SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २३२ प्रज्ञापनाउपाङ्गसूत्रम्-२- २८/२/८/५६६ केवलज्ञानचिन्तायामि त्रीणि पदानि, तद्यथा-सामान्यतो जीवपदं मनुष्यपदं सिद्धपदं च, तत्र सामान्यतो जीवपदे मनुष्यपदे चैकवचने स्यादाहारकः स्यादनाहारक इति वक्तव्यं, सिद्धपदे त्वनाहारक इति, बहुवचने सामान्यतो जीवपदे आहारका अपि अनाहारका अपि, मनुष्यपदे भङ्गत्रिकं, तच्च प्रागेवोपदर्शितं, सिद्धपदे त्वनाहारका अपि । अज्ञानिसूत्रंमत्यज्ञानिसूत्रंश्रुताज्ञानिसूत्रंएकवचने प्रागिव, बहुवचनतचिन्तायांजीवपदे एकेन्द्रियेषु च पृथिव्यादिषु प्रत्येकमाहारका अनाहारका अपि इति वक्तव्यं, शेषषु तु भङ्गत्रिकं, विभङ्गज्ञानिसूत्रमप्येकवचने तथैव, बहुवचनचिन्तायां पञ्चेन्द्रियतिर्यग्योनिका मनुष्याश्चाहारका एव वक्तव्याः, न त्वनाहारकाः, विभङ्गज्ञानसहितस्य विग्रहगत्या तिर्यक्पञ्चेन्द्रियेषु मनुष्येषु चोत्पत्त्यसम्भवात्, अवशेषेषु स्थानेषु एकेन्द्रियविकलेन्द्रियवर्जेषु प्रत्येकं भङ्गत्रिकं । -पद-२८, उद्देशकः-२-दारं ९ “योगः" :मू. (५६७) सजोगीसुजीवेगिंदियवजोतियभंगो, मणजोगी वइजोगी जहा सम्मामिच्छद्दिट्टी, नवरंवइजोगो विगलिंदियाणवि, कायजोगीसुजीवेगिंदियवज्जोतियभंगो, अजोगीजीवमनूससिद्धा अनाहारगा। वृ.गतंज्ञानद्वारं, सम्प्रतियोगद्वार-तत्र सामान्यतःसयोगिसूत्रमेकवचने तथैव, बहुवचने जीवएकेन्द्रियपदानि वर्जयित्वाशेषेषुस्थानेषुभङ्गत्रिकं, जीवपदे पृथिव्यादिपदेषुचपुनःप्रत्येकमाहारका अपि अनाहारका अपीति भङ्गः, उभयेषामपि सदैव तेषुस्थानेषु बहुत्वेन लभ्यमानत्वात् 'मणजोगी वइजोगी जहा सम्मामिच्छद्दिट्ठी यत्ति मनोयोगिनो वाग्योगिनश्च यथा प्राक् सम्यग्मिथ्याध्ष्टय उक्तास्तथा वक्तव्याः, एकवचनेबहुवचनेचाहारका एववक्तव्यानत्वनाहारका इति भावः, नवरं वइजोगो विगलिंदियाणवि'तिनवरमिति-सम्यग्मिथ्याष्टिसूत्रादत्रायविशेषः, सम्यग्मिथ्याष्टित्वं विकलेन्द्रियाणां नास्तीति तत्सूत्रं तत्र नोक्तं, वाग्योगः पुनर्विकलेन्द्रियाणामप्यस्तीति तत्सूत्रमपि वाग्योगे वक्तव्यं, तच्चैवम् 'मणजोगीणं भंते! जीवे किं आहारए अनाहारए?, गो०! आहारए नो अनाहारएस, एवं एगिदियविगलिंदियवज्जं जाव वेमाणिए, एवं पुहुत्तेणवि,, वइजोगी णं भंते ! किं आहा० अना०?,गो०! आहारएनो अनाहारए, एवं एगिदियवजंजाव वेमाणिए, एवंपुहुत्तेणवित्ति, काययोगिसूत्रमप्येकवचने बहुवचने च सामान्यतः सयोगिसूत्रमिव, अयोगिनोमनुष्यः सिद्धाश्च, तेनात्र त्रीणि पदानि, तद्यथा-जीवपदं मनुष्यपदं सिहापदंच, त्रिष्वपिस्थानेष्वेकवचने बहुवचने चानाहारकत्वमेव। -:पदं-२८, उद्देशकः-२-दारं-१० "उपयोगः" :मू. (५६८) सागारानागारोवउत्तेसु जीवेगिंदियवज्जो तियभंगो, सिद्धा अनाहारगा। वृ. गतं योगद्वारं, अधुनोपयोगद्वारमाह-तत्र साकारोपयोगसूत्रे अनाकारोपयोगसूत्रेच प्रत्येकमेकवचने सर्वत्र स्यादाहारकः स्यादनाहारक इति वक्तव्यं, सिद्धपदे त्वनाहारक इति, बहुवचने जीवपदे पृथिव्यादिपदेषु चाहारका अपिअनाहारका अपि इति भङ्गः, शेषेषु भङ्गत्रिकं, सिद्धास्त्वनाहारका इति, सूत्रोल्लेस्तस्त्वयम्-सागारोवउत्तेणं भंते!जीवे किंआहारए अनाहारए गो० ! सिय आहारए सियअनाहारए' इत्यादि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy