SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनाउपाङ्गसूत्रम् -२-२३/२/-/५४० जुगुप्सामोहनीयं, जुगुप्साजनकं मोहनीयं जुगुप्सामहनीयं, एवं सर्वपदेष्वपि विग्रहो भावनीयः, नोकषायता चामीषां हास्यादीनां कषायसहचारित्वात्, कैः कषायैः सहचारितेति चेत्, उच्यते, आद्यैर्द्वादशभिः तथाहि नाद्येषु द्वादशकषायेषु क्षीणेषु हास्यादीनामवस्थानसम्भवस्तदनन्तरमेव तेषामपि क्षपणाय प्रवृत्तिः, अथवा एते प्रादुर्भवन्तोऽवश्यं कषायादीनुद्दीपयन्ति ततः कषायसहचारिणः, एवं नोशब्दः साहचर्ये द्रष्टव्यः, कषायैः सहचारिणो नोकषाया इति, उक्तं च"कषायसहवर्त्तित्वात्, कषायप्रेरणादपि । हास्यादिनवकस्योक्ता, नोकषायकषायता ॥” 119 11 १८२ आयुः कर्मसूत्रं पाठसिद्धं, नामकर्म द्विचत्वारिंशद्विधं, तानेव द्वाचत्वारिंशतं भेदनाह - 'गतिनामे' त्यादि, गम्यते - तथाविधकर्मचिवैः प्राप्यते इति गतिः - नारकत्वादिपर्यायपरिणतिः, सा चतुर्धा, तद्यथा - नरकगतिस्तिर्यग्गतिर्मनुष्यगतिर्देगतिस्तज्जनकं नाम गतिनाम, तदपि चतुर्द्धा, 'नरकगतिनामे' त्यादि, तथा एकेन्द्रियादीनामेकेन्द्रियत्वादिरूपसमानपरिणामलक्षणमेकेन्द्रियादिशब्दव्यपदेशभाक् यत्सामान्यं सा जातिस्तज्जनकं नाम जातिनाम, इदमत्र तात्पर्य द्रव्यरूपमिन्द्रियमङ्गोपाङ्गनामेन्द्रियपर्याप्तिनामसामथ्यसिद्धं, भावरूपं तु स्पर्शनादीन्द्रियावरणक्षयोपशमसामध्यात्, 'क्षायोपशमिकाणीन्द्रियाणी' ति वचनात्, यत्पुनरेकेन्द्रियादिशब्दप्रवृत्तिनिबन्धनं तथारूपसमानपरिणतिलक्षणं सामान्यं तदनन्यासाध्यत्वाज्जातिनिबन्धनमिति, तच्च जातिनाम पञ्चधा, तद्यथा-एकेन्द्रियजातिनाम यावत्पञ्चेन्द्रयजातिनाम, तथा शीर्यते इति शरीरं, तत्पञ्चधा, तद्यथा - औदारिकं वैक्रियमाहारकं तैजसंकार्मणं, एतानि प्रागेव व्याख्यातानि, तन्निबन्धनं नामापि पञ्चधा, तद्यथा - औदारिकनाम वैक्रियनाम इत्यादि, तत्र यदुदयादौदारिकशरीरप्रायोग्यान् पुद्गलानादाय औदारिकशरीररूपतया परिणमयति परिणमय्य च जीवप्रदेशैः सह परस्परानुगमरूपतया सम्बन्धयति तदौदारिकशरीरनाम, एवं शेषशरीरनामान्यपि भावनीयानि, 'सरीरोपाङ्गनामे’ति शरीरस्याङ्गान्यष्टौ शिरःप्रभृतीनि उक्तं च- 'सीममुरोयरपिट्ठी दो बाहूऊरूया य अट्टंगा इति, उपाङ्गानि अङ्गावयवभूतान्यङ्गुल्यादीनि शेषाणि तत्प्रत्यवयभूतान्यङ्गुलिपर्वरेखादीनि अङ्गोपाङ्गानि अङ्गानि च उपाङ्गानि च अङ्गोपाङ्गानि च २ अङ्गोपाङ्गानि "स्यादवसङ्घयेय" इत्येकशेषः, तन्निमित्तं नाम शरीरोपाङ्गनाम, तच्च त्रिधा, तद्यथा-औदारिकाङ्गोपाङ्गनाम वैक्रियाङ्गोपानाम आहारकाङ्गोपाङ्गनाम, तत्र यदुदयवशादौदारिकशरीरत्वेन परिणतानां पुद्गलानामङ्गोपाङ्गविभागपरिणतिरुपजायते तदौदारिकाङ्गोपाङ्गनाम, एवं वैक्रियाहारकाङ्गोपाङ्गनाम्नी अपि वाच्ये, तैजसकार्मणयोस्तु जीवप्रदेशसंस्थानानुरोधित्वान्नास्त्यङ्गोपाङ्गसम्भवः, तथा बध्यतेऽनेनेति बन्धनं, यदौदारिकपुद्गलनानां गृहीतानां गृह्यमाणानां च परस्परं तैजसादिपुद्गलैर्वा सह सम्बन्धजनकं तद्बन्धननाम, आह च मूलटीकाकारः“विद्यते तत्कर्म यन्निमित्ता द्व्यादिसंयोगापत्तिराविर्भवति, यथा काष्ठद्वयभेदैक्यस्य करणे जतु कारण ''मिति, तच्च पञ्चधा, तद्यथा - औदारिकबन्धननाम वैक्रियबन्धननाम आहारकबन्धननाम तैजसबन्धननाम कार्मणबन्धननाम, तत्र यदुदयवशात् औदारिकपुद्गलानां गृहीतानां गृह्यमाणानां च परस्वपरं तैजसादिपुद्गलैश्च सह सम्बन्ध उपजायते तदौदारिकबन्धनं, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy