SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ २०५ पदं-२४, उद्देशकः-, द्वारंबन्धकानामपि सदैव तेषु बहुत्वेन लभ्यमानत्वात्, द्वित्रिचतुरिन्द्रियतिर्यक्पञ्चेन्द्रियसूत्रेषुभङ्गत्रिकं नैरविकवत्, मनुष्यसूत्रे भङ्गनवकमष्टविधबन्धकस्य षविधबन्धकस्य च कदाचित् सर्वथाप्यभावात्, तत्राष्टविधषड्विबन्धकाभावे सर्वेऽपितावद्भवेयुः सप्तविधबन्धका इतिप्रथमो भङ्गः, सप्तविधबन्धकानां सदैव बहुत्वेन प्राप्यमाणत्वात्, एकाष्टविधबन्धकभावे द्वितीयः सप्तविधबन्धकाश्चाष्टविधबन्धकश्च, बह्यष्टविधबंधकभावे तृतीयः सप्तवधबन्धकाश्चष्टविधबंधकाश्च, एवमेवाष्टविधबन्धकाभावेषड्विधबन्धकपादेनाप्यकत्वबहुत्वाभ्यां द्वौ भङ्गावितिद्विकसंयोगेचत्वारो भङ्गाः, त्रिकसंयोगेऽप्यष्टविधबन्धकषड्विधबन्धकपदयोः प्रत्येकमेकवचनबहुवचनाभ्यां चत्वार इति सर्वसङ्ख्यथा नव, व्यन्तरज्योतिष्कवेमानिका नैरयिकवत्, यथा ज्ञानावरणीयं चिन्तितं तथा दर्शनावरणीयमपि चिन्तयितव्यं, वेदनीयचिन्तायां एकविधबन्धक एव इति उपशान्तमोहादि, शेषं प्राग्वत्, मनुष्यपदविषयचिन्तायामपि त एव प्रागक्ता नव भङ्गाः, सप्तविधबन्धकानामेकविधबन्धकानां च सदैव बहुत्वेनावस्थिततया भङ्गान्तरासम्भवात्, मोहचिन्तायांजीवपदे पृथिव्यादिषुपदेषुच प्रत्येकंएक एव भङ्गः-सप्तविधबन्धका अपि अष्टविधवन्धका अपीति, उभयेषामपि सदैव बहुत्वेन लभ्यमानत्वात्, षड्विधबन्धकस्तुमोहनीयबन्धको न भवति, मोहनीयबन्धो ह्यनिवृत्तिबादरसम्परायगुणस्थानकंयावत्, षड्विधबन्धकस्तु सूक्ष्मसंपराय इति, आयुर्बन्धकसत् नियमादष्टविधबन्धक इति तचिन्ताययमेकवचने बहुवचने च सर्वत्राभङ्गक, नामगोत्रान्तरायसूत्राणि ज्ञानावरणीयसूत्रवत् ।। पदं - २४ - समाप्तम् [पदं-२५ - "कर्मवेदः" वृ. सम्प्रति पञ्चविंशतितममारभ्यते, तत्र चेदमादिसूत्रम् मू. (५४७) कति णंभंते ! कम्मपगडीओ पं०?, गो०! अट्ठ कम्मपगडीतो पन्नत्ताओ तं०-नानावरणिज्जं जाव अंतराइयं, एव नेरइयाणं जाव वेमाणियाणं, जीवेणंभंते ! नाणावरणिजं कम्मंबंधमाणे कति कम्मपगडीतो वेदेति?, गो०! नियमा अट्ठ कम्मपगडीतो वेदेति, एवं नेरइए जाव वेमाणिए, एवं पुहुत्तेणवि, एवं वेदणिजवजं जाव अंतराइयं । जीवे णं भंते ! वेदणिजं कम्मं बंधमाणे कति कम्मपगडीतो वेदेति ?, गो ! सत्तविहवेदए वा अट्ठविहवेदए वा छउबिहवेदए वा, एवं मणूसेवि, सेसा नेरइयाति एगत्तेण पुहुत्तेणवि नियमा अट्ट कम्मपगडीओ वेदंति जाव वेमाणिया, जीवा णं भंते ! वेदणिजं कम्मं बंधमाणा कति कम्मपगडीतो वेदेति ?,गो० ! सव्वेवि ताव होज्जा अट्ठविहवेदगायचउब्विहवेदगा य? अहवाअट्ठविहवेदगायचउबिह० सत्तविहवेदगे य २ अहवा अट्ठावहवेदगा य चउब्वि० सत्तवि० ३, एवं मणूसावि भाणियव्वा ॥ (पन्नवणाए भगवईए कम्मवेदनामं पणवीसतिमं पयं समत्तं) वृ. 'कइ णं भंते कम्मपगडीओ' इत्यादि गतार्थं, सम्प्रति किं कर्म बध्नन् कति कर्मप्रकृतीर्वेदयते इति चिन्तयति ‘जीवेणं भंते!' इत्यादि सुगम, वेदनीयसूत्रे ‘सत्तविहवेयए वा अट्टविहवेयए(या) वा' इति, सप्तविधवेदक उपशान्तमोहः क्षीणमोहोवा, तयोर्मोहनीयोदयाभावात्, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy