SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ पदं-२८, उद्देशकः-२, द्वारं-११ २३३ - -पदं-२८, उद्देशकः-२-दारं-११ "वेद" :मू. (५६९) सवेदे जीवेगिंदियवजो तियभंगो, इस्थिवेदपुरिसवेदेसुजीवादिओतियभंगो, नपुंसगवेदए य जीवेगिंदियवजो तियभंगो, अवेदए जहा केवलनाणी। वृ. गतं उपयोगद्वारं, वेदद्वारे सामान्यतः सवेदसूत्रमेकवचने स्यादाहारकः स्यादनाहारक इति, बहुवचने जीव पदमेकेन्द्रियांश्च वर्जयित्वा शेषेषु स्थानेषु भङ्गत्रिकं, जीवपदे एकेन्द्रियेषुच पुनःप्रत्येकमभङ्गक, आहारकाअनाहारका अपीति, स्त्रीवेदसूत्रपुरुषवेदसूत्रंच एकवचने तथैव, नवरमत्र नैरयिकैकेन्द्रियविकलेन्द्रिया न वक्तव्याः तेषां नपुंसकत्वात्, बहुवचने जीवादिषु पदेषु प्रत्येकं भङ्गत्रिकं. नपुंसकवेदेऽपि सूत्रमेकवचने तथैव, नवरमत्र भवनपति व्यन्तरज्योतिष्कवैमानिका न वक्तव्यास्तेषामनपुंसकत्वाद्, बहुवचने जीवैकेन्द्रियवर्जेषु भङ्गत्रिकं, जीवपदे एकेन्द्रियपदेषु च पृथिव्यादिषु पुनरभङ्गकं प्रागुक्तस्वरूपमिति, अवेदो यथा केवली तथा एकवचने बहुवचने च वक्तव्यः, जीवपदे मनुष्यपदे च एकवचने स्यादाहारकः स्यादनाहारक इति, बहुवचने जीवपदे आहारका अपिअनाहारका अपि, मनुष्येषुभङ्गत्रिकं, सिद्धत्वेऽनाहारका इति वक्तव्यमिति भावः। -पदं-२८, उद्देशकः-२-दारं १२ “शरीरं" :मू. (५७०) ससरीरीजीवेगिंदियवजोतियभंगो, ओरालियसरीरी जीवमणूसेसुतियभंगो, अवसेसा आहारगा नो अनाहारगाजेसिं अस्थि ओरालियसरीरं, वेउब्वियसरीरी आहारगसरीरी य आहारगा नो अना० जेसिं अस्थिसतेयकम्मसरीरी जीवेगिंदियवज्जो तियभंगो, असरीरीजीवा सिद्धा य नो आहारगा अना०। वृ.गतं वेदद्वारं, शरीरद्वारे सामान्यतःशरीरसूत्रे सर्वत्रैकवचने स्यादाहारकः स्यादनाहारक इति, बहुवचने जीवएकेन्द्रियवर्जेषु शेषेषु स्थानेषु प्रत्येकं भङ्गत्रिकं, जीवपदे पृथिव्यादिपदेषु च प्रत्येकमभङ्गकं प्रागुक्तमिति, औदारिकशरीरसूत्रमेकवचनेतथैव, नवरमत्र नैरयिकभवनपतिव्यन्तरज्योतिष्कवैमानिका न वक्तव्यास्तेषामौदारिकशरीराभावात्, बहुवचने जीवपदे मनुष्यपदेषु च प्रत्येकं भङ्गत्रिकं, तद्यथा-सर्वेऽपि तावद्भवेयुराहारकाः एष भङ्गो यदा न कोऽपि केवली समुद्घातगतोऽयोगी वा, अथवा आहारकाचानाहारकश्च, एष एकस्मिन् केवलिनि समुद्घातगते अयोगिनि वा सति प्राप्यते, अथवा आहारकाश्चानाहारकाच, एवं भङ्गो बहुषु केवलिसमुद्घातगतेषु अयोगिषु वा सत्सु वेदयितव्यः, शेषास्त्वेकेन्द्रियद्वीन्द्रियत्रीन्द्रिय चतुरिन्द्रियतिर्यक्पञ्चेन्द्रिया आहारका एव वक्तव्याः, न त्वानाहारकाः, विग्रहगत्युत्तीर्णानामेवौदारिकशरीरसम्भवात्, वैक्रियआहारकशरीरिणश्च सर्वेऽप्येकवचने बहुवचने चाहारका एव न त्वनाहारकाः, नवरं येषां वैक्रियमाहारकं वा सम्भवति त एव वक्तव्या नान्ये, तत्र वैक्रियं नैरयिकभवनपतिवायुकायिकतिर्यक्पञ्चेन्द्रियमनुष्यव्यन्तरज्योतिष्कवैमानिकेषु आहारकं मनुष्यष्वेव, सूत्रोल्लेखश्चायं-'वेउब्वियसरीरी णं भंते ! जीवे किं आहारए अनाहारए?, गोयमा! आ० नो अना०, वेउब्वियसरीरे णं भंते ! नेरइए किं आहारए अनाहारए ?, गो० ! आ० नो अना०' इत्यादि, तैजसकार्मणशरीरिसूत्रे चैकवचने सर्वत्र स्यादाहारकः स्यादनाहारक इति, बहुवचने Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy