SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ पदं - ३१, उद्देशक:-, द्वारं - २४५ नाप्यसंज्ञी सर्वज्ञत्वात्, तदेवं सामान्यतो जीवपदे संज्ञिनोऽसंभिनो नोसंज्ञिनो असंज्ञिनश्च लभ्यन्ते इति, भगवान् तथैव प्रतिसमाधानमाह - 'गोतमे 'त्यादि, जीवाः संज्ञिनोऽपि नैरयिकादीनां संज्ञिनां भावाद्, असंज्ञिनोऽपि पृथिव्यादीनामसंज्ञिनां भावात्, नोसंज्ञिनोअसंज्ञिनोऽपि सिद्धकेवलिनां नोसंज्ञिनोअसंज्ञिनामपि भावात्, । एतानेव चतुर्विंशतिदण्डकक्रमेणंचिन्तयति - 'नेरइयाण' मित्यादि, इह ये नैरयिकाः संज्ञिभ्य उत्पद्यन्ते ते संज्ञिनो व्यवह्रियन्ते इतरे त्वसंज्ञिनः न च नैरयिकाणां केवलिभावो घटते, चारित्रप्रतिपत्तेरभावात्, तत उक्तं नैरयिकाः संज्ञिनोऽप्यसंज्ञिनोऽपि, नो नोसंज्ञिनोनो असंज्ञिनः, एवमसुरकुमारादयोऽपि स्तनितकुमारपर्यवसाना भवनपतयो वक्तव्याः तेषामप्यसंज्ञिनोऽप्युत्पादात् केवलित्वाभावाच्च, 'मणूसा जहा जीव 'त्ति मनुष्याः प्राक् यथा जीवा उक्तास्तथा वक्तव्याः, संज्ञिनोऽपि असंज्ञिनोऽपि नोसंज्ञिनोअसंज्ञिनोऽपि वक्तव्या इति भावः, तत्र ये गर्भव्युत्क्रान्तास्ते संज्ञिनः सम्मूर्च्छिमा असंज्ञिनः केवलिनो नोसंज्ञिनोअसंज्ञिनः, 'पञ्चेन्द्रियतिरिक्खजोणियवाणमंतरा जहा नेरइया' इति, पञ्चेन्द्रियातिर्यग्योनिका व्यन्तराश्च यथा नैरयिका उक्तास्तथा वक्तव्याः, संज्ञिनोऽपि असंज्ञिनोऽपि नो नोसंज्ञिनोअसंज्ञिनः वक्तव्या इति भावः तत्र पञ्चेन्द्रियतिर्यग्योनिकाः सम्मूर्च्छिमाः असंज्ञिनः गर्भव्युत्क्रान्ताः संज्ञिनः, व्यन्तरा असंज्ञिभ्य उत्पन्ना असंज्ञिन; संज्ञिभ्य उत्पन्नाः संज्ञिनः, उभयेऽपि चारित्रप्रतिपत्तेरभावात् नो नोसंज्ञिनोअसंज्ञिनः, ज्योतिष्कवैमानिकाः संज्ञिन एव, नो असंज्ञिनः, असंज्ञिभ्य उत्पादाभावात्, नोनोसंज्ञिनोअसंज्ञिनश्चारित्रप्रतिपत्तेरभावात्, सिद्धास्तु प्रागुक्तयुक्तितो नो संज्ञिनो नाप्यसंज्ञिनः किन्तु नोसंज्ञिनोअसंज्ञिनः, मू. (५७६) नेरइयतिरियमणुया य नवणयरगसुरा इ सण्णीऽ सण्णी य । विगलिंदिया असण्णी जोकतिसवेमाणिया सण्णी ॥ वृ. अत्रैव सुखप्रतिपत्तये सङ्ग्रहणिगाथामाह - 'नेरइय' इत्यादि, नैरयिकाः 'तिरिय'त्ति तिर्यक्पञ्चेन्द्रिया मनुष्या वनचरा - व्यन्तरा असुरादयः- समस्ता भवनपतयः प्रत्येकं संज्ञिनोऽसंज्ञिनश्च वक्तव्याः एतच्चानन्तरमेव भावितं, विकलेन्द्रिया - एकद्वित्रिचतुरिन्द्रिया असंज्ञिनो ज्योतिष्कवैमानिकाः संज्ञिन इति ॥ पदं - ३१ - समाप्तम् पदं - ३२ - "संयम्" वृ. तदेवमुक्तमेकत्रिंशत्तमं पदं, अधुना द्वात्रिंशत्तमं पदमारभ्यते, तस्य चायमभिसम्बन्धः-इहानन्तरपदे संज्ञिपरिणाम उक्तः, इह तु चारित्रपरिणामविशेषः संयमः प्रतिपाद्यते, संयमो नाम निरवद्येतरयोगप्रवृत्तिनिवृत्तिरूपः, तत्र चेदमादिसूत्रम् मू. (५७७) जीवा णं भंते! किं संजया असंजया संजया २ नोसंजयानोअसंजयानोसंजयासंजया ?, गो० ! जीवा संजयावि १ असंजया वि २ संजयासंजयावि ३ नोसंजयानोअसंजयानोसंजयासंजयावि ४, नेरइयाणं भंते! पुच्छा, गो० ! नेरइया नो संजया असंजया नोसंजयासंजया नो नोसंजयनो असंजयनोसंजयासंजया, एवं जाव चउरिंदि, पंचिंदियतिरिक्खजोणियाणं पुच्छा, गो० ! पंचिंदियतिरिक्खजोणिता नोसंजता असंजतावि For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy