________________
१८४
प्रज्ञापनाउपाङ्गसूत्रम्-२-२३/२/-/५४०
चतुरस्रसंस्थानाम, यदुदयात्तु न्यग्रोधपरिमण्डलं संस्थानं तन्यग्रोधपरिमण्डलसंस्थानाम, एवं शेषाण्यपि वाच्यानि, तथा वर्ण्यते-अलकियते शरीरमनेनेति वर्णः, सच पञ्चप्रकारः श्वेतपीतरक्तनीलकृष्णभेदात्तन्निबन्धनंनामापि पञ्चधा, तद्यथा-श्वेतवर्णनामपीतवर्णनामरक्तवर्णनाम नीलवर्णनामकृष्णवर्णनाम, तत्र यदुदयाजन्तुशरीरेषुश्वेतवर्णाप्रादुर्भावो यथा बिशकण्ठिकानां तत् श्वेतवर्णनाम, एवं शेषवर्णनामान्यपि भावनीयानि,
तथा गन्ध अर्द्दने' गन्ध्यते-आघ्रायते इतिगन्धः, सद्विधा-सुरभिगन्धो दुरभिगन्धश्च, तन्निबन्धनंगन्धनामापिद्विधा, तद्यथा-सुरभिगन्धनामदुरभिगन्धनामच, तत्र यदुदयाजन्तुशरीरेषु सुरभिगन्ध उपजायते यथा शतपत्रमालतीकुसुमादीनांतत्सुरभिगन्धानाम, यदुदयाद्दुरभिगन्धः शरीररेषूपजायते यथा लशुनादीनां तत् दुरभिगन्धनाम,
-तथा रस आस्वादनस्नेहनयोः' रस्यते आस्वाद्यतेइति रसः, सपञ्चधा तिक्तकटुकषायाम्ललमधुरभेदात्, तन्निबन्धनं रसनामापि पञ्चधा, तद्यथा-तिक्तनाम कटुनाम कषायनाम अम्लनाम अधुरनाम, तत्र यदुदयात् जन्तुशररेषु तिक्तोरसो भवति यथा मरिचादीनां तत्तिक्तरसनाम्, एवं शेषाण्यपि रसनामानि भावनीयानि,
__ तथा 'स्पृश संस्पर्शे' स्पृश्यते इति स्पर्शः, अकर्तरी तिधप्रत्ययः, सच कर्कशमूदुलघुगुरुस्निग्धरूक्षशीतोष्णभेदादटप्रकारःस, तनिबन्धनं स्पर्शनामाप्यष्टप्रकारं, तत्र यदुदयाजन्तुशरीरेषु कर्कशः स्पर्शो भवति यथा पाषाणविशेषादीनां तत्कर्कशस्पर्शनाम,
एवं शेषाण्यपि स्पर्शनामानि भावनीयानि, तथा यदुदयात् प्राणिनां शरीराणि न गुरूणि नापि लघूनि किन्त्वगुरुलघुरूपाणि भवन्ति तदगुरुलघुनाम, तथा यदुदयात् स्वशरीरावयवैरेव शरीरान्तः परिवर्द्धमानैः प्रतिजिलागलवृन्दलम्बकचोरदन्तादिभिरुपहन्यते यद्वा स्वयंकृतोद्बन्धनभैरवप्रपातादिभिस्तदुपघातनाम, यदुदयात्पुनरोजस्वी दर्शनमात्रेणवाक्सौष्ठवेन वा महानृपसभामपिगतःसभ्यानामपित्रासमापादयति प्रतिवादिनश्चप्रतिभाविघातंकरोति तत्पराघातनाम,
तथाकूर्परलागलगोमूत्रिकाकारेणयथाक्रमंद्वित्रिचतुःसमयप्रमाणेन विग्रहेण भवान्तरोत्पत्तिस्थानं गच्छतो जीवस्यानुश्रेणिनियता गमनपरिपाटी आनुपूर्वी, तद्विपाकवेद्यं नामकर्मापि कारणेकार्योपचारात्, आनुपूर्वी नाम, तच्च चतुर्दा, तद्यथा-नैरयिकानुपूर्वीनामतिर्यगानुपूर्वीनाम मनुष्यानुपूर्वीनाम देवानुपूर्वीना,
-तथा यदुदयवशादात्मन उच्छ्वासनिः-श्वासलब्धिरूपजायते तदुच्छ्वासनाम, आहयद्येवमुच्छावसपर्याप्तिनाम्नः कवोपयोगः ?, उच्यते, उच्छ्वासनाम्न उच्छावसनिःश्वासयोग्यपुद्गलग्रहणमोक्षविषया लब्धिरुपजायते, साचलब्धिनोच्छ्वासपर्याप्तिमन्तरेण स्वफलं साधयति, न खलु इषुक्षेपणशक्तिमानपि धनुर्ग्रहणशक्तिमन्तरेण क्षेप्तुमलं, तत् उच्छ्वासपर्याप्तिनिष्पादनार्थमुच्छ्वासपर्याप्तिनाम्न उपयोगः, एवम्यत्रापि यथायोगंभिन्नविषयता सूक्ष्मधिया भावनीया,
तथा यदुदयात् जन्तुशरीराणि स्वरूपेणानुष्णान्यपि उष्णप्रकाशलक्षणमतपं कुर्वन्ति तदातपनाम, तद्विपाकश्चभानुमण्डलगतेषुपृथिवीकायिकेष्वेववन वह्नौ, प्रवचनेऽपि निषेधात्, तत्रोष्णत्वमुष्णस्पर्शनामोदयात् उत्कटलोहितवर्णनामोदयाच्च प्रकाशकत्वमिति, तथा यदुदयाजन्तुशरीराण्यनुष्णप्रकाशरूपमुद्योतंकुर्वन्ति यथायतिदेवोत्तरवैक्रियचन्द्रनक्षत्रातारविमान
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org