखमनुभवन्तः सातवेदनां च्यवनादिकाले त्वसातवेदनां परविभूतिदर्शनतो मात्सर्याद्यनुभवे स्ववल्लभदेवीपरिष्वङ्गाद्यनुभवे च युगपज्जायमाने सातासातवेदनां वेदयन्ते इति । भूयः प्रकारन्तरेण एतावमेव प्रतिपादयन् प्रश्ननिर्वचनसूत्रे आह
'कइविहाणं भंते!' इत्यादि, या वेदना नैकान्तेन दुःखा भणितुं शक्यते सुखस्यापि भावात् नापि सुखा दुःखस्यापि भावात् सा अदुःखसुखा सुखदुःखात्मिका इत्यर्थः, अथ सातासातयोः सुखदुःखयोश्च परस्परं कः प्रतिविशेषः ?, उच्यते, ये क्रमेणोदयप्राप्तवेदनीयकर्मपुद्गलानुभवतः सातासाते ते सातासाते उच्यते, ये पुनः परोदीर्यमाणवेदनारूपे सातासाते ते सुखदुःखे इति एतामेव चतुर्विंशतिदण्डकक्रमेण चिन्तयति - 'नेरइया ण' मित्यादि ॥
वेदनामेव प्रकारान्तरेण चिन्तयन्नाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org