SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ २६० प्रज्ञापनाउपाङ्गसूत्रम्-२-३४/-/-/५९० अच्छराहिं सद्धिं कायपरियारणं कते समाणे से इच्छमणे खिप्पामेव अवेति । वृ. 'से जहानामए' इत्यादि से' इतिअथशब्दार्थः,सचात्र वाक्योपन्यासे, यथा नाम 'ते' विवक्षिताः शीताः पुद्गलाः शीतं-शीतयोनिकं प्राणिनं प्राप्य 'शीतमेव' शीतत्वमेवातिव्रज्य-अतिशयेन गत्वा तिष्ठन्ति, किमुक्तं भवति?-विशेषतः शीतीभूतस्य शीतयोनिकस्य प्राणिनः सुखित्वायोपकल्पन्ते, उष्णा वा पुद्गला उष्णयोनिकंप्राणिनं प्राप्य 'उष्णमेव' उष्णत्वमेवातिव्रज्य-अतिशयेन गत्वा तिष्ठन्ति, विशेषतः स्वरूपलाभसम्पत्त्या तस्य सुखित्वायोपतिष्ठन्ते इति भावः, "एवमेव' अनेनैव प्रकारेणतैर्देवैस्ताभिरप्सरोभिः सायथोक्तरूपे कायपरिचारणेकृतेसति इच्छामनः कामविषयेच्छाप्रधानमनःक्षिप्रमेवातितृप्तिभावात्शीतीभवति, इयमत्र भावना-यथा शीत्पुद्गलाःशीतयोनिकस्य प्राणिनः संस्पर्शेशीतत्वं विशेषतः आसादयन्तस्तस्य सुखित्वायोपकल्पन्ते उष्णपुद्गला वा उष्णयोनिकस्य प्राणिनः संस्पर्श उष्णत्वमतिप्रभूतमासादयन्तः सुखाय घटन्ते तथा देवीशरीरपुद्गला देवशरीरमवाप्यदेवशरीरपुद्गला अपि देवीशरीरमवाप्य परस्परं तद्गुणतां भजमानाः परस्परं सुखित्वायोपकल्पन्ते ततस्तृप्तिरुपजायते तृप्तिभावाचाभिलाषनिवृत्तिर्भवतीति। इह मनुष्यस्त्रीणांमनुष्यपुरुषोपभोगेशुक्रपुद्गलसङ्कमतः सुखमुपजायमानं लब्धंतत्किं देवीनामप्युपभोग्यदेवसत्कशुक्रपुद्गलसङ्कमतः सुखमुपजायतेआहोश्चिदन्यथेतिसंशयानोदेवानां शुक्रपुद्गलास्तित्वं पृच्छति मू. (५९१) अत्थिणं भंते ! तेसिं देवाणं सुक्कपोग्गला?, हंता! अत्थि, तेणं भंते! तासिं उच्छरकाणं कीसत्ताते भुजो २ परिणमंति?, गो० ! सोतिदियत्ताते चक्खुइंदि० घाणिंदिय० रसिंदिय० फासिंदियत्ताते इठ्ठताते कंतत्तातेमणुनत्तातेमणामत्ताते सुभगत्तातेसोहग्गरूवजोव्वणगुणलावन्नत्ताए ते तासिं भुजो २ परिणमंति। वृ. 'अस्थिण मित्यादि, अस्तीतिनिपातोऽत्रबह्वर्थे, णमिति पूर्ववत्, भदन्त! तेषां देवानां शुक्रपुद्गलाः यत्सम्पर्कतो देवीनां सुखमुपजायते?, 'हंता! अस्थि' भगवानाह-गौतम! सन्ति, केवलं ते वैक्रियशरीरान्तर्गता इति न गर्भाधानहेतवः, 'तेणभंते!' इत्यादि, ते शुक्रपुद्गलाः, णमिति पूर्ववत् भदन्त! तासामप्सरासां कीक्स्वरूपतया ‘भूयो २' यदा २ क्षरन्ति तदा २ इत्यर्थः परिणमन्ति?,भगवानाह-'गोयमे त्यादि, श्रोत्रेन्द्रियरूपतया यावत्सप्रशनेन्द्रियतया, तेऽपिकदाचिदनिष्टतयापरिणमन्तः सम्भाव्येरन्तत आह-इष्टतया, इष्टमपि किञ्चित्स्वरूपतोऽकान्तं भवति, यथाशूकरादीनामिष्टमपि विष्ठादि, तत आह-‘कान्ततया' कमनीयतया, कान्मतपि किञ्चिन्मनःस्पृहणीयं न भवति तत आह 'मनोज्ञतया' अतिस्पृहणीयतया, तदप्यतिस्पृहणीयत्वं कदाचिदापातकालमात्रभावि सम्भाव्यते ततआह'मनआपतया' मन आप्नुवन्ति-मनसि सदा रमन्ते इतिमनआपास्तद्भावस्तत्ता तया, मनसा सदा स्पृहणीयतयेति भावः, कस्मादिति चेत्, अत आह–'सुभगतया' 'नमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन मितिन्यायात् अत्र हेतौ तृतीया, ततोऽयमर्थः-यतः सुभगतया-सर्वजनप्रियतया परिणमन्ति तत उच्यते इष्टतया कान्ततयेत्यादि, सुभगतया परिणमनमपि कथमिति चेत्, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy