SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ पदं-२२, उद्देशकः-, द्वार १६३ वृ. 'पाणाइवायविरएणंभंते! जीवे' इत्यादि सुगम, बहुवचनेप्रश्नसूत्रसुगम, निर्वचनसूत्रे सर्वेऽपि तावद्भवेयुः सप्तविधबन्धकाश्च एकविधबन्धकाश्च, इह प्रमत्ताप्रमत्तापूर्वकरणानिवृत्तबादरसम्परायाः सप्तविधबन्धकाःप्रमत्ता अप्रमत्ताश्चायुर्बन्धकालेऽष्टविधबन्धकाः,आयुषोऽपिबन्धनात्, आयुर्बन्धश्च कादाचित्क इति कदाचित्सर्वथा नलभ्यतेऽपि, प्रमत्ताश्चाप्रमत्ताश्च सदैव बहुत्वेन लभ्यन्ते, अपूर्वकरणाअनिवृत्तिबादराश्चकदाचिन्न भवन्त्यपि, विरहस्यापितेषामागमे प्रतिपादनात्, एकविधबन्धका उपशान्तमोहक्षीणमोहसयोगिकेवलिनः, तत्र उपशान्तमोहाः क्षीणमोहाश्च कदाचिल्लभ्यन्ते कदाचिन्न लभ्यन्ते, तेषामन्तरस्यापि सम्भवात्, सयोगिकेवलिनस्तु सदा प्राप्यन्तेऽ- न्यान्यभावेन तेषामव्यवच्छेदात्, ततः सप्तविधबन्धका एकविधबन्धकाश्चावस्थिता इत्यष्टविधबन्धकाद्यभावे एको भङ्गः,अथवा सप्तविधबन्धका एकविधबन्धकाश्च बहव एकोऽष्टविधबन्धक इति द्वितीयः, अष्टविधबन्धकानां बहुत्वे तृतीयः, षड्बिधबन्धका अपि कदाचिल्लभ्यन्तेकदाचिन्न, उत्कर्षतः षण्मासविरहभावात्, यदापि लभ्यन्ते तदापि जघन्यपदे एको द्वौ वा उत्कर्षपदेऽष्टोत्तरं शतं ततोऽष्टविधबन्धकपदाभावे षड्विधबन्धकपदेनापि द्वौ भङ्गो, अबन्धका अयोगिकेवलिन्स्तेऽपि कदाचिदवाप्यन्ते कदाचिन्न, तेषामप्युत्कर्षतः षण्मासविरहभावात्, यदाऽप्यवाप्यन्ते तदापि जघन्यपदे एको द्वौ वा उत्कर्षतोऽष्टाधिकं शतं, ततोऽष्टविधबन्धकपदाभावेऽबन्धकपदेनापि द्वौ भङ्गौ, तदेवमेक आयो भङ्ग एककसंयोगे च षडिति सप्त भङ्गाः, इदानीं द्विकसंयोगे भङ्ग दर्श्यन्ते, तत्र सप्तविधबन्धका एकविधबन्धकाश्चावस्थिताः, उभयेषामपि सदाबहुत्वेन लभ्यमानत्वात्, ततोऽष्टविधबन्धकपदेषड्विधबन्धकपदे च प्रत्येकमेकवचनमिति एको भङ्गः, । अष्टविधबन्धकपदे एकवचनंषड्विधबन्धकपदे बहुवचनंइतिद्वितीयः, एतौ द्वौ भङ्गावष्टविधबन्धकपदस्यैकवचनेन लब्धौ, एतावेव द्वौ भङ्गौ बहुवचनेनेति चत्वारः, एवमेव चत्वारो भङ्गाः अष्टविधवन्धकाबन्धकपदाभ्याम्, एवमेव चत्वारः षड्विधबन्धकाबन्धकपदाभ्यामिति, सर्वसङ्ख्यया द्विकसंयोगेद्वादशभङ्गाः, त्रयाणामष्टविधबन्धकषड्विधबन्धकरूपाणांपदानांसंयोगे प्रत्येकमेकवचनबहुवचनाभ्यामष्टौ भङ्गाः, सर्वसङ्कलनया सप्तविंशतिभङ्गाः, अत्रापर आह ननु विरतस्य कथं बन्धो?, न हि विरतिबन्धहेतुर्भवति, यदि पुनर्विरतिरपि बन्धहेतुः स्यात् ततो निर्मोक्षप्रसङ्गः, उपायाभावात्, उच्यते, न हि विरतिबन्धहेतुः, किन्तु विरतस्य ये कषायायोगास्ते बन्धकारणं, तथाहि-सामायिकच्छेदोपस्थानपरिरविशुद्धिकेष्वपि संयमेषु कषायाःसंज्वलनरूपा उदयप्राप्ताः सन्ति योगाश्च, ततो विरतस्यापि देवायुष्कादीनांशुभप्रकृतीनां तत्प्रत्ययो बन्धः, यथा च प्राणातिपातविरतस्य सप्तविंशतिर्भङ्गा उक्ताः तथा मृषावादविरतस्य यावत् मायामृषाविरतस्य, मिथ्यादर्शनशल्यविरतमधिकृत्य सूत्रमाह_ 'मिच्छादसणसल्लविरहणंभंते!' इत्यादि सुगमं, नवरंसप्तविधबन्धकत्वमष्टविधबन्धकत्वं षड्विधबन्धकत्वमेकविधबन्धकत्वमबन्धकत्वंच, मिथ्यादर्शनशल्यविरतेरविरतसम्यग्दष्टेरारभ्यायोगिकेवलिनंयावद्भावात्, नैरयिकादिचतुर्विंशतिदण्डकचिन्तायांमनुष्यवर्जेषुशेषेषुसर्वेष्वपि स्थानेषु सप्तविधबन्धकत्वंअष्टविधबन्धकत्वंवा, नषड्विधबन्धकत्वादि, श्रेणिप्रतिपत्त्यसम्भवात्, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy