SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १६८ प्रज्ञापनाउपाङ्गसूत्रम्-२-२३/१/-/५३६ ॥१॥ “जीवपररिणामहेउं कम्मत्ता पुग्गला परिणमंति। पुग्गलकम्मनिमित्तं जीवोवि तहेव परिणमइ॥" इति उक्तमेवार्थं चतुर्विंशतिदण्डकक्रमेण निरूपयति-'कहण्णं भंते! नेरइए' इत्यादि सुगम, तदेवमुक्त एकत्वेन दण्डकः, सम्प्रति बहुत्वेनाह-'कहणं भंते ! नेरइया' इत्यादि पाठसिद्धं । उक्तं द्वितीयद्वारमपि, अधुना कतिभिः स्थानबध्नातीति तृतीयद्वारमभिधित्सुराह मू. (५३७) जीवे णं भंते ! नाणावरणिज्जं कम्म कतिहिं ठाणेहिं बंधति ?, गो० !दोहिं ठाणेहिं, तं०-रागेण य दोसेण य, रागे दुविहे पं०, तं०-माया य लोभे य, दोसे दुविधे पं०, तं०-कोहे य माणे य, इच्छेतेहिं चउहिं ठाणेहिं विरितोवग्गहिएहिं एवं खलु जीवे नाणावरणिशं कम्मं बंधति, एवं नेरतिते जाव वेमाणिते, जीवाणं भंते ! नाणावरणिजं कम्मं कतिहिं ठाणेहिं बंधंति?, गो० ! दोहिं ठाणेहिं एवं चेव, एवं नेरइया जाव वेमाणिया, एवं दंसणावरणिजं जाव अंतराइजं, एवं एते एगत्तपोहत्तिया सोलस दंडगा ॥३ वृ. 'जीवेणं भंते!' इत्यादि प्रश्नसूत्रसुगम, भगवानाह-द्वाभ्यां स्थानाभ्यां, तएव स्थाने नामग्राहमाह-तद्यथा-रागेण द्वेषेणच, अथकोऽसौरागःकोवा द्वेष इति?,उच्यते, प्रीतिलक्षणो रागोऽप्रीत्यात्मको द्वेषः, एतौ च प्रीत्यप्रीत्यात्मकौ रागद्वेषौ नात्यन्तं क्रोधादिभ्यो व्यतिरिच्येते, किन्तु तेष्वेवान्तर्भवतः, सचान्तर्भावो नयभेदाद्विचित्र इति विनयजनानुग्रहाय प्रदर्शयते, तत्र सङ्ग्रहो मन्यते-क्रोधोऽप्रीत्यात्मकः प्रतीत एव, मानोऽपि परगुणासहनात्मकत्वादप्रीत्यात्मकः, ततोऽप्रीत्यात्मकत्वादेतौ द्वावपि द्वेषः लोभोऽभिष्वङ्गात्मकत्वात् प्रीतिरूपः सुप्रसिद्धो, मायामपि परवञ्चनात्मिकां किञ्चिदभिलषनं प्रयुक्ते अभिलाषश्च प्रतिस्वभाव इति साऽपि प्रीत्यात्मिका, तत एतौ मायालोभौ प्रीत्यात्मकत्वात् रागः उक्तंच॥१॥ “कोहं माणंचापीइजाइतो बेइ संगहो दोसं। मायाए लोभेण यस पीइसामण्णतो रागं॥" अत्र उत्तरार्द्धस्याक्षरयोजन-मायया लोभेन सह प्रीतिजातिसामान्यात् स मानप्रीतिजातिभावात्द्वावपिमायालोभौस सङ्ग्रहोरागमाचष्टेइति।व्यवहारःपुडूते-मायाखलुपरोपघाताय प्रयुज्यते परोपघातपरिणामश्च द्वेष इति मायाया अपि द्वेषेऽन्तर्भावः, या तु न्यायोपादानेनार्थे मूर्छासपरोपधातरहितःशुद्धोलोभइतिरागः, एवंचेदमस्यमतेन वस्तुव्यवस्थितं-क्रोधमानमाया द्वेषो लोभो राग इति, आह च॥१॥ "मायपि दोसमिच्छइ ववहारो जंपरोवघायाय। नायोवायाणे च्चिय मुच्छ मुच्छा लोभेत्ति तो रागो॥" ऋजुसूत्रः पुनराह-क्रोधो नियमादप्रीत्यात्मकः, ततः स परोपघातात्मकत्वत् द्वेषः ये तु मानमायालोभास्ते द्विधाऽपि सम्भवन्ति-प्रीत्यात्मका अप्रीत्यात्मकाच, तथाहि-मानः स्वाहङ्कारोपयोगकाले प्रीत्यात्मकः स्वगुणबहुमानभावात्, परगुणद्वेषोपयोगवेलायामप्रीत्यात्मको मात्सर्यादिभावात्, मायाऽपि परवञ्चनोपयोगप्रवृत्तो परोपधातरूपत्वात्, अप्रीत्यात्मिका परगतद्रव्योपादानचिन्तायांत्वभिष्वङ्गात्मकत्वात्प्रीतिरूपा, लोभोऽपिक्षत्रियादीनांपरिचिन्त्यमानः प्रीत्यप्रीत्यात्मकः सुप्रतीतः, तथाहि-क्षत्रियाएवंमन्यन्ते परविषयापहारोऽस्माकंन्यायो वीरभोग्या Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy