________________
प्रज्ञापनाउपाङ्गसूत्रम् - २- ३३/-//५७९ सफडगावहि एगदिसोवलंभाओ अंतगयमोहिनाणं भन्नई, अहवा सव्वप्पएऐसेसु विसुद्धेसुवि ओरालियसरीरगंतेण एगदिसि पासणा गयंति अंतगयंति भण्णइ' इति, एष द्वितीयः, तृतीयः पुनरयं - एगदिग्भाविना तेनावधिना यदुद्योतितं त्रक्षेत्रं तस्यान्ते वर्त्तते अवधिरवधिज्ञानवतस्तदन्ते वर्त्तमानत्वात्, ततोऽन्ते एकदिग्गतस्यावधिविषयलस्य पर्यन्ते गतः - स्थितोऽन्तगत इति,
अन्तगतश्चावधिः त्रिधा, तद्यथा- पुरतोऽन्तगतः पृष्ठतोऽन्तगतः पार्श्वतोऽन्तगतः, तत्र यथा कश्चित्पुरुषो हस्तगृहीतया दीपिकया पुरतः प्रेर्यमाणया पुरत एव पश्यति, नान्यत्र, एवं येनावधिना तथाविधक्षयोपशमभावतः पुरत एव सङ्घयेयान्यसङ्घयेयानि वा योजनानि पश्यति नान्यत्र सोऽवधिः पुरतोऽ न्तगत इत्यभिधीयते, तथा स एव पुरुषो यथा पृष्ठतो हस्तेन ध्रियमाणया दीपिकया पृष्ठत एव पश्यतेयंव येनावधिना पृष्ठत एव सङ्घयेयान्यसङ्घयेयानि वा योजनानि पश्यति
२४८
पृष्ठतोऽन्तगतो, येन तु पार्श्वत एकतो द्वाभ्यां वा सङ्घयेयान्सङ्घयेयानि वा योजनानि पश्यति स पार्श्वतोऽन्तगत इति, उक्तं च नन्द्यध्ययनचूर्णी - "पुरतोऽतगएणं पुरतो चेव संखेज्जाणि वा असंखेजज्जाणि वा जोयणाई जाणइ पासइ,
मग्गतोऽतगणं ओहिनाणेणं मग्गतो चेव' इत्यादि, मध्यगत इत्यात्रि त्रिधा व्याख्यानं, इह मध्यं प्रसिद्धं दण्डादिमध्यवत्, तत्रात्मप्रदेशानां मध्ये मध्यवर्त्तिष्वात्मप्रदेशेषु गतः - स्थितो मध्यगतः अयं च स्पर्द्धकरूपः सर्वदिगुपलम्भकारणं, मध्यवर्त्तिनामात्मप्रदे ज्ञानामवधिरवसेयः, अथवा सर्वेषामप्यात्मप्रदशानां क्षयोपशमभावेऽपि औदारिकशरीरमध्यभागेनोपलब्धिः स मध्ये गतो मध्यगतः, उक्तं च नन्द्यध्ययनचूर्णौ - " ओरालियसरीरमज्झे फड्डगविसुद्धीओ सव्वायप्पएसविसुद्धीओ वा सव्वदिसोवलंभत्तणओ मज्झगतोत्ति भण्णइ' इति, अथवा तेनवधिना यदुद्योतितं क्षेत्रं सर्वासु दिक्षु तस्य मध्ये-मध्य भागे स्थितो मध्यगतः अवधिज्ञानिस्तदुद्योतितक्षेत्रमध्यवर्त्तित्वात्, आहच नंदिचूर्णिकृदेव - " अहवा उवलद्धिखेत्तस्स अवहिपुरिसो मज्झगतोत्ति अतो वा मज्झगतो ओही भण्णइ' इति, इह व्याख्यनत्रेऽपि यदाऽवधिना द्योतितं क्षेत्रमवधिमता सम्बद्धं भवति तदा सोऽभ्यन्तराधिर्मतः, सर्वदिगुपलब्धिक्षेत्रमध्यवर्त्तित्वात्, एष चेह न ग्राह्येोऽभ्यन्तरावधावस्यान्तर्भावात्,
यदा तु तदुद्योतितं क्षेत्रमपान्तराले व्यवच्छिन्नत्वादवधिमता सम्बद्धं न भवति तदा बाह्योऽवधिः एष चेह ग्राह्य, प्रस्तुतत्वात, तथा 'देसोही' इति देशावधिर्वक्तव्यः, उपलक्षणमेतत्, प्रतिपक्षभूतः सर्वावधिश्च, अथ किंस्वरूपो देशावधिः किंस्वरूपो वा सर्वावधिरिति चेत्, उच्यते, इहावधिस्त्रिविधो भवति, तद्यथा - सर्वजघन्यो मध्यमः सर्वोत्कृष्टश्च तत्र यः सर्वजघन्यः स द्रव्यतोऽनन्तानि तैजसभाषापा- न्तरालवर्त्तीनि द्वयाणि क्षेत्रतौऽङ्गुलसङ्घयेयभागं क्षेत्रं कालतोऽतीतमनागतं चावलिकाया असङ्खयेयभागं, इहावधिः क्षेत्रं कालं च स्वरूपतः साक्षान्न जानाति, तयोरमूर्त्तत्वात्, अवधेश्च रूपिविषयत्वात् 'रूपिष्ववधे' रिति वचनात्,
इह क्षेत्रकालदर अशनमुपचारतो वेदितव्यं किमुक्तं भवति ?- एतावति क्षेत्रे काले च यानि द्रव्याणि तानि जानातीति, भावोतोऽनन्तान् पर्यायान् जानाति, प्रतिद्रव्यं जघन्यपदेऽपि चतुर्णां रूपरसगन्धस्पर्शरूपाणां पर्यायाणमवगमात्, 'दो पञ्जवे दुगुणिए सव्वजहणणे उ पिच्छए (ओही)। 'ते उ वन्नाईया चउरो' द्वौ पर्यवौ द्विगुणितौ सर्वजघन्यौ तु प्रेक्षतेऽवधिः । ते तु वर्णादिकाश्चत्वारः इति वचनात्, द्रव्याणां चानन्तत्वात्, अत ऊर्ध्वं तु प्रदेशवृध्या समयवृध्या पर्यायवृध्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org