________________
१६४
प्रज्ञापनाउपाङ्गसूत्रम् - २ - २२/// ५३२
मनुष्यपदे च यथा जीवपदे तथा वक्तव्यं, मनुष्येषु सर्वभावसम्भवात्, बहुवचनेनैतद्विषयं सूत्रमाह'मिच्छादंसणसल्लविरया णं भंते! जीवा' इत्यादि, अत्रापित एव पूर्वोक्ताः सप्तविंशतिर्भङ्गाः, नैरयिकपदे भङ्गत्रिकं, तत्र सर्वेऽपि तावद्भवेयुः सप्तविधबन्धका इत्येको भङ्गः, अयं च यदैकोऽप्यष्टविधबन्धको न लभ्यते तदा भवति, यदा पुनरेकोऽष्टविधबन्धको लभ्यते तदाऽयं द्वितीयो भङ्गः सप्तविधबन्धकाश्चाष्टविधबन्धकश्च, यदा पुनरष्टविधबन्धका अपि बहवो लभ्यन्ते तदा तृतीयः सप्तविधबन्धकाश्चाष्टविधबन्धकाश्च, एवं भङ्गत्रिकं तावद् वाच्यं यावद्वैमानिकसूत्रं, नवरं मनुष्यपदे सप्तविंशतिर्भङ्गका यथा जीवपदे इति ।
मू. (५३३) पाणातिवायविरयस्स णं भंते! जीवस्स किं आरंभिया किरिया कज्जति जाव मिच्छादंसणवत्तिया किरिया कज्जति ?, गो० ! पाणातिवायविरयस्स जीवस्स आरंभिया किरिया सिय कज्जति सिय नो कज्जति,
पाणातिवायविरयस्स णं भंते! जीवस्स परिग्गहिया किरिया कज्जति ?, गो० ! नो इणट्टे समट्टे, पाणातिवायविरयस्स णं भंते ! जीवस्स मायावत्तिया किरिया कज्जति ?, गो० ! सिय कज्जति सिय नो कज्जति,
पाणातिपातविरयस्स णं भंते! जीवस्स अपचक्खाणवत्तिया किरिया कज्जति ?, गो० ! नो इणट्टे समट्ठे, मिच्छादंसणवत्तियाए पुच्छा, गो० ! नो इणट्टे समट्टे, एवं पाणातिपातविरयस्स मणूसस्सवि, एवं जाव मायामोसविरयस्स जीवस्स मणूसस्स य,
मिच्छादंसणसल्लविरयस्स णं भंते ! जीवस्स किं आरंभिया किरिया क० जाव मिच्छादंसणवत्तिया कि० क० ?, गो० ! मिच्छादंसणसल्लविरतस्स जीवस्स आरंभिया कि० सिय क० सिय नो क०, एवं जाव अपच्चक्खाणकिरिया, मिच्छादंसणवत्तिया न क०,
मिच्छादंसणसल्लविरयस्स णं भंते ! नेरइयस्स किं आरंभिया किरिया क० जाव मिच्छादंसणवत्तिया कि० क० ?, गो० ! आरंभिया कि० क० जाव अपच्चक्खाणकिरियावि क०, मिच्छादंसणवत्तिया किरिया नो क०, एवं जाव थणियकुमारस्स,
मिच्छादंसणसल्लविरयस्स णं भंते! पंचिंदियतिरिक्खजोणियस्स एवमेव पुच्छा, गो० ! आरंभिया कि० क० जाव मायावत्तिया कि० क०, अपञ्चक्खाणकि० सिय क० सिय नो क०, मिच्छादंसणवत्तिया कि० नो क० । मणूस्स जहा जीवस्स ।
वाणमंतरजोइसियवेमा० जहां नेरइयस्स । एतासि णं भंते ! आरंभियाणं जाव मिच्छादंसणवत्तियाण य कतरे २ हिंतो अप्पा वा ४ ?, गो० ! सव्वत्थोवाओ मिच्छादंसणवत्तियाओ किरियाओ, अपच्चक्खाणकिरियाओ विसे०, परिग्गहियातो विसे० आरंभियातो किरियातो विसे०, मायावत्तियातो विसेसाहियातो ॥
वृ. अथारम्भिक्यादीनां क्रियाणां मध्ये का क्रिया प्राणातिपातविरतस्येति चिन्तयति'पाणाइवायविरयस्स णं भंते!' इत्यादि, आरम्भिकी क्रिया स्याद्भवति स्यान्न भवति, प्रमत्तसंयतस्य भवति शेषस्य न भवतीति भावः, पारिग्रहिकी निषेध्या, सर्वथा परिग्रहान्निवृत्तत्वात्, अन्यथा सम्यक्प्राणातिपातविरत्यनुपपत्तेः, मायाप्रत्यया स्याद्भवति स्यान्न भवति, अप्रमत्तस्यापि हि कदाचित् प्रवचनमालिन्यरक्षणार्थं भवति, शेषकालं तु न भवति, अप्रत्याख्यानक्रिया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org