SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ पदं-२३, उद्देशकः-१, द्वारं 999 _ “एसणंगोयम' इत्याधुपसंहारवाक्यं, 'नीयागोयस्सणंभंते!' इत्यादिसप्रश्नसूत्रप्राग्वत्, निर्वचनमष्टविधोऽनुभावः, तमेवाष्टविधमनुभावं दर्शयति-‘जाइविहीणया' इत्यादि, सुप्रतीतं, 'जं वेएइ पुग्गल'मिति यं वेदयते पुद्गलं नीचकर्मोसेवनरूपं नीचपुरुषसम्बन्धलक्षणं वा, तथाहि-उत्तमजातिसम्पन्नोऽपि उत्तमकुलोत्पन्नोऽपि यदि नीचैःकर्मवशात् यथा (अधम) जीविकारूपमासेवते चाण्डालींवा गच्छति तदा भवति चाण्डालादिरिवजनस्य निन्द्यः, बलहीनता सुखशयनीयादिसम्बन्धतःरूपविहीनता कुत्सितवनादिसम्बान्धात्तपोविहीनतापार्श्वस्थादिसंसर्गात् श्रुतविहीनता विकथापरसाध्वाभासादिसंसर्गात् लाभविहीनता देशकालानुचितकुक्रयाणकसम्पर्कतः ऐश्वर्यविहीनता कुग्रहकुकलत्रादिसम्पर्कत इति 'पुग्गले' इति यान् बहून् पुद्गलान् वेदयतेयं वापुद्गलपरिणामंवृन्ताकीफलाद्याहारपरिणामरूपं, वृन्ताकीफलंह्यभ्यवहतंकण्डूत्युत्पादनेन रूपविहीनतामापादयतीत्यादि, विश्रसया वा पुद्गलानां परिणाम अभिहितजलदागमविसंवादलक्षणं वेदयते, तप्रभावात्, नीचैःकर्मवेदयते, नीचैःकर्मफलंजात्यादिविहीनतारूपं वेदयते इत्यर्थः, एतावता परत उदय उक्तः, सम्प्रति स्वत उदयमाह-'तेसिं वाउदएणं ति तेषां वा-नीचैर्गोत्रकर्मपुद्गलानामुजयेन जात्यादिविहीनतामनुभवति, ‘एस णं गोयमा !' इत्याधुपसंहारवाक्यं, __'अतरायस्स णं भंते !' इत्यादि प्रश्नसूत्रं प्राग्वत्, निर्वचनं पञ्चविधोऽनुभावः प्रज्ञप्तः, तदेव पञ्चविधत्वं दर्शयति-'दानंतराए' इत्यादि, दानस्यान्तरायो-विघ्नः दानान्तरायः, एवंसर्वत्र भावनीयं, तत्र दानान्तरायो दानान्तरायस्य कर्मणः फलं लाभान्तरायादयो लाभान्तरायादिकर्मणामिति 'जं वेएइ पुग्गलं वा' इत्यादि, यं वेदयते पुद्गलं तथाविधविशिष्टरत्नादिलक्षणं, तथाहि-प्रतिविशिष्टरलादिसम्बन्धात् श्यते तद्विषये एव दानान्तरायोदयः सन्धिच्छेदनाधुपकरणसम्बन्धाल्लाभान्तरायकर्मोदय; प्रतिविशिष्टाहारसम्बन्धादनर्धार्थसम्बन्धाद्वा लोभतो भोगान्तरायोदयः एवमुपभोगान्तरायकर्मोदयोऽपिभावनीयः, तथालकुटादिअभिघाताद्वीर्यान्त-- रायकर्मोदय इति, _ 'पुग्गले वा' बहून् तथाविधान् यान् पुद्गलान् वेदयते यं वा पुद्गलपरिणामंतथाविधाहारौषध्यादिपरिणामरूपं, तथाहि-दृश्यते तथाविधाहारौषधपरिणामाद्वीर्यान्तरायकर्मोदयः मन्त्रापसिक्तवासादिगन्धपुद्गलपरिणामात्, भोगान्तरायादयो यथासुबन्धुसचिवस्य, विनुसया वायंपुद्गलानांपरिणामं चित्रंशीतादिलक्षं, तथाहि-श्यन्ते वस्त्रादिकंदातुकामा अपिशीतादि निपतन्तमालोक्य दानान्तरायादयात् तस्यादातार इति तत्प्रभावात्, एष परत उदय उक्तः,स्वतस्तमाह-'तेसिं वा उदएणं ति तेषां वा-अन्तरायकर्मपुद्गलानामुदयेन अन्तरायकर्मफलं दानान्तरायादिकं वेदयते-'एसणं'मित्याधुपसंहारवाक्यम्। पदं-२३, उद्देशकः- समाप्तम् -:पदं-२३, उद्देशकः-२:वृ. व्याख्यातः प्रथमोद्देशकः, इदानीं द्वितीयो व्याख्येयः, तस्य चायमभिसम्बन्धः, | 1112 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy