________________
२४६
प्रज्ञापनाउपाङ्गसूत्रम्-२- ३२/-/-/५७७ संजतासंजतावि नो नोसंजतनोअसंजतनोसंजतासंजतावि, मणुस्साणं पुच्छा, गो० ! मणूसा संजतावि असंजतावि संजतासंजतावि नो नोसंजतनोअसंजतनोसंजतासंजता,
वाणमंतरजोतिसियवेमाणिया जहा नेरइया, सिद्धाणं पुच्छा गो०! सिद्धा नो संजता १ नो असंजता २ नो संजतासंजता ३ नोसंजतनोअसंजतनोसंजतासंजता४॥
वृ. 'जीवा णं भंते !' इत्यादि, संयमच्छन्ति स्म-सर्वसावधयोगेभ्यः सम्यगुपरमन्ति स्म अर्थात् निरवद्ययोगेषुचारित्रपरिणामस्फातिहेतुषुवर्तन्ते स्म इति संयताः ‘गत्यर्थनित्याकर्मका दिति कतरिक्तप्रत्ययः हिंसादिपापस्थाननिवृत्ता इत्यर्थः, तद्विपरीताअसंयताः हिंसादीनांदेशतोनिवृत्ताः संयतासंयताः, त्रितयप्रतिषेधविषयाः सिद्धाः, कथमिति चेत्, उच्यते, उक्तमिह संयमो नाम निरवद्येतरयोगप्रवृत्तिनिवृत्तिरूपः ततः संयतादिपर्यायोयोगाश्रयः, सिद्धाश्चभगवन्तोयोगातीताः शरीरमनसोऽभावादतम्रतयप्रतिषेधविषयाः, एवं च सामान्यतोजीवपदे चतुष्टयमपिघटते, तथा चाह-'गोयमे'त्यादि, गौतम !जीवाःसंयता अपि साधूनां संयतत्वात्, असंयता अपि नैरयिकादीनामसंयतत्वात्, संयतासंयता अपि पञ्चेन्द्रियतिरश्चां मनुष्याणां च देशतःसंयमस्य भावात्, नोसंयतनोअसंयतनोसंयतासंयताअपि सिद्धानांत्रयस्यापिप्रतिषेधात्, चतुर्विंशतिदण्डकसूत्राणि सुगमानि। मू. (५७८) “संजयअसंजय मीसगा यजीवा तहेव मणुयाय ।
संजतरहिया तिरिया सेसा अस्संजता होति ॥" वृ.अत्रैवंसङ्ग्रहणिगाथामाह-संयते'त्यादि, संयताअसंयता मिश्रकाश्च-संयतासंयता जीवास्तथैव मनुष्याश्च, किमुक्तं भवति ?-जीवपदम मनुष्यपदे च एतानि त्रीण्यपि पदानि घटन्ते, नतु न घटन्ते इत्येवंपरमेतत् सूत्रं, अन्यथा जीवपदे त्रितयप्रतिषेधरूपं चतुर्थमपि पदं घटत एव, यथोक्तं प्राक्, तथा संयतरहिता उपलणमेतत् त्रितयप्रतिषेधरहिताश्च तिर्यञ्चःतिर्यक्पञ्चेन्द्रियाः, आह
कथंसंयतपदरहितास्तिर्यक्पञ्चेन्द्रियाः?,यावतातेषामपिसंयतत्वमुपपद्यतेएव, तथाहिसंयतत्वं नाम निरवद्येतरयोगप्रवृत्तिनिवृत्त्यात्मकं, तेचनिरवद्येतरयोगेषुप्रवृत्तिनिवृत्ती तिरश्चामपि सम्भवतः, यतश्चरमकालेऽपि चतुर्विधस्याप्याहारस्य प्रत्याख्यानं कृत्वा शुभेषु योगेषु वर्तमाना दृश्यन्ते, अन्यच्च सिद्धान्ते तत्र तत्र प्रदेशे महाव्रतान्यप्यात्मन्यारोपयन्तः श्रूयन्ते, उक्तंच॥१॥ "तिरियाणंचारित्तं निवारितं तह य अह पुणो तेसिं
सुव्वइ बहुयाणं चिय महव्वयारोवणं समए॥" तदेतदयुक्तं, सम्यग्वस्तुतत्त्वापरिज्ञानात्, संयततत्वमिह निरवद्येतरयोगप्रवृत्तिनिवृत्तिरूपमान्तरचारित्रपरिणामानुषक्तभगवन्तव्यं, न शेष, न च तेषां कृतचतुर्विधाहारप्रत्याख्यानानामपिमहाव्रतान्यारोपयतांभवप्रत्ययादेवचरणपरिणाम उपजायते, सह्यचिन्त्यचिन्तामणिकल्पे मनुष्यभवएव, यदिपरंकर्मक्षयोपशमाद्भवति, नान्यथा, अतएवायमतिदुर्लभोगीयतेभगवद्भिः, अथकथमवसीयतेनतिरश्चांतथा चेष्टमानानामप्यान्तरश्चारित्रपरिणामः?,उच्यते, केवलज्ञानाद्यश्रवणात्, यदि हि तिरश्चामपि चरणपरिणामस्सम्भवेत् तत् क्वचित् कदाचित् कस्यचिदुत्कर्षतो भावतो मनःपर्यायज्ञानं केवलज्ञानं वा श्रूयेत, तयोश्चारित्रपरिणामनिबन्धनत्वात्, न च श्रूयते, तस्मादवसीयते-न तेषां चारित्रपरिणामः, उक्तंच
Jain Education International
Ford
For Private & Personal Use Only
www.jainelibrary.org