________________
१७५
पदं-२३, उद्देशकः-१, द्वारंस्त्रीगतादीनि अमनोज्ञाः स्पर्शाः-कर्कशादयः, 'मणोदुहिया' इति दुःखितं मन इति वइदुहिया' इति अभव्या वाक् इति भावार्थः, 'कायदुहिया' इति काये दुःखं यस्यासौ कायदुःशस्तभावः कायदुःखिता दुःखितकाय इत्यर्थः, 'जं वेएइ' इत्यादि, यं वेदयते पुद्गलं-विषशस्त्रकण्डकादि 'पुग्गले वा' इति यान् वा पुद्गलान् बहून् विषशस्त्रकण्डकादीन् वेदयते पुद्गलुपरिणाममपथ्याहारलक्षणं, विनसयावायंवेदयतेपुद्गलपरिणामंअकालेऽभिलषितंशीतोष्णादिपरिणाम, तेन मनसोऽसमाधानसम्पादनात्, असातवेदनीयं कर्मानुभवति, असातवेदनीयकर्मफलमसातं वेदयते इति भावः, एतेन परत उदय उक्तः, सम्प्रति स्वत उदयमाह-'तेसिंवा उदएणं'ति तेषां वा असातवेदनीयकर्मपुद्गलानामुदयेनासातं वेदयते, ‘एसणंगोयमा!' इत्याधुपसंहारवाक्यं । _ 'मोहणिजस्सणं भंते!' इत्यादि प्रश्नसूत्रं प्राग्वत्, निर्वचनं पञ्चविधोऽनुभावः प्रज्ञप्तः, तदेवपञ्चविधत्वंदर्शयति-'सम्यकत्ववेदनीय'मित्यादि, सम्यकत्वरूपेणयद्वेद्यंतत्सम्यकत्ववेदनीयं, एवं शेषपदेष्वपि शब्दार्थो भावनीयः, भावार्थस्त्वयं-यदिह वेद्यमानं प्रशमादिपरिणामं करोति तत्सम्यकत्ववेदनीयं, यत्पुनरदेवादिबुद्धिहेतुस्तन्मिथ्यात्ववेदनीयं, मिश्रपरिणामहेतुः सम्यग्मिथ्यात्ववेदनीयं, क्रोधादिपरिणामकारणं कषायवेदनीयं हास्यादिपरिणामकारणं नोकषायवेदनीयं, “जंवेएणपुग्गल मित्यादि, यं वेदयते पुद्गगलविषयं प्रतिमादिकं पुद्गलान् वायान् वेदयते बहून्प्रतिमादीन्यवापुद्गलपरिणां देशाधुनुरूपाहारपरिणामकर्मपुद्गलविशेषोपादानसमर्थं भवति, आहारपरिणाम विशेषादपि कदाचित्कर्मपुद्गलविशेषोस यथा ब्राह्मयोषध्याद्याहारपरिणामात् ज्ञानावरणीयकर्मपुद्गलानां प्रतिविशिष्टः क्षयोपशमः, उक्तंच॥१॥ "उदयखयखओवसमोवसमावि यजंच कंमुणो भणिया।
दव्वं खेत्तं कालं भावं च भवंच संपप्प॥" विनसया वायं पुद्गलानां परिणामं अभ्रविकारादिकं यद्दर्शनादेव विवेक उपजायते, ॥१॥ “आयुः शरजलधरप्रतिमं नराणां, सम्पत्तयः कुसुमितद्रुमसारतुल्याः। स्वप्नोपभोगसध्शा विषयोपभोगाः, सङ्कल्पमात्ररमणीयमिदं हि सर्वम् ।।" इत्यादि,
अन्यं वा प्रशमादिपरिणामनिबन्धनं वं वेदयते तत्सामथ्यात् मोहनीयं सम्यकत्ववेदनीयादिकं वेदयते, सम्यकत्वेदनीयादिकर्मफलं प्रशमादि वेदयते इति भावः, एतावता परत उदय उक्तः, सम्प्रतिस्वतस्तमाह-'तेसिंवाउदएणं तितेषांचसम्यकत्ववेदनीयादिकर्मपुद्गलानामुदयेन प्रशमादि वेदयते, ‘एसणं' इत्याधुपसंहारवाक्यं ।
'आउस्सणं भंते ! इत्यादि, प्रश्नसूत्रप्राग्वत्, निर्वचनं चतुर्विधोऽनुभावः प्रज्ञप्तः, तदेव चतुर्विधत्वं दर्शयति-'नेरइयाउए' इत्यादि सुगमं, 'जंवेएइपुग्गलं वा' इत्यादि, यं वेदयतेपुद्गलं शस्त्रादिकमायरपवर्तनसमर्थंबहून् पुद्गलान् शस्त्रादिरूपान्यान् वेदयतेयं वापुद्गलपरिणाम विषान्नादिपरिणामरूपं विनसया वायंपुद्गलपरिणामंशीतादिकमेवायुरपवर्तनक्षम, तेनोपयुज्यमानमवायुषोऽवर्तनात्, नारकाद्यायुःकर्मवेदयते, एतानवतापरत उदयोऽभिहितः, स्वत उदयस्य सूत्रमिदं-'तेसं वा उदएणं'ति तेषां वा नारकाद्यायुःपुद्गलानामुदयेन नारकाद्यायुर्वेदयते 'एस ण'मित्याधुपसंहारवाक्यं। ___ नामकर्म द्विधा-शुभनामकर्म अशुभनामकर्मच, तत्र शुभनामकर्माधिकृत्य सूत्रमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org