SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ पदं- २३, उद्देशक :- २, द्वारं - एषां संयोजना इति द्वितीयमपि नाम, तत्रायमन्वर्थः - संयुज्यन्ते - सम्बध्यन्तेऽनन्तसङ्घयैर्भवैर्जन्तवो यैस्ते संयोजनाः, उक्तं च 119 11 “संयोजयन्ति यन्नरमनन्तसङ्घयैयर्भवैः कषायास्ते । संयोजनताऽनन्तानुबन्धिता वाप्यतस्तेषाम् ॥” सर्वं प्रत्याख्यानं देशप्रत्याख्यानं च येषामुदये न लभ्यते ते भवन्त्यप्रत्याख्यानाः, सर्वनिषेधवचनोऽयं नञ्, उक्तं च 119 11 "स्वल्पमपि नोत्सहेद्योषां, पत्याख्यानमिहोदयात् । अप्रत्याख्यानसंज्ञाऽतो, द्वितीयेषु निवेशिता ।" 119 11 तथा प्रत्याख्यानं - सर्वविरतिरूपमाव्रियते यैस्ते प्रत्याख्यानावरणाः, आह च“सर्वसावद्यविरतिः, प्रत्याख्यानमुदाहृतम् । तदावरणसंज्ञाऽतस्तृतीयेषु निवेशिता ।" तथा परीषहोपसर्गनिपाते सति चारित्रिणमपि सम्-ईषत् ज्वलयन्तीति सञ्जवलनाः स उक्तं च || 9 || 119 11 119 11 ॥२॥ ॥३॥ " संज्वलयन्ति यतिं यत्संविज्ञं सर्वपापविरतमपि । तस्मात् सञ्जवलना इत्यप्रशमकरा निरुध्यतन्ते ॥" -अन्यत्राप्युक्तम् “शब्दादीन् विषयान् प्राप्य, सञ्जवलयन्ति यतो मुहुः । ततः सञ्जवलनाह्वानं, चतुर्थानामिहोच्यते ।।" -स्वरूपं च पश्चानुपूव्याऽमीषामिदं"जलरेणुपुढविपव्वयराईसरिसो चउव्विहो कोहो । तिणिसलयाकट्ठट्ठियसेलत्थंभोवमो माणो ॥ मायावलेहीगोमुत्तिमिंढसिंगधणवंसमूलसमा । लोहो हलिहखंजणकद्दमकिमिरागसारित्यो । पक्खचउम्मासवच्छरजावज्जीवाणुगामि नो कमसो । देवनरतिरियनारयगइसाहणहेयवो भणिया ।।" १८१ ‘इत्थीवेए' इति वेद्यते इति वेदः स्त्रिया वेदः स्त्रीवेदः, स्त्रियाः पुमांसे प्रत्यभिलाष इत्यर्थः, तद्विपाकवेद्यं कर्मापि स्त्रीवेदः, पुरुषस्य वेदः पुरुषवेद:, पुरुषस्य स्त्रियं प्रत्यभिलाष इत्यर्थः, तद्विपाकवेद्यं कर्मापि पुरुषवेदः, नपुंसकस्य वेदो नपुंसक वेदः, नपुंसकस्य स्त्रियं पुरुषं च प्रत्यभिलाष इत्यर्थः, तद्विपाकवेद्यं कर्मापि नपुंसकदेवः, तथा यदुदयात् सनिमित्तमनिमित्तं वा हसति स्म हासयते वा तत् हास्यमोहनीयं, यदुदयाद्बाह्याभ्यन्तरेषु वस्तुषु प्रमोदमाधत्ते तत् रतिमोहनीयं, यदुदयवशात् पुनर्बाह्याभ्यन्तरेषु वस्तुषु अप्रीतिं करोति तदरतिमोहनीयं, यदुदयात् प्रियविप्रयोगादी सोरस्ताडमाक्रन्दति परिदेवते भूपीठे च लुठति दीर्घं च निःश्वसिति तत् शोकमोहनीयं, यदुदयवशात् सनिमित्तमनिमित्तं वा तथारूपवस्वसङ्कल्पतो बिभेति तद्मयमोहनीयं, यदुदयवशात् पुनः शुभमशुभं वा वस्तु जुगुप्सते तत् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy