________________
पदं-२३, उद्देशकः-२, द्वारं -
१८३
यदुदयाद्वैक्रियापुद्गलानां गृहीतानां गृह्यमाणानां च परस्परं तैजसकार्मणपुद्गलैश्च सह सम्बन्धः तद्वैक्रियबन्धनं, यदुदयादाहारकशरीरपुद्गलानां गृहीतानां गृह्यमाणानां च परस्परं तैजसकार्मणपुद्गलैश्च सह सम्बनधस्तदाहारकबन्धनं, यदुदयात्तैजसपुद्गलानां गृहीतानां गृह्यमाणानां परस्परं कार्मणपुद्गलैश्च सह सम्बन्धस्तत्तैजसमबन्धननाम, यदुदयात् कार्मणपुद्गलानां गृ हीतानां गृह्यमाणानां च परस्परं सम्बन्धस्तत्कार्मणबन्धननमा, तथा सङ्घात्यन्ते - पिण्डीक्रियन्ते औदारिकादिपुद्गला येन तत्सङ्घातं तच्च तन्नाम च सङ्गातनाम, तदपि पञ्चधा, तद्यथा
औदारिकसङ्घातनाम वैक्रियसङ्घातनाम आहारकसङ्घातनाम तैजससङ्घातनाम कार्मणसङ्घातनाम, तत्र यदुदयवशादौदारिकशरीरररचनाऽनुकारिसङ्घातरूपा जायते तदीदारिकसङ्घातनाम, एवं वैक्रियादिशरीरसङ्घातनामस्वपि भावनीयं,
'संघयण नामे' इति संहनननाम, संहननं - अस्थिरचनाविशेषः, आह च मूलटीकाकारः“संहननमस्थिरचनाविशेषः" इति, तेन यः प्राह सूत्रे शक्तिविशेष एव संहननमिति, तथा च तद्ग्रन्थः - 'सुत्ते सत्तिविसेसो संघयण' मिति स भ्रान्तः, मूलटीकाकारेणापि सूत्रानुयायिना संहननस्यास्थिरचनाविशेषात्मकस्य प्रतिपादितत्वात्, यत्त्वेकेन्द्रियाणां सेवार्त्तसंहननमन्यत्रोक्तं तत् टीकाकारेणसमाहितं, औदारिकशरीरत्वादुपचारत इदमुक्तं द्रष्टव्यं न तु तत्त्वृत्त्येति, यदि पुनः शक्तिविशेषः, स्यात् ततो देवानां नैरयिकाणं च संहननमुच्यते अथ च ते सूत्रे साक्षादसंहननिन उक्ता इत्यलं उत्सूत्रप्ररूपकविस्पन्दितेषु स चास्थिरचनाविशेष औदारिकशरीर एव नान्येषु तेषामस्थिरहितत्वात्, तच्च षोढा, तद्यथा
वज्रर्षभनाराचं ऋषभनाराचं नाराचं अर्द्धनाराचं कीलिका सेवार्त्त च, तत्र वज्रं - कीलिका ऋषभः - परिवेष्टनपट्टः नाराचं- उभयतो मर्कटबन्धः, उक्तं च
119 11
"रिसहो य होइ पट्टो वज्रं पुण कीलिया मुणेयव्वा । उभओ मक्कडबंधो नारायं तं वियाणाहि ||"
ततश्च द्वयोरस्थ्नोरुभयतो मर्कटबन्धनबद्धयोः पट्टाकृतिना तृतीयेनास्था परिवेष्टितयोरुपरि तदस्थित्रयभेदि कीलिकाख्यं वज्रनामकमस्थि यत्र भवति तद्वज्रर्षभनाराचसंहननं, यत्पुनः कीलिकारहितं संहननं तत् ऋषभनाराचं, यत्र त्वस्थ्नां मर्कटबन्ध एव केवलो भवति तत्संहननं नाराचं, यत्र त्वेकपार्श्वेन मर्कटबन्धो द्वितीयपार्श्वे च कीलिका तदर्द्धनाराचसंहनन, यत्रास्थीनि कीलिकामात्रबद्धान्येव भवन्ति तत्संहननं कीलिकाख्यं, यत्र पुनः परस्परर्यन्तमात्रसंस्पर्शलक्षणां सेवामागतानि अस्थीनि नित्यमेव स्नेहाभ्यङ्गादिरूपां परिशीलनामाकाङ्क्षन्ति तत्सेवार्त्तसंहननं,
एतन्निबन्धनं संहनननामापि षोढा, तद्यथा-वज्रर्षभनाराचसंहननाम ऋषभनाराचनाम नाराचनाम अर्धनाराचनाम कीलिकानाम सेवार्त्तनाम, तत्र यदुदयात् वज्रर्षभनाराचसंहननं भवति तत् वज्रर्षभनाराचसंहननाम, एवं शेषसंहननामस्वपि भावनीयं, तथा संस्थानं - आकारविशेषस्तेष्वेव गृहीतसङ्घातितबद्धेषु औदारिकादिषु पुद्गलेषु संस्थानविशेषो यस्य कर्मण उदयाद् भवति तत्संस्थानं, एतच्च षोढा, तद्यथा
समचतुरस्रसंस्थानाम न्यग्रोधपरिमण्डलसंस्थाननाम सादिसंस्थानाम वामनसंस्थाननाम कुब्जसंस्थाननाम हुण्डसंस्थान नाम च, तत्र यदुदयादसुमतां समचतुरनसंस्थानमुपजायते तत्सम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org