________________
१८५
पदं-२३, उद्देशकः-२, द्वाररत्नौषधयस्तदुद्योतनाम,
तथा विहायसागतिः-गमनं विहायोगतिः,ननु सर्वगतत्वात्, विहायसस्ततोऽन्यत्र गतिर्न सम्भवतीति किमर्थं विशेषणं?, व्यवच्छेद्याभावातच, सत्यमेतत्, किन्तु यदि गतिरेवोच्यतेततो नाम्नः प्रथमप्रकृतिरपिगतिरस्तीति पौनरुक्त्याशङ्कास्यात्, अतस्तद्वयवच्छेदार्थ विहायसागतिः, नतुनारकादिपर्यायपरिणतिरूपेतिविहायोगतिः,सा द्विविधा-प्रशस्ताअप्रशस्ताच, तत्रप्रशस्ता हंसगजवृषभादीनांअप्रशस्ताखरष्ट्रमहिषादीनां, तद्विपाकवेद्यं विहायोगतिनामकर्म द्विधा-प्रशस्तवहायोगतिनाम अप्रशस्तविहायोगतिनाम चेति,
तथात्रसन्ति-उष्णाघभितप्ताः सन्तोविवक्षितस्थानादुद्विजन्तेगच्छन्तिचछायाद्यासेवनार्थं स्थानान्तरमितित्रसा-द्वीन्द्रियादयस्तत्पर्यायपरिणतिवेद्यनामकर्मापित्रसनाम,तथायदुदयादुष्णाघभितापेऽपितस्थानपरिहारासमर्थाः पृथिव्यप्तेजोवायुवनस्पतयःस्थावराजायन्तेतत्स्थावरनाम,
तथाबादरनामयदुदयाज्जीवा बादरा भवन्ति, बादरत्वंपरिणामविशेषः, यद्वशात्पृथिव्यादेरेकैकस्य जन्तुशरीरस्य चक्षुह्यत्वाभावेऽपि बहूनां समुदाये चक्षुषा ग्रहणं भवति, तद्विपरीतं सूक्ष्मनाम, यदुदयावहूनामपि समुदितानां जन्तुशरीराणांचक्षुर्गाह्यता न भवति, उक्तंच श्रावकप्रज्ञप्तिमूलटीकायां-"सूक्ष्मनाम यदुदयात्सूक्ष्मो भवति, अत्यन्तसूक्ष्मोऽतीन्द्रिय इत्यर्तः" इति,
पर्याप्तकनाम यदुदयात्स्वयोग्यपर्याप्तिनिर्वर्तनसमर्थो भवति तत्पर्याप्तिनाम-आहारादिपुद्गलग्रहणपरिणमनहेतुरात्मनः शक्तिविशेषः, एतच्च प्रागेवोक्तमिति, तद्विपरीतमपर्याप्तकनाम, तथायदुदयात्जीवंजीवंप्रति भिन्नं शरीरंतप्रत्येकनाम, यदुदयवशात् पुनरनन्तानांजीवानामेकं शरीरं भवति तत्साधारणनाम,
तथायदुदयवशात् शरीरावयवानांशिरोऽस्थिदन्तानांस्थिरता भवति तत्स्थिरनाम, तद्विपरीतमस्थिरनाम, यदुदयवशाजिह्वादीनामवयवानामस्थिरता भवतितस्थिरनाम, तथा यदुदयात्राभेरुपरितनाअवयवाःशुभाजायन्ते तत्शुभनाम, यदुदयवशात्नाभेरधस्तनापादादयोऽवयवा अशुभा भवन्ति तदशुभनाम, तथाहि-शिरसा स्पृष्टस्तुष्यति पादेन तु रुष्टति, कामिन्या पादेनापि स्पृष्टः तोषमुपयातिततो व्यभिचार इतिचेत्, नतस्यपरितोषस्य मोहनीयनिबन्धनत्वात्, वस्तुस्थितिश्चेह चिन्त्यते इत्यदोषः, तथा यदुदयवशादनुपकृदपि सर्वस्य मनःप्रियो भवति तत्सुभगनाम, तद्विपरीतं दुर्भगनाम, यदुदयादुपकारकृदपि जनस्य द्वेष्यो भवति, उक्तं च॥१॥ “अणुवकएवि बहूर्ण जोहु पिओ तस्स सुभगनामुदओ।
उवगारकारगो विहुन रुच्चए दुब्भगस्सुदए॥ ॥२॥ सुभगुदएवि हु कोई किंची आसज्ज दुब्भगो जइवि।
जायइ तद्दोसाओ जहा अभव्वाण तित्थयरो॥" तथा यदुदयवशात् जीवस्य स्वरः श्रोतृणां प्रीतिहेतुरुपजायते तत्सुस्वरनाम, तद्विपरीतं दुःस्वरनाम यदुदयात् स्वरः श्रोतृणामप्रीतये भवति, तथा यदुदयवशात् यच्चेष्टे भाषते तत्सर्वं लोकः प्रमाणीकरोतिदर्शनसमनन्तरमेवचजनोऽभ्युत्थानादिसमाचरति तदादेयनाम, तद्विपरीतमनादेयं, यदुदयवशादुपपन्नमपि ब्रुवाणो नोपादेयवचनो भवति नाप्युपक्रियमाणोऽपि जनस्तस्याभ्युत्थानादि समाचरति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org