________________
१७६
प्रज्ञापनाउपाङ्गसूत्रम्-२-२३/१/-/५४०
'सुभनामकम्मस्स णं भंते !' इत्यादि प्रश्नसूत्रं प्राग्वत्, निर्वचनं चतुर्दशविधोऽनुभावः प्रज्ञप्तः, तदेवचचतुर्दशविधत्वंदर्शयति-'इट्ठासद्दा' इत्यादि,एतेशब्दादयआत्मीयाएवपरिगृह्यन्ते, नामकर्मविपाकस्यचिन्त्यमानत्वात्, तत्रवादित्राद्युत्पादिताइत्येके, तयुक्तं, तेषामन्यकर्मोदयनिष्पाद्यत्वात्, इष्टा गतिमत्तावारणाद्यनुकारिणी शिबिकाद्यारोहणतश्चेत्येके, इष्टा स्थितिः सहजा सिंहासनादौ चान्ये, इष्टं लावण्यं-छायाविशेषलक्षणंकुडमाधनुलेपनजमित्यपरेइष्टा यशःकीर्तिः यशसा युक्ता कीर्तिः २, यशःकीत्योश्चायं विशेषः-'दानपुण्यरकृता कीर्तिः, पराक्रमकृतं यशः' 'इटे उट्ठाणकम्मबलवीरियपुरिसक्करपरक्कमे' इति उत्थानं-देहचेष्टाविशेषः कर्म-आरेचनभ्रमणादिबलं-शारीरसामर्थ्यविशेषः वीर्य-जीवप्रभवःस एव पुरुषकारः-अभिमानविशेषः स एव निष्पादितस्वविषयः पराक्रमः इष्टस्वरता-वल्लभस्वरता, तत्र इष्टाःशब्दा इति सामान्योक्तावियं विशेषोक्तिस्तदन्यबहुतमत्वापेक्षाऽवगन्तव्या, 'कांतस्वरते'ति कान्तः-कमनीयःसामान्यतोऽभिलषणीय इत्यर्थः, कान्तः स्वरोयस्यसतथातभावःकान्तस्वरता, प्रियस्वरते'तिप्रियो-भूयोऽभिलषणीयःप्रियः स्वरो यस्यस तथा तद्भावः प्रियस्वरता, 'मणुण्णस्सरता' इति उपरतभावोऽपि स्वालम्बन्ग्रीतिजनको मनोज्ञः सस्वरो यस्य स मनोज्ञस्वरस्तद्भावो मनोज्ञस्वरता,
'जं वेएइ' इत्यादि, यं वेदयते पुद्गलं वीणावर्णकगन्धताम्बूलपट्टशिबिकासिंहासनकुङ्कुमदानराजयोगगुलिकादिलक्षणं, तथा च वीणादिसंम्बन्धाद् भवन्तीष्टाः शब्दादय इति परिभावनीयमेतत्सूक्ष्मधियामार्गप्रहर्षमनसोऽनुसारिण्या, 'पुग्गले वा' इति यतो बहून् पुद्गलान् वेणुवीणादिकान् वेदयते यंपुद्गलपरिणामं ब्राह्यौषध्याहारपरिणामं विनसया वायं पुद्गलानां परिणाम-शुभजलदादिकं तथा चोन्नतान् कज्जलसमप्रभान् मेघानवलोक्य गायन्ति मत्तयुवतयो रेल्लुकानिष्टस्वरानित्यादि, तत्प्रभावात्, शुभनामकर्म वेदयते, शुभनामकर्मफलमिष्टस्वरतादिकमनुभवतीति भावः, एतावता परत उक्तः,इदानीं स्वतस्तमाह-'तेसिंवाउदएणं तितेषां वा शुभानां कर्मपुद्गलानामुदयेन इष्टशब्दादिकं वेदयते, ‘एस णं गो० !' इत्याधुपसंहारवाक्यं,
'दुहनामस्सणंभंते!' इत्यादिप्रश्नसूत्रप्राग्वत्, निर्वचनसूत्रप्रागुक्तार्थवैपरीत्येन भावनीयं,
गोत्रं द्विधा-उच्चैर्गोत्रं नीचैर्गोत्रंच, तत्रौचैर्गोत्रविषयं सूत्रमाह-‘उच्चागोयस्स णं भंते!' इत्यादित प्रश्नसूत्रं प्राग्वत्, निर्वचनमष्टविधोऽनुभावः प्रज्ञप्तः, तदेवाष्टविधत्वं दर्शयति'जाइविसिट्ठया' इत्यादि, जात्यादयः सुप्रतीताः, शब्दार्थस्त्वेवम्-जात्या विशिष्टो जातिविशिष्टस्तद्भावोजातिविशिष्टताइत्यादि जंवेएइ पुग्गलं वा इत्यादियंवेदयतेपुद्गलंबाह्यद्रव्यादिलक्षणं, तथाहि-द्रव्यसम्बन्धाद्राजादिविशिष्टपुरुशम्परिग्रहाद्वानीचजातिकुलोत्पन्नोऽपिजात्यादिसम्पन्न इव जनस्य मान्य उपजायते, बलविशिष्टताऽपि मल्लानामिव लकुटिभ्रमणवशात् रूपविशिष्टता प्रतिविशिष्टताईग्वस्त्रालङ्गारसम्बन्धात् तपोविशिष्टता गिरिकूट्याचारोहणेनातापनां कुर्वतः श्रुतविशिष्टता मनोत्रभूदेसम्बन्धात् स्वाध्यायं कुर्वतः लाभविशिष्टता प्रतिविशिष्टरत्नादियोगात् ऐश्वर्यविशिष्टता धनकनकादिसम्बन्धादिति, 'पुग्गले वा' इति यान् बहून् पुद्गलान् वेदयते पुद्गलपरिणामं-दिव्यफलाद्याहारपरिणामरूपंविनसयावायंपुद्गलानांपरिणामंअकस्मादभिहितजलदागमलसंवादादिलक्षणंतप्रभावादुच्चैर्गोत्रं वेदयते-उच्चैर्गोत्रकर्मफलं जातिविशिष्टत्वादिकं वेदयते, एतेनपरत उदय उक्तः,सम्प्रति स्वतस्तमाह-'तेसिंवाउदएणं'तेषांवा उच्चैर्गोत्रकर्मपुद्गलानां उदयेन जातिविशिष्टत्वादिकं, भवति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org