________________
पदं-३२, उद्देशकः-, द्वारं
119 11
"न महव्वयसम्भावेवि चरणपरिणामसंभवो तेसिं । बहुगुणापि जओ केवलसंभूइ परिणामो ॥” पदं - ३२ - समाप्तम्
२४७
मनि दीपरत्नसागरेण संशोधिता सम्पादिता प्रज्ञापनाउपाङ्गसूत्रे द्वात्रिंशतमपदस्य मलयगिरिआचार्येण विरचिता टीका परिसमाप्ता । पदं - ३३ - " अवधिः"
वृ. तदेवमुक्तं द्वात्रिंशत्तमं पदे, सम्प्रति त्रयस्त्रिंशत्तममारभ्यते, अस्य चायमभिसम्बन्धःइहानन्तरपदे चारित्रपरिणामविशेषः संयमः प्रतिपादितः, इह तु ज्ञानपरिणामविशेषः खल्ववधिः प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्यावधिविषयमधिकारद्वारमाहभेदविसयसंठाणे अब्भितरबाबिरे य देसोही ।
मू. (५७९)
ओहिस्स य खयवुड्डी पडिवाई चेव अपडिवाई ।”
बृ. 'भेयविसये' त्यादि, अवधेः - अवधिज्ञानस्य प्राग्निरूपतिशब्दार्थस्य प्रथमं भेदो वक्तव्यः, ततो विषयस्तदनन्तरं संस्थानं-अवधिना द्योतितस्य क्षेत्रस्य यस्तप्रादिरूप आकारविशेषः सोऽवधिनिबन्धन इत्यवधेः संस्थानत्वेन व्यपदिश्यते, तथा द्विविधोऽवधिर्वक्तव्यः, तद्यथाअभ्यन्तरो बाह्यश्च, तत्र योऽवधिः सर्वासु दिक्षु स्वद्योत्यं क्षेत्रं प्रकाशयति अवधिमता च सह सातत्येन ततः स्वद्योत्यं क्षेत्रं सम्बद्धं सोऽभ्यन्तरावधि, एतद्विपरीतो बाह्यवधिः, स च द्विधा, तद्यथा - अन्तगतो मध्यगतश्च,
अथान्तगत इति कः शब्दार्थः ?, उच्यते, इह पूर्वाचार्यप्रदर्शितमर्थत्रयं अन्ते - आत्मप्रदेशानां पर्यन्ते गतः - स्थितोऽन्तगतः, काऽत्र भावनेति चेत्, उच्यते, इहावधिरुत्पद्यमानः कोऽपि स्पर्द्धकरूपतयोत्पद्यते, स्पर्द्धकं च नामावधिज्ञानप्रभाया गवाक्षजालादिद्वारविनिर्गतप्रदीपप्रभाया इव प्रतिनियतो विच्छेदविशेषः, तथा चाह जिनभद्रगणिक्षमाश्रमणः स्वोपज्ञाभाष्यटीकायां“स्पर्द्धकमवधिविच्छेदविशेष" इति, तानि च एकजीवस्यासङ्घयेयानि संख्येयानि च भवन्ति, यत उक्तं मूलावश्यकप्रथमपीढिकायाम् -'फड्डा य असंखेज्जा संखिज्जा यावि एगजीवस्स' इति, तानि च विचित्ररूपाणि कानिचित्पर्यन्तवर्त्तिष्वात्प्रदेशेषूत्पद्यन्ते, तत्रापि कानिचित्पुरतः कानिचित्पृष्ठतः कानिचिदधोभागे कानिचिदुपरितनभागे कानिचिन्मध्यवर्त्तिष्वात्प्रदेशेष्वेवं योऽवधिरुपजायते स आत्मनः पर्यन्ते सल्थित इतिकृत्वा अनन्तग इत्यभिधीयते, तैरेवपर्यन्तवर्त्तिभिरात्म- प्रदेशै; साक्षादवबोधात्',
अथवा औदारिकशरीरस्यान्ते गतः - स्थितोऽन्तगतः, औदारिकशरीरमधिकृत्य कदाचि - देकया दिशोपलम्भात्, इदमपि स्पर्द्धकरूपमवधिज्ञानं, अथवा सर्वेषामप्यात्पमर्देशानां क्षयोपशमभावेऽपि औदारिकशरीरस्यान्ते कयाचिदेकया दिशा यद्वशादुपलभ्यते सोऽप्यन्तगतः आह-यदि सर्वेषामप्यात्मप्रदेशानां क्षयोपशमस्ततः सर्वतः किं न पश्यति ?, उच्यते, एकदिशैव क्षयोपशमसम्भवात्, विचित्रो हि दशाद्यपेक्षया कर्म्मणां क्षयोपशमः, ततः सर्वेषामप्यात्मप्रदेशानामित्यंभूत एव स्वसामग्रीवशात् क्षयोपशमः संवृत्तो यदौदारिकशरीरमपेक्ष्य कयाचिद्विवक्षितया एकया दिशा पश्यतीति, तथा चोक्तं नन्द्यध्ययनचूर्णो - 'ओरालियसरीरंते ठियं गयंति एगट्टं, तं वा अप्पप्पए
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International