________________
२५९
पदं-३४, उद्देशकः-, द्वारंपरिचारः-प्रवीचारो येषां ते तथा, ते हि यदा प्रवीचारमभिलषन्ति तदा प्रवीचाराभिलाषुकतया प्रत्यसन्नभूतानां देवीनां स्तनाद्यवयवान् संस्पृशन्ति, तावन्मात्रेणैव तेषां कायप्रवीचारादनन्तगुणं सुखं वेदोपशान्तिश्चोपजायते,
ब्रह्मलोकलान्तकयोः कल्पयोर्देवा 'रूपपरिचारका' रूपेण-रूपमात्रदर्शनेन परिचारोमैथुनोपसेवनं येषांतेतथा, तेहि सुरसुन्दरीणांमनोभवराजास्थानीयं दिव्यमुन्मादजनकरूपमुपलभ्य कायप्रवीचारादनन्तगुणं सुरतसुखमासादयन्ति, तावन्मात्रेणैवोपशान्तवेदा उपजायन्ते, महाशुक्रसहस्रारेषु कल्पेषु देवाः 'शब्दपरिचारकाः' शब्देन-शब्दमात्रश्रवणेन परिचारो येषां ते तथा, ते हि इच्छाविषयीकृतदेवीसत्कगीतहसितसविकारभाषितनूपुरादिध्वनिश्रवणमात्रत एव कायप्रवीचारादनन्तगुणसुखं उपभुञ्जते तावन्मात्रेणैव तेषां वेद उपशान्तिमेति, ___आनतप्राणतारणाच्युतेषुकल्पेषुदेवा मनःपरिचारकाः' मनसामनोभवविकारोपबृंहितपरस्परोच्चावचमनःसहकल्पेन परिचारोमैथुनोपसेवनंयेषांतेतथा, तेहि परस्परोच्चावचमनः-सङ्कल्पमात्रेणैव कायप्रवीचारादनन्तगुणं सुखमवाप्नुवन्ति, तृप्ताश्च तावन्मात्रेमैवोपजायन्ते,
ग्रैवेयकानुत्तरोपपातदेवा अपरिचारका' न विद्यते परिचारो-मैथुनोपसेवनं मनासाऽपि येषां ते तथा, तेषां प्रतनुमोहोदयतया प्रशमसुखांतर्लीनत्वात्, यद्येवं कथं न ते ब्रह्मचारिणः ?, उच्यते, चारित्रपरिणनामाभावात्, ‘से तेणटेण'मित्यादि निगमनवाक्यं, तत्र ये कायपरिचारका देवास्तेषां कायप्रविचारं विभावयिषुरिदमाह
'तत्थण'मित्यादि, तत्र-तेषुकायपरिचारकादिषुदेवेषुमध्ये येतेपूर्वमुक्ताः कायपरिचारका भवनपतिव्यन्तरज्योतिष्कसौधर्मेशानदेवास्तेषांणमितिपूर्ववत्इच्छामनः-कायपरिचारेच्छाप्रधानं मनःसमुत्पद्यते, केनोल्लेखेन समुत्पदयते?-इच्छामः-अभिलषामः णमिति पूर्ववत् अप्सरोभिः सार्द्ध कायपरिचारं कर्तुमिति, 'तए णमित्यादि, ततस्तैर्देवैरेवमुक्तेन प्रकारेण कायपरिचारे मनसि कृते सति क्षिप्रमेव-शीघ्रमेव ता अप्सरसः स्वस्पभोग्यदेवाभिप्रायमवेत्य परिचाराभिला- ' षुकतया उत्तरवैक्रियाणि रूपाणि विकुर्वन्तीति सम्बन्धः,
कथंभूतानीत्यत आह-उदाराणि-स्फाराणि न तुहीनावयवानितानि अपि श्रृङ्गाराणि' श्रृङ्गारो-विभूषणादिभिर्मण्डनं स विद्यते येषां तानि श्रृङ्गाराणि, 'अभ्रादिभ्य' इत्यादि अप्रत्ययः, विभूषणादिकृतोदारश्रृङ्गाराणीत्यर्थः, तानिच कदाचित् कस्यचिदमनोज्ञानि भवेयुः अत आह'मनोज्ञानि' स्वस्वोपभोग्यदेवमनोविषयभावपेशलानि, तानिलेशतोऽपिसम्भाव्यन्तेतत आह'मनोहराणि’ स्वस्वोपभोग्यस्य देवस्य मनोहरन्ति-आत्मवशं नयन्तीति मनोहराणि, लिहादित्वादच्', तच्च मनोहरत्वंप्रथमसमापातमात्रभाव्यपि भवति ततआह-'मनोरमाणि मनःस्वस्वोपभोग्यदेवस्बन्धिरमयन्ति-क्रीडयन्तिप्रतिक्षणमुत्तरोत्तरानुरागसम्पृक्तंजनयन्तीतिमनोसरमाणि, तानि इत्थंभूतानि उत्तरवैक्रियाणि रूपाणि विकुर्वित्वा तेषां देवानामन्तिक-समीपं प्रादुर्भवन्ति,
'ततेण'मित्यादि, ततः णमिति पूर्ववत्, ते देवास्ताभिरप्सरोभिः सार्द्ध कायपरिचारणंमनुष्य इव मनुष्यस्त्रभिः सर्वाङ्गीणकायक्लेशपूर्वकं मैथुनोपसेवनं कुर्वन्ति, एवमेव तेषां वेदोपशान्तिभावात् । तथा चामुमेवार्थं दृष्टान्तेन द्रढयति
मू. (५९०) से जहानामए सीया पोग्गला सीतं पप्प सीयं चेव अतिवतित्ताणं चिट्ठति, उसिणा वा पोग्गला उसिणं पप्प उसिणं चेव अतिवतित्ताणं चिट्ठति, एवमेव तेहिं देवेहिं ताहिं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org