SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ २४४ प्रज्ञापनाउपाङ्गसूत्रम्-२- ३०/-/-/५७४ ___ 'से एएणडेणं' इत्यादि, एतेन यदवादीद्वादी सिद्धसेनदिवाकरो यथा-'केवली भगवान् युगपत्जानातिपश्यतिचे ति, तदप्यपास्तमवगन्तव्यं, अनेन सूत्रेण साक्षात्युक्तिपूर्वं ज्ञानदर्शनपयोगस्य क्रमशो व्यवस्थापितत्वात्, एवं शर्कराप्रभावालुकाप्रभापङ्कप्रभाधूमप्रभातमःप्रभातमस्तमःप्रभासौधर्मेशानसनत्कुमारमाहेन्द्रब्रह्मलोकलान्तकशुक्रसहस्रानतप्राणतारणाच्युतकल्पग्रैवेयकविमानानुत्तरविमानेषत्वाग्भराभिधपृथिवीपरमाणुपुद्गलद्विप्रदेशिक स्कन्धयावदनन्तप्रदेशिकस्कन्धविषयणायपि सूत्राणि भावनीयानि, ननु यदि ज्ञानदर्शने साकार नाकारतया पृथगेवं व्यवसअथापियतविषये तत इदमायातं यदा भगवान् केवली रत्नप्रभादिकमाकाराद्यभावेन परिच्छिनत्ति तदा स पश्यतीत्येवं वक्तव्यो न जानातीति, सत्यमेतत्तथा चाह-'केवलीणंभंते! इमरयणप्पभं पुढविंअनागारेहिं अहेऊहिं' इत्यादि, प्रायो भावितत्वात्, सुगमं ॥ पदं-३०-समाप्तम् [ पदं-३१-संज्ञी वृ.तदेवमुक्तं पश्यत्ताऽऽख्यंत्रिंशत्तमंपदं, साम्प्रतमेकत्रिंशत्तममारभ्यते, अस्यचायमभिसम्बन्धः-इहानन्तरपदे ज्ञानपरिणामविशेष प्रतिपादितः, इह तु परिणामसाम्याद् गतिपरिणामविशेष एव संज्ञापरिणामः प्रतिपाद्यते, तत्र चेदमादिसूत्रम् मू. (५७५) जीवा णं भंते ! किं सण्णी असण्णी नोसण्णीनोअसण्णी?, गो० ! जीवा सण्णीवि असण्णीविनोसण्णीनोअसण्णीवि। नेरइयाणंपुच्छा, गो०! नेरइया सण्णीवि असण्णीवि नो नोसण्णीनोअसण्णी, एवं असुरकुमारा जाव थणियकुमारा, पुढविकाइयाणं पुच्छा, गो०! नो सण्णी असण्णी, नो नोसण्णीनोअसण्णी, एवं बेइंदियतेइंदियचउरिंदियावि, मणूसा जहाजीवा, पंचिंदियतिरिक्खजोणिया वाणमंतरा य जहा नेरइया, जोतिसियवेमाणिया सण्णी नो असण्णी नो नोसण्णीनोअसण्णी, सिद्धाणं पुच्छा, गो०! नो सण्णी नो असण्णी नोसण्णिनोअसण्णी, वृ. 'जीवा णं भंते ! किं सण्णी' इत्यादि, संज्ञानं संज्ञा-'उपसर्गादात;' इत्यप्रत्ययः भूतभवद्भाविभावस्वभावपर्यालोचनं सा विद्यते येषां ते संज्ञिनः, विशिष्टस्मरणादिरूपमनोविज्ञानभाज इत्यर्थः, यथोक्तमनोविज्ञानविकला असंज्ञिनः, ते च एकेन्द्रियविकलेन्द्रिय सम्मूर्छिमपञ्चेन्द्रिया वेदितव्याः, अथवा संज्ञायते-सम्यक् परिच्छिद्यते पूर्वोपलब्धो वर्तमानो भावी च पदार्थो यया सा संज्ञा, भिदादिपाठाभ्युपगमात् करणे धञ्, विशिष्टा मनोवृत्तिरित्यर्थः, सा विद्यते येषां ते संज्ञिनः समनस्का इत्यर्थः तद्विपरीता असंज्ञिनोऽमनस्का इत्यर्थः, तेचैकेन्द्रियादय एवानन्तरोदिताः प्रतिपत्तव्याः, एकेन्द्रियाणांप्रायःसर्वथा मनोवृत्तरभावात, द्वीन्द्रियादीनां तु विशिष्टमनोवृत्तेरभावः, ते हि द्वीन्द्रियादयो वार्तमानिकमेवार्थं शब्दादिकं शब्दादिरूपतया संविदन्ति, न भूतंभाविनंचेति, केवली सिद्धश्चोभयप्रतिषेधविषयः, केवली हि यद्यपि मनोद्रव्यसम्बन्धभाक् तथापि न तैरसौ भूतभवद्भाविभावस्वभावपर्यालोचनं करोति, किन्तु क्षीणसकलज्ञानदर्शनावरणत्वात् पर्यालोचनमन्तरेणैव केवलज्ञानेन केवलदर्शनेन च साक्षात्समस्तंजानातिपश्यतिच, ततोनसंज्ञीनाप्यसंज्ञी, सकलकालकलाकलापव्यवच्छिन्नसमस्तद्रव्यपर्यायप्रपञ्चसाक्षात्करणप्रवणनिसमन्वितत्वात्, सिद्धोऽपिनसंज्ञी, द्रव्यमनसोऽप्यभावात्, www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy