SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २६२ प्रज्ञापनाउपाङ्गसूत्रम्--२- ३४/-/-/५९२ परिणमंति ?, गोयमा ! सोतिंदियत्ताए जाव फासिंदियत्ताए इट्ठत्ताए कंतत्ताए जाव भुज्जो २ परिणमंति' अस्यापि सपातनिका व्याख्या प्राग्वत्, नवरमस्मिन् स्पर्शप्रवीचारे शुक्रपुद्गलसङ्क्रमो दिव्यप्रभावादवसेयः, एवं रूपपरिचारादावलपि भावनीयं, तेवमुक्ताः स्पर्शपरिचारकाः, सम्प्रति रूपपरिचारणां विभावयिषुराह - 'तत्थ ण' मित्यादि, सुगमं तावत् यावत् विकुर्वित्वा 'जेणामेव ' त्ति यत्रैव देवलोके विमाने प्रदेशे च ते देवाः सन्ति तत्रैव स्थाने ता अप्सरस उपागच्छन्ति, उपागम्य च तेषां देवानां 'अदूरसांते' इति अदूरसमीपे स्थित्वा तानि पूर्वं विकुर्वितानि उदाराणि यावदुत्तरवै क्रियाणि रूपाणि उपदर्शयन्त्यस्तिष्ठन्ति, ततस्ते देवास्ताभिरप्सरोभिः सार्द्ध रूपपरिचारणां परस्परं सविलासदृष्टिविक्षेपाङ्गप्रत्यङ्गनिरीक्षणनिजनिजानुरागप्रदर्शनपटिष्टचेष्टाप्रकटनादिरूपां कुर्वन्ति, सेसं तं चेव' त्ति शेषं 'से जहा नामए' इत्यादि तदेव यावत् 'भुजो २ परिणमन्ती 'ति वाक्यम्, तदेवं भाविता रूपपररिचारणा, " सम्प्रति शब्दपरिचारणां भावयितुकाम आह- 'तत्थ ण' मित्यादि कण्ठ्यं, नवरमदूरसमीपे स्थित्वा अनुत्तरान् -सर्वमनःप्रल्हादजनकतया अनन्यसदशान् उच्चावचान् - प्रवल २ तरमन्मथोद्दीपकसभ्यासभ्यरूपान् शब्दान्सूत्रे नपुंसकनिर्देशः प्राकृतत्वात्, समुदीरयन्त्यस्तिष्ठन्ति, शेषं तथैव, 'एवं तत्थ ण' मित्यादि, मनः परिचारकसूत्रमपि तथैव यावन्मनः परिचारे मनसि कृते सति क्षिप्रमेव ता अप्सरसस्तत्र गता एव-सौधर्मेशानदेवलोकान्तर्गतस्वस्वविमानस्थिता एव सन्त्योऽनुत्तराणि - परमसन्तोषजनकतया अनन्यसदृशानि उच्चावचानि - कामानुषक्तसभ्यासभ्यरूपाणि मनांसि प्रचारयन्त्यस्तिष्ठन्ति, इह 'तत्तगया चेव समाणीओ' इति वदता देव्यः सहस्रारं यावद् गत्छन्ति न परत इत्यावेदितं द्रष्टव्यं तथा चाह सङ्ग्रहणिमूलटीकाकारो हरिभद्रसूरि :“सनत्कुमारादिदेवानां रताभिलाषे सति देव्यः स्वसल्पपरिगृहीताः सहस्ररं यावद् गच्छन्ती' ति, तथा स एव प्रदेशान्तरे आह - "इह सोहम्मे कप्पे तासिं देवीणं पलिओवममाउगं ताओ तद्देवाणं चेव हवंति, जासिं पुण पलिओवमाई समयाहिया ठिई दुसमयतिसमयसंखेज्जासंखेज्जसमयाहिया जाव दसपलिया सोहम्मगदेवीओ ताओ सणकुमाराणं गच्छंति, एवं दसपलिओवरि जासिं समयाहिया ठिई जाव वीसं पलिया ताओ बंभलोगदेवाणं गच्छंति, एवं वीसपलिओवरि जासिं समयाहिया ठिई जाव तीसं पलिया ताओ महासुक्कदेवाणं गच्छंति, एवं तीसं पलिओवरि जासिं समयाहिया ठिई जाव चत्तालीसं पलिया ताओ आणयदेवाणं तत्थ ठिया चेव झाणावलंबणं होति, एवं चत्तालीसं पलि ओवरि जासिं समयाहिया ठिई जाव पंचास पलिया ताओ आरणदेवाणं तत्थ ठियाओ चेव झाणावलंबणं होंति" तथा "ईसा जासि देवीणं पलिओवममहियमाउयं ताओ तद्देवाणं चेव होंति, जासिं पुण अहियपलिओवमाई समयाहिया ठिई दुसमयतिसमयसंखेज्जासंखेज्जसमयाहिया जाव पन्नरसपलिया ताओ माहिंददेवाणं गच्छंति, एवं पन्नरसपलि ओवरि समयाहिया ठिई जाव पणवीसं पलिया ताओ लंतगदेवाणं, जासिं पुण पणवीसपलिओवरि समयाहिया ठिई जाव पंचतीसं पलिया ताओ सहस्सारदेवाणं, जासिं पुण पंचत्तीसपलिओवरि समयाहिया ठिई जाव पणयालीसं ताओ पाणयदेवाणं तत्थ ठियाओ चेव झाणावलंबणं होति, जासिं पुण पणयालीसं पलि ओवरि समयाहिया ठिई जाव पणपन्नपलिया ताओ अच्चुयदेवाणं तत्थ ठियाओ चेव झाणावलंबणं हवंति' इति, 'तएण 'मित्यादि, ततो णमिति पूर्ववत्, ते देवाः ताभिरप्सरोभिः सार्द्धमनः- परिचारणं For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy