________________
पदं- ३३, उद्देशक:-, द्वारं -
२४९
चप्रवर्द्धमानोऽवधिर्मध्यमो वेदितव्यः स च तावत् यावत्सर्वोत्कृष्टः परमावधिर्न भवति, सर्वोत्कृष्टः परमावधिर्द्रव्यतः सर्वाणि रूपिद्रव्याणि जानाति, क्षेत्रतोऽलोके लोकमात्राणि खण्डानि, कालतोऽतीतानामगताश्चासङ्घयेया उत्सर्पिण्यवसर्पिणीर्भावतोऽनन्तान् पर्यायान्, प्रतिद्रव्यं सङ्घयेयानामसङ्घयेयानां च पर्यायाणामवगमात्,
119 11
“एगं दव्वं पेच्छं खंधमणुं वा स पज्जवे तस्स । उक्कोसमसंखिजे संखेज्जे पेच्छए कोई ॥"
इति वचनात्, तत्र सर्वजघन्यो मध्यमश्च देशावधिः, सर्वोत्कृष्टस्तु परमावधिः सर्वावधिः तथाऽवधेः क्षयवृद्धी वक्तव्ये, किमुक्तं भवति ? - हीयमानकः प्रवर्द्धमानकश्चावधिर्वक्तव्य इति, तत्र तथाविधसामग्रयभवतः पूर्वावस्थातो हानिमुपगच्छन् हीयमानकः, उक्तं च- " हीयमाणयं पुव्वावत्थातो अहोऽ हो हस्समाणं'ति, वर्द्धमानको बहुबहुतरेन्धनप्रक्षेपा- दिभिर्वर्द्धमानज्वालाकलापइव पूर्वावस्थातो यथायोगं प्रशस्तप्रशस्ततराध्यवसायभावतोऽभिवर्द्धमानः, तथा प्रतिपाती अप्रतिपाती चशब्दस्यानुक्तार्थसमुच्चायकत्वादानुगामिकोऽनानुगामिकश्च वक्तव्यः तत्र प्रतिपतनशीलः प्रतिपाती-य उत्पन्नः सन् क्षयोपशमानुरूपं कियत्कालं स्थित्वा प्रदीप इव सामस्त्येन विध्वंसमुपयाति, अथ हीयमानकप्रतिपातिनोः कः प्रतिविशेषः ?, उच्यते, हीयमानकः पूर्वावस्थातोऽधोऽधो हानिमुपगच्छ्न्नभिधीयते प्रतिपाती तु निर्मूलमेककालं ध्वंसमुपगच्छन्निति, तथा न प्रतिपाती अप्रतिपाती, यत्केवलत्रानाद्वा मरणादारतो वा न भ्रंशमुप यातीत्यर्थः तथा गच्छन्तं पुरुषं आ - समन्तादनुगच्छतीत्येवंशीलमानुगामि आनुगाम्येवानुगामिकः, स्वार्थे कः प्रत्ययः, अथवा अनुगमः प्रयोजनंयस्य स आनुगामिकः, लोचनवत् गच्छन्तमनुगच्छति सोऽवधिरानुगामिक इति भावः तथा न आनुगामिकोऽनानुगामिकः, श्रृङ्खलाप्रतिबद्धदीप इव यो गच्छन्तं पुरुषं नानुगच्छतीति भावः ॥
मू. (५८०) कइविहा णं भंते! ओही पन्नत्ता ?, गो० ! दुविहा ओही पन्नत्ता, तं०-भवपखइयाय खओवसमियाय, दोण्हं भवपञ्चइया, तं० – देवाण य नेरइयाण य, दोण्हं खओवसमिया, तं० - मणूसाणं पंचिंदियतिरिक्खजोणियाण य ।
वृ. तदेवमधिकारप्रतिपादनाय द्वारगाथोपन्यस्ता, सम्प्रति 'यथोद्देशं निर्द्देश' इति न्यायात् प्रथमतो भेदप्रतिपादनार्थमाह- 'कइविहाणं भंते!' इत्यादि, कतिविधो भदन्त ! अवधिः प्रज्ञप्तः, सूत्रे स्त्रीत्वनिर्देशः प्राकृतत्वात्, भगवानाह - गौतम ! द्विविधोऽवधिः प्रज्ञप्तः, तद्यथा - 'भवपञ्चइया यखओवसमियाय' भवप्रत्यकः क्षायोपशमिकश्च तत्र भवन्ति कर्मवशवर्त्तिनः प्राणिनोऽस्मिन्निति भवो - नारकादिजन्म, 'पुंनाम्नी 'ति अधिकरणे घप्रत्ययः, भव एव प्रत्ययः - कारणं यस्य स भवप्रत्ययः, प्रत्ययशब्दश्चेह कारणपर्यायः, वर्त्तते च प्रत्ययशब्दः कारणत्वे "प्रत्ययः शपथज्ञानहेतुविश्वासनिश्चये" इति, स एव स्वार्थिकप्रत्ययविधानात् भवप्रत्ययकः, तथाऽवधिज्ञानावरणीयस्य कर्मण उदयावलिकाप्रविष्टस्यांशस्य वेदनेन योऽपगमः स क्षयोऽनुदयावस्थस्या विपाकोदयविष्कम्भणमुपशमः क्षयश्च उपशमश्च क्षयोपशमौ ताभ्यां निर्वृत्तः क्षायोपशमिकः, चशब्दौ स्वगतानेकभेदसूचकौ, तत्र तु यो येषं भवति तं तेषामुपदर्शयति- 'दोण्ह' मित्यादि, द्वयोर्जीवसमूहयोर्भवप्रत्ययकः, तद्यथा - देवानां च नारकाणां च, देवा भवनपतिव्यन्तरज्योतिष्कवैमानिकभेदाच्चतुर्विधाः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org