________________
पदं-३४, उद्देशकः, द्वारं
२६३ सुरतानुबन्धि परस्परं सभ्यासभ्यमनःसङ्कल्पकरणरूपं कुर्वन्ति, 'सेस'मित्यादि, शेषं से जहा नामएसीयापोग्गला' इत्यादि निरवशेषं तावद्वक्तव्यं यावत् 'भुजो २ परिणमन्ती तिसर्वान्तिमं वाक्यं, व्याख्या चास्य प्राग्वत्, तत ऊर्ध्वं तु ग्रैवेयकादयो मनसाऽपि योषितो न प्रार्थयन्ति, प्रतनुवेदोदयत्वात्, यथोत्तरंचैतेऽनन्तगुणसुखभाजः, तथाहि-कायप्रवीचारेभ्यो नन्तगुणसुखाः स्पर्शपरिचारकास्तेभ्योऽप्यनन्तगुणसुखाः रूपपरिचारकास्तेभ्योऽपि अनन्तगुणसुखा; शब्दपरिचारकास्तेभ्योऽप्यनन्तगुणसुखा मनःपरिचारकास्तेभ्योऽपि अपरिचारकाः अनन्तगुणसुखाः । साम्प्रतमेतेषामेव परस्परमल्पबहुत्वमभिधित्सुराह
मू. (५९३) एतेसिणं भंते! कायपरियारगाणं जाव मनपरियारगाणं अपरियारगाण य कयरे० अप्पा वा ४?, गो०! सव्वत्थोवा देवा अपरियारगा मनपरियारगा संखे० सद्दपरियारगा असंखे० रूवप० असं०-फासप० असं० कायप० असं०॥
वृ. 'एएसिण'मित्यादि, सर्वस्तोका देवा अपरिचारकाः, ते हि ग्रैवेयकानुत्तरोपपातिन्स्ते च सर्वसङ्ख्यया क्षेत्रपल्योपमासङ्खयेयभागवर्तिनभःप्रदेशराशिप्रमाणा इति, तेभ्योऽपि मनः परिचारका देवाः सङ्खयेयगुणाः, तेषामानतादिकल्पचतुष्टयवर्तित्वात्, तद्वर्तिनांच पूर्वदेवापेक्षया सङ्खयेयगुणक्षेत्रपल्योपमासजयेयभागगताकाशप्रदेशराशिप्रमाणत्वात्, तेभ्यः शब्दपरिचारका असङ्खयेयगुणाः, ते हि महाशुक्रसहस्रारकल्पवासिनः, ते च धनीकृतलोकस्य एकप्रादेशिक्याः श्रेणेरसङ्खयेयतमे भागे यावन्त आकाशप्रदेशास्तावनामाणाः,
तेभ्योऽपि रूपपिचारका देवा असङ्खयेयगुणाः, ते हि ब्रह्मलोकलान्तकल्पनिवासिनः.ते च पूर्वदेवानधिकृत्यासङ्खयेयगुणश्रेण्यसङ्खयेयभागगतनभःप्रदेशराशिप्रमाणाः,तेभ्योऽपि स्पर्शपरिचारकादेवाअसङ्खयेयगुणाः, तेषांसनत्कुमारमाहेन्द्रकल्पवर्तित्वात्तद्वर्तिनांचब्रह्मलोकलान्तकदेवानपेक्ष्यासङ्खयेयगुणश्रेण्यसङ्घयेयबागवत्याकाशप्रदेशपरिमाणतयाऽधीतत्वात्, तेभ्यः कायपरिचारका देवाअसङ्खयेयगुणाः भवनपत्यादीनामीशानान्तानां सर्वेषांकायपरिचारकत्वात्, तेषां सर्वसङ्ख्यया प्रतरासङ्खयेयभागवर्तिनभःप्रदेशराशिप्रमाणत्वात् इति ॥
पदं-३४ - समाप्तम् ....... ( पद-३५ - "वेदना" वृतदेवमुक्तंचतुस्त्रिंशत्तमंपदं, सम्प्रति पञ्चत्रिंशत्तममारभ्यते, अस्य चायमभिसम्बन्धःइहानन्तरपदे वेदपरिणामविशेषः प्रवीचारः प्रतिपादितः, अत्र तु गतिपरिणामविशेषा वेदना प्रतिपाद्यते, तत्र आदी सकलवक्तव्यतासङ्ग्रहपरे इमे द्वे गाथेमू. (५९४) सीता यदव्वसरीरा साता तह वेदणा भवति दुक्खा।
अब्भुवगमोवक्कमिया निदाय अनिदाय नायव्वा ॥ वृ. 'सीया य दब्बे' त्यादि, वेदना प्रथमतः शीता चशब्दादुष्णा सीतोष्णा च वक्तव्या, तदनन्तरं द्रव्यक्षेत्रकालभावैर्वेदना वक्तव्या, ततः शारीरी उपलक्षणान्मानसी च वेदना वाच्या, ततः साता तथा दुःखा वेदना सभेदा वक्तव्यतया ज्ञातव्या भवति, तदनन्तरमाभ्युपगमिकी
औपक्रमिकीच वेदना वक्तव्यतया ज्ञातव्या, ततोऽप्यनन्तरंनिदा चानिदा चेति, सातसुखादीनां विशेषमाभ्युपगमिक्यादिशब्दानामर्थं त्वग्रे वक्ष्यामः, सातादिवेदना अधिकृत्य यो विशेषो वक्ष्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org