SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १६० प्रज्ञापनाउपाङ्गसूत्रम्-२-२२/-1-1५३० भावस्तदेव क्रिया अप्रत्याख्यानक्रिया, 'मिच्छादसणवत्तिया' इतिमिथ्यादर्शनं प्रत्ययो-हेतुर्यस्याः सा मिथ्यादर्शनप्रत्यया, एतासां क्रियाणां मध्ये यस्य या सम्भवति तस्य तां निरूपयति-'आरंभिया णं भंते !' इत्यादि, ‘अन्नयरस्सवि पमत्तसंजयस्स'इति अत्रापिशब्दो भिन्नक्रमः प्रमत्तसंयतस्याप्यन्यतरस्य-एकतरस्य कस्यचित् प्रमादे सति कायदुष्प्रयोगभावतः पृथिव्यादेरुपमईसम्भवात्, अपिशब्दोऽन्येषामधस्तनगुणस्थानवर्तिनां नियमप्रदर्शनार्थः,प्रमत्तसंयतस्याप्यारम्भिकी क्रिया भवति किं पुनः शेषाणां देशविरतिप्रभृतीनामिति ?, एवमुत्तरत्रापि यथायोगमपिशब्दभावना कर्तव्या, पारिग्रहिकी संयतासंयतस्यापि देशविरतस्यापीत्यर्थः, तस्यापि परिग्रहधारणात्, मायाप्रत्यया अप्रमत्तसंयतस्यापि, कथमिति चेत्, उच्यते, प्रवचनोड्डाहप्रच्छादनार्थं वल्लीकरणसमुद्देशादिषु, अप्रत्याख्यानक्रिया अन्यतरस्याप्यप्रत्याख्यानिनः, अन्यतरदपि-न किञ्चिदपीत्यर्थः यो न प्रत्याख्याति तस्येति भावः, मिथ्यादर्शनक्रिया अन्यतरस्यापि सूत्रोक्तमेकमप्यक्षरमरोचयमानस्येत्यर्थः मिथ्यादष्टेर्भवति।। ___एता एव क्रियाश्चतुर्विंशतिदण्डकक्रमेण निरूपयति-'नेरइयाणं भंते' इत्यादि सुगम । सम्प्रत्यासां क्रियाणांपरस्परमविनाभावंचिन्तयति-तद्यथा यस्यारम्भिकी क्रियातस्य पारिग्रहिकी स्याद्भवति स्यान भवति, प्रमत्तसंयतस्य न भवति शेषस्य भवतीत्यर्थः, तथा यस्यारम्भिकी क्रिया तस्य मायाप्रत्यया नियमाद्भवति, यस्य मायाप्रत्यया तस्यारम्भिकी क्रिया स्याद्भवति स्यान्न भवति, अप्रमत्तसंयतस्य न भवति शेषस्य भवतीत्यर्थः, तथा यस्यारम्भिकी क्रिया तस्याप्रत्याख्यानक्रियास्याद्भवति स्यान्न भवति,प्रमत्तसंयतस्यदेशविरतस्यचन भवति, शेषस्य अविरतसम्यग्दृष्टयादेर्भ- वतीति भावः, यस्य पुनरप्रत्याख्यानक्रिया तस्यारम्भिकी नियमात्, अप्रयाख्यानिनोऽवश्यमारम्भ-सम्भवात्, एवं मिथ्यादर्शनप्रत्ययापिसहाविनाभावोभावनीयः, तथाहि-यस्यारम्भिकी क्रिया तस्य मिथ्यादर्शनप्रत्यया स्याद्भवति स्यान्न भवति, मिथ्याटेर्भवति शेषस्य न भवतीत्यर्थः, यस्य तु मिथ्यादर्शनक्रिया तस्य नियमादारम्भिकी, मिथ्यादृष्टेरविरतत्वेनावश्यमारम्भसम्भवात्, तदेवमारम्भिकी क्रिया पारिग्राहिक्यादिभिश्चतसृभिरुपरितनीभिः क्रियाभिः सह परस्परमविनाभावेन चिन्तिता, एवं पारिग्राहिकी तिसृभिर्मायाप्रत्यया द्वाभ्यामप्रत्याख्यानक्रिया एकया मिथ्यादर्शनप्रत्यया चिन्तनीया, तथा चाह-‘एवं पारिग्गहियावि तिहिं उवरिल्लाहिं समं संचारेयव्वा' इत्यादि सुगम, भावनायाः सुप्रतीतत्वात् । अमुमेवार्थं चतविंशतिदण्डकक्रमेण निरूपयति-'नेरइयस्स आइल्लातोचत्तारि' इत्यादि, नैरयिकाधुत्कर्षतोऽप्यविरतसम्यग्भ्रष्टिगुणस्थानकं यावन्न परतःततो नैरयिकाणामाद्याश्वतनः क्रियाः परस्परमविनाभाविन्यः, मिथ्यादर्शनक्रियांप्रतिस्याद्वादः, तमेमाह-'जस्सएयाओचत्तारि' इत्यादि, गिथ्याध्टेमिथ्यादर्शनक्रिया भवतिशेषस्य न भवतीतिभावः",यस्यपुनर्मिथ्यादर्शनक्रिया तस्याद्याश्चतस्प्रे नियमात्, मिथ्यादर्शने सत्यारम्भिक्यादीनामवश्यंभावात्, एवं तावद्वक्तव्यं यावत्स्तनितकुमारस्य। पृथिव्यादीनां चतुरिन्द्रियपर्यवसानानां पञ्च क्रियाः परस्परमविनाभाविन्यो वक्तव्याः, पृथिव्यादीनां मिथ्यादर्शनक्रियायाअप्यवश्यंभावात्, तिर्यक्पञ्चेन्द्रियस्याद्यास्तिनः परस्परमविना Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy